श्रीसारदादेवीसुप्रभातम् -१
श्रीरामकृष्णसहधर्मिणी भव्यदिव्य-
श्रीराजमानवदने विहितावदाने।
वैराग्यशालिनि विशिष्टगुणांबुराशे
श्रीसारदे सुचरिते तव सुप्रभातम्॥१॥
कल्याणकारिणि नृणां शरणागतानां
शल्यापनोदनपरे विगताभिलाषे।
तौल्यातिरिक्तविभवे महितानुभावे
श्रीसारदे सुचरिते तव सुप्रभातम्॥२॥
अत्यन्तशान्तमनसां निजसेवकानां
अत्यन्तरोल्लसितमङ्गलदिव्यरूपे।
स्तुत्यर्हशीलगुणशालिनि शान्तशीले
श्रीसारदे सुचरिते तव सुप्रभातम्॥३॥
आनन्ददायिनि नृणां निजवाग्विलासै-
र्ध्यानस्थशिष्यगणमानसराजमाने ।
आनम्रभक्तजनसेवितपादयुग्मे
श्रीसारदे सुचरिते तव सुप्रभातम्॥४॥
हृद्यानवद्यमृदुशीलगुणे समस्तै-
र्हृद्यादरेण सततं परिचिन्त्यमाने।
विद्याविशेषविशदीकृतचित्तपद्मे
श्रीसारदे सुचरिते तव सुप्रभातम्॥५॥
दिव्यप्रभावलयिते सकलैरजस्रं
स्तव्यप्रभावलयिते निखिलाभिवन्द्ये।
भव्यप्रकर्षविलसन्महनीयरूपे
श्रीसारदे सुचरिते तव सुप्रभातम्॥६॥
आशावकाशततदिव्ययशोविताने
क्लेशावशाखिलजनावनजागरूके।
श्रीशादिसर्वदिविषद्जनैकलोले
श्रीसारदे सुचरिते तव सुप्रभातम्॥७॥
सन्तापनाशिनि भवामयपीडितानां
सन्तानपादपसमे चरणानतानाम्।
सन्तानितात्मविभवे विनयाभिरामे
श्रीसारदे सुचरिते तव सुप्रभातम्॥८॥
वीक्षाविधूतकलुषे सविधागतानां
दाक्षायणीपदसरोजनिलीनचित्ते।
अक्षामकान्तिपरिवेषलसन्मुखाब्जे
श्रीसारदे सुचरिते तव सुप्रभातम्॥९॥
विश्वाभिवन्द्यसुगुणे सकलेशभक्ति-
विश्वासपूर्णहृदये वनितावरेण्ये।
आश्वासदायिनि सदा भवरोगभाजां
श्रीसारदे सुचरिते तव सुप्रभातम्॥१०॥
योगेश्वरेश्वरमहागुरुधर्मपत्नि
सर्वार्थदे सकलशक्त्यवताररूपे।
आर्तप्रपन्नपरिपालनबद्धदीक्षे
श्रीसारदे सुचरिते तव सुप्रभातम्॥११॥