श्रीरामकृष्णावतारस्तोत्रम्
-२
सल्लोका विषयविरागिणो यदर्थं
सन्त्यक्तः सुखनिवहो बुधैश्च बाल्यात् ।
यल्लब्धुं कठिनतपो हि चर्यते
ज्ञै-
ज्ञै-
र्लिप्स्यन्ते त्रिदशगणाः सदा पदं यत् ॥१॥
यस्मान्नास्ति भगवतो हि किञ्चिदूर्ध्वं
सुप्राप्यश्च न खलु कस्यचिद्यतोऽन्यः ।
सोऽसावेव परमहंसरामकृष्णः
सर्वज्ञः सकलमनोमतः प्रशान्तः ॥२॥
रक्षार्थं निजवचनं त्रितापहर्ता
गौराङ्गेन भगवता प्रतिश्रुतं यत्।
भक्तार्थं परमदयाल आगतस्त्वं
मह्यां ते पुरुष समर्पयामि सर्वम् ॥३॥
स्वेनैव चेन्न कथितं शिव त्वत्प्रियेभ्यो
गुप्तावतार भगवन् भवतः कृपैवम् ॥४॥