जगद्गुरुश्रीरामकृष्णस्तोत्रम्
लोकनाथश्चिदाकारो राजमानः स्वधामनि
मायाशक्तिं समाश्रित्य योऽवतीर्णो महीतले
नमोऽस्तु रामकृष्णाय तस्मै श्रीगुरवे नमः ॥१॥
सद्ब्राह्मणकुलेजातो दिव्यदेहं समाश्रितः
बाल्ये यो दिव्यभावेन वयस्यैः सह मोदयन्।
विरक्तो यौवने तीव्रं मायापाश-विवर्जितः
नित्यमुक्त-स्वभावोऽपि
लोकानुग्रहकामतः॥२॥
लोकानुग्रहकामतः॥२॥
लोकानामेव शिक्षार्थं तपस्तप्त्वा सुदुस्तरं
निद्राशनं परित्यज्य वर्षाणां द्व्यधिकान् दश।
स्वस्वरूपं समाधाय सच्चिदानन्दविग्रहं
दयामूर्तिः सदानन्दो जिज्ञासूनुपदिष्टवान्॥
तेषामज्ञाननाशाय लाभाय च परात्मनः।
नमोऽस्तु रामकृष्णाय तस्मै श्रीगुरवे नमः॥३॥
सत्यबोधतया साङ्गान् सर्वधर्मान् समाचरन्।
धर्ममात्रन्तु सत्यं वै येन सम्यक् सुनिश्चितम् ।
नमोऽस्तु रामकृष्णाय तस्मै श्रीगुरवे नमः॥४॥
यो भक्तान् भक्तिमार्गे तु निनाय लोकनायकः
आकृष्य मानसं तेषां भक्तिसिञ्चितया गिरा।
दर्शयित्वा महाभावं परमानन्ददायकं
नमोऽस्तु रामकृष्णाय तस्मै श्रीगुरवे नमः॥५॥
ज्ञानिनो ज्ञानमार्गे च येन सम्यक् प्रवर्तिताः
नमोऽस्तु रामकृष्णाय तस्मै श्रीगुरवे नमः॥६॥
यैर्मतैर्धार्मिका यस्मिन् धर्ममार्गे व्यवस्थिताः
तेषां तन्मतमादृत्य भक्तिस्तत्र दृढीकृता ।
प्रोत्साहिता यथान्यायं येन तत्साधनेष्वपि
नमोऽस्तु रामकृष्णाय तस्मै श्रीगुरवे नमः॥७॥
पूजिता येन वै शश्वत् सर्वेऽपि सांप्रदायिकाः
सम्प्रदायविहीनो यः संप्रदायं न निन्दति।
नमोऽस्तु रामकृष्णाय तस्मै श्रीगुरवे नमः॥८॥
नमोऽस्तु रामकृष्णाय तस्मै श्रीगुरवे नमः॥८॥
शश्वल्लीलाविलासेन येन सर्वमिदं ततम्।
लीलारूपं सदानन्दं रामकृष्णं नमाम्यहम् ॥९॥
सर्वधर्मप्रणेतारं धर्मग्लानिविनाशकं।
साधुमित्रं शिवं शान्तं रामकृष्णं नमाम्यहम् ॥१०॥
अज्ञानतिमिरे यस्तु ज्ञानालोकप्रदीपकः।
विमलानन्ददानाय प्रादुरासीन्महीतले ।
नमोऽस्तु रामकृष्णाय तस्मै श्रीगुरवे नमः॥११॥
संसारार्णवघोरे यः कर्णधारस्वरूपकः
नमोऽस्तु रामकृष्णाय तस्मै श्रीगुरवे नमः॥१२॥
त्वं हि विष्णुर्विरिंचिस्त्वं त्वं च देवो महेश्वरः।
त्वं चैव शक्तिरूपोऽसि निर्गुणस्त्वं सनातनः॥
त्वां स्तोतुं कोऽत्र शक्तः स्याद् भावातीतमनामयम्।
भगवन् सर्वभूतात्मन् रामकृष्ण नमोऽस्तु
ते ॥१३॥
ते ॥१३॥
सर्वाय सर्वपाराय सर्वभावस्वरूपिणे।
सर्वभावविहीनाय रामकृष्णाय ते नमः ॥१४॥
महामायास्वरूपाय महामोहविनाशिने।
मायातीताय शान्ताय रामकृष्णाय ते नमः॥१५॥
निरञ्जनं नित्यमनन्तरूपं
भक्तानुकम्पाद्धृतविग्रहं वै
ईशावतारं परमेशमीड्यं
तं रामकृष्णं शिरसा नमामः ॥१६॥