श्रीरामकृष्णपमहंसध्यानस्तोत्रम्
(स्वामी
अभेदानन्दकृतम्)
अभेदानन्दकृतम्)
हृदयकमलमध्ये राजितं निर्विकल्पं
सदसदखिलभेदातीतमेकस्वरूपम् ।
प्रकृतिविकृतिशून्यं नित्यमानन्दमूर्तिं
विमलपरमहंसं रामकृष्णं
भजामः ॥१॥
भजामः ॥१॥
निरुपममतिसूक्ष्मं निष्प्रपञ्चं निरीहं
गगनसदृशमीशं सर्वभूताधिवासम्।
त्रिगुणरहितसच्चिद्ब्रह्मरूपं वरेण्यं
विमलपरमहंसं रामकृष्णं भजामः ॥२॥
वितरितुमवतीर्णं ज्ञानभक्तिप्रशान्तीः
प्रणयगलितचित्तं
जीवदुःखाऽसहिष्णुं।
जीवदुःखाऽसहिष्णुं।
धृतसहजसमाधिं चिन्मयं कोमलाङ्गं
विमलपरमहंसं रामकृष्णं
भजामः ॥३॥
भजामः ॥३॥