श्रीगङ्गास्तोत्रम्
(श्री शंकराचार्यकृतं)
देवि सुरेश्वरि भगवति गङ्गे
त्रिभुवनतारिणि तरलतरङ्गे।
शङ्करमौलिविहारिणि विमले
मम मतिरास्तां तव पदकमले ॥१॥
भागीरथि सुखदायिनि मात-
स्तव जलमहिमा निगमे ख्यातः।
नाहं जाने तव महिमानं
पाहि कृपामयि मामज्ञानम् ॥२॥
हरिपदपाद्यतरङ्गिणि गङ्गे
हिमविधुमुक्ताधवलतरङ्गे।
दूरीकुरु मम दुष्कृतिभारं
कुरु कृपया भवसागरपारम् ॥३॥
तव जलममलं येन निपीतं
परमपदं खलु तेन गृहीतम्।
मातर्गङ्गे त्वयि यो भक्तः
किल तं द्रष्टुं न यमः शक्तः ॥४॥
पतितोद्धारिणि जाह्नवि गङ्गे
खण्डितगिरिवरमण्डितभङ्गे।
भीष्मजननि हे मुनिवरकन्ये
पतितनिवारिणि त्रिभुवनधन्ये ॥५॥
कल्पलतामिव फलदां लोके
प्रणमति यस्त्वां न पतति शोके ।
पारावारविहारिणि गङ्गे
विमुखयुवतिकृततरलापाङ्गे॥६॥
तव चेन्मातः स्रोतः स्नातः
पुनरपि जठरे सोऽपि न जातः ।
नरकनिवारिणि जाह्नवि गङ्गे
कलुषविनाशिनि महिमोत्तुङ्गे ॥७॥
पुनरसदङ्गे पुण्यतरङ्गे
जय जय जाह्नवि करुणापाङ्गे।
इन्द्रमकुटमणिराजित चरणे
सुखदे शुभदे भृत्यशरण्ये ॥८॥
रोगं शोकं तापं पापं
हर मे भगवति कुमतिकलापम्।
त्रिभुवनसारे वसुधाहारे
त्वमसि गतिर्मम खलु संसारे॥९॥
अलकानन्दे परमानन्दे
कुरु करुणामयि कातरवन्द्ये
तव तटनिकटे यस्य निवासः
खलु वैकुण्ठे
तस्य निवासः ॥१०॥
तस्य निवासः ॥१०॥
वरमिह कमठो मीनः
किं वा तीरे शरटः क्षीणः।
अथवा श्वपचो मलिनो दीन-
स्तव न हि दूरे नृपतिकुलीनः ॥११॥
भो भुवनेश्वरि पुण्ये धन्ये
देवि द्रवमयि मुनिवरकन्ये।
गङास्तवमिमममलं नित्यं
पठति नरो यः स जयति सत्यम् ॥१२॥
येषां हृदये गङ्गाभक्ति-
स्तेषां भवति सदा सुखमुक्तिः।
मधुराकान्तापज्झटिकाभिः
परमानन्दकलित
ललिताभिः ॥१३॥
ललिताभिः ॥१३॥
गङ्गास्तोत्रमिदं भवसारं
वाञ्छितफलदं विमलं सारम्।
शङ्करसेवक शङ्कररचितं
पठति सुखी स्तव इति च समाप्तम्॥१४॥