श्रीरामकृष्णषट्कम्
विशुद्धविज्ञानमगाधसौख्यं
विश्वस्य बीजं करुणापयोधिः।
अनाद्यनन्तं प्रकृतेः परस्तात्
तत्तत्त्वमेकं भुवि रामकृष्णः ॥१॥
न नेति भीत्या श्रुतयो वदन्ति
वदन्ति साक्षान्न च यं कदाचित्।
चिदेकरूपः शिव ईश्वराणां
महेश्वरोऽसौ भुवि रामकृष्णः ॥२॥
यं नित्यमानन्दमनन्तमेकं
शिवेति नाम्ना श्रुतयो गृणन्ति।
तस्यावतारो नररूपधारी
कृपासुधाब्धिर्भुवि रामकृष्णः ॥३॥
विज्ञानपीयूषनिमग्नमूर्तिः
पस्पर्श यान् यान् दयया करेण।
ते कामिनीकाञ्चनरिक्तचित्ताः
सद्यो बभूवुर्भुवि रामकृष्णाः ॥४॥
प्रेमाब्धिगम्भीरतरङ्गभङ्गै-
रान्दोलितो यो भगवद्विलीनः ।
भक्तिर्विशुद्धा स्वयमाविरासीत्
पुंविग्रहोऽहो भुवि रामकृष्णः॥५॥
तमद्भुतं कञ्चिदचिन्त्यशक्तिं
वन्दे प्रशान्तं परिपूर्णबोधम्।
ज्ञानस्य भक्तेश्च विशुद्धमूर्तिं
द्विमूर्तिमेकं भुवि रामकृष्णम् ॥६॥