SRI DESIKENDRA TARANGINI – I (SLOKAS 1-50)

श्री
देशिकेन्द्र तरङ्गिणी  – I
        (श्लोकाः  1-50)
   (शृंगगिरि गुरुपरंपरा स्तोत्रम्)
(By M J Narasimha Murthy, M.A., B.L.)
    ॥श्री गणेश शारदा गुरुभ्यो नमः॥
संसृत्याख्यमहाजले
निपतितान्सर्वान् समन्वग्रहीत्
   तत्प्रेमाभिधवीचिलालितजनान्
प्रान्तागतान् सत्वरम्।
क्षेत्राख्योडुपसुस्थितो
मधुरलावण्यैकधामाहरिः
   राधेश्याम सुवेणुनादरसिको  कैवर्तकस्तं
भजे ॥
              —०Oo—
एकं
सच्चिदनन्तमोदघनमव्यक्तात्मकं सर्वदा-
   प्यप्राप्यं मनसाऽपि वदेवचसा
वेद्मीति यज्जृंभते।
तादृक्‍तत्वमनादिभावरहितं तादृक् स्वरूपं परं
   ध्यानोद्भूतमहाप्रकाशविदितं
ध्यायामि तत्केवलम्॥१॥
मायाशक्तिरगोचरा
विजयते या ब्रह्मणि प्रोतवत्
   सा नित्या त्रिगुणात्मिका बहुविधा
सृष्टिं स्थितिं संहृतिं।
काली
मा वरभारतीत्यभिधया ब्रह्माण्डकोटीस्सदा
     क्रीडारूप
विवर्तनात्मक महा कौतूहलं तन्वती ॥२॥
इत्थं
भासुरशाश्वताऽखिलमहाऽद्वैताख्यकल्पद्रुमं
   विद्यातत्व युगादिहीनगुरुवंशाख्य
प्रवालात्मकम्।
गंगातीरमुपाश्रितं
ह्यघहरं मुक्तिप्रदं संततं
   लोके संसृतितापतप्तविहगश्शान्त्यर्थमासेवते
॥३॥
श्रीगौरीवदनारविन्दतरणिं
मौनीन्द्रसंसेवितं
    सद्योजातमुखादिजन्यसरिगामापाधनीसात्मकम्।
नादातीतकलास्वरूप
कनकास्थानस्थनाट्यप्रियं
    चिन्मुद्राधर सर्वलोकगुरुवंशस्यादिमं
भावये ॥४॥
धर्मार्थप्रमुखांश्चतुर्विधगणान्
श्रीशंखचक्रादिवत्
    हस्ताब्जैर्दधतं त्रिविक्रमपदं
गंगावताराश्रयम्।
श्रीकान्तं
जगतां महार्तिहरणं तेजोमयानन्ददं
    अद्वैताख्यसमुन्दरोद्धृतिपरं
श्रीदेशिकेन्द्रं भजे ॥५॥
विष्णोर्नाभिकुशेशयान्तरपुटीभृङ्गायमाणं
विधिं
  त्रय्यन्तात्मकविष्णुनोदिततपोमूर्तिं
स्वयं संभवम्।
 स्रष्टारं मनसा सनन्दनमुखस्याजन्मसिद्धस्य
तं
   संसर्तॄन् नवधाथकाश्यपमुखान्
सञ्चोदयन्तं भजे ॥६॥
सीतारामगुरुं
सतीप्रियतमं ब्राह्मण्यसंरक्षकं
   विश्वामित्रसखं पितामहसुतं
तेजोमयानन्ददम्।
अद्वैताब्धिमहौघयोगपथमार्ताण्डप्रभुं
देशिकं
   गायत्रीपरमाप्तमूर्तिमनिशं
वन्दे वसिष्ठं मुदा ॥७॥
वन्दे
श्रीशक्तियोगीन्द्रं अरुन्धत्यास्सुतं प्रियम्।
पारंपर्याप्तसद्विद्या
ज्योतिराकर भास्करम् ॥८॥
स्मृत्यादिप्रभवः
प्रशान्तमुनिराट् वासिष्ठवंशोद्भवः
   पारंपर्यसमागताऽखिलमहाधर्मप्रतिष्ठापकः
निर्व्याजाचरणेन
धर्ममखिलं योऽस्थापयत्तिष्यके
   शाक्तेय स्सच लोकवन्द्यचरणो
मन्मानसे तिष्ठतु ॥९॥
आद्ये
सत्वमुनिस्सतां वितरति ज्ञानं द्वितीये युगे
    दत्तो द्वापरनामके तु सुमतिर्व्यासः
कलौ शङ्करः।
एतैः
कालवशादभास्वरमिदं चाद्वैतचिद्व्योमकं
     पारंपर्यगुरूपदेशविभवाज्जाज्वल्यमानं
कृतम् ॥१०॥
साध्वी
श्री वरदेवहूतिरबला तेपे हरेस्तृप्तये
    तुष्टस्सोऽपि रमापतिस्तनयतारूपं
वरं दत्तवान्।
पुत्रत्वं
च दधार कर्दमगृहे सांख्यं समास्थापयत्
    तस्मै श्री कपिलावतारवपुषे
भूयो नमस्कुर्महे ॥११॥
त्रेतायामभवत्त्रिमूर्तिविभवो
योऽत्रेस्तनूजात्मना
   दत्तात्रेयगिराऽवधूतमुनिराट्
वेदांश्च रूपंधरान्।
गायत्रीं
श्रुतिमातरं च वरधेन्वाकारमाबिभ्रतीम्
    प्रान्तस्थां परिगृह्य पूर्णकरुणं
तं नौमि नित्यं मुदा ॥१२॥
व्यासस्सत्यवतीसुतस्तु
बदरीमूले समाधौ स्थितः
   पाराशर्यमहाविशालधिषणो वेदान्
विभक्तान् व्यधात्।
आम्नायार्थविशेषबोधनपरानष्टादशाग्न्यादिकान्
   भूयोऽष्टादश तादृशान् व्यरचयत्ग्रन्थान्
पुराणाभिधान् ॥१३॥
श्रीमद्भारतमत्र
वेद इति यज्जेगीयते पञ्चमः
   कृत्वा तत्परमादराच्च शतसाहस्री
सुपद्यैर्युतम्।
गीतारूपसुधाप्रपूर्णकलशं
मध्ये समस्थापयत्
   श्रेयस्कामिमुदे चकार विशदं
श्रीब्रह्मसूत्राण्यपि ॥१४॥
मौनीन्द्रं
परमात्ममग्नमनसं तेजोमयं सद्गुरुं
   शम्याप्राससमागतेन मुदितं श्रीनारदेनाञ्जसा।
अद्वैतार्णवपूर्णचन्द्रमभिधा
पद्माटवी भास्करं
   तं व्यासं हरिसत्कथा प्रमुदितं नित्यं प्रपन्नोऽस्म्यहम्॥१५॥
वेदव्याससुतं
शुकाभिधगुरुं सद्ज्ञानमोदात्मकं
    साक्षाद्ब्रह्मवदद्वितीयवपुषं
पित्राह्वये मोहतः।
कारुण्याकुललोचनाय
करुणं पुत्रेति विक्रोशते
    सर्वत्रास्ति
परं प्रधानमिति यः प्राचीकटत्तं भजे ॥१६॥
सद्योमुक्तवदात्मतत्त्वसुसुधापानप्रियो
देशिकः
    कौमारेऽपि सुधीः प्रतीक्ष्य
मनुजानज्ञानकूपस्थितान्।
गोदोहान्तरकालयापनमहो
यो नो विषेहे परम्
    सञ्चारात्मक वृत्तिमेव सततं
प्रेम्णा समाशिश्रिये॥ १७॥
गङ्गातीरोगतो
हि शृङ्गिवचनात् शप्तः परीक्षिन्मही-
पालो
वीतसमस्ततापसरणिर्ब्रह्मात्मयोगप्रियः ।
सद्योमुक्तिमवाप्तुमेव
सुधिया मौनीन्द्रपूजारतः
श्रीमद्भागवतामृतं
शुकमुखादास्वाद्य मुक्तिं गतः ॥१८॥
       
श्रीकृष्णो
भगवान् स्वयं भुवमतित्रस्तां समाश्वासितुं
   लीलामानुषविग्रहस्सुपरमं श्रेयो
व्यधात् भूतले ।
 गीतावेणुनिनादलोलमनुजान् संसारतापत्रयात्
   तीर्त्वा विष्णुपदं प्रयान्त्विति
मुदा सर्वान् समन्वग्रहीत् ॥१९॥
इत्थं
द्वादशचण्डरश्मिसदृशस्कन्धात्मकं मोक्षदम्
श्रीमद्भागवताभिधौपनिषदं
योगी परीक्षित्कृते ।
गायन्तं
परमादरात्सुविमलं ब्रह्मात्मयोगे स्थितं
स्त्रीपुंभेदविचारवीतमनसं
श्रीदेशिकेन्द्रं भजे ॥२०॥
माण्डूक्ये
वरकारिका व्यरचयद्वेदान्ततत्त्वार्थगाः
   यः प्राचीन किरातजृंभितमहाऽद्वैताभिधे
कानने।
सञ्चाराहतकेसरी
वरगुरुः तेजोमयानन्ददः
   गोविन्दार्चितपादपद्मयुगलं
तं गौडपादं भजे ॥२१॥
यश्शब्दार्णवभाष्यचन्द्रमतुलं
लोकोपकारेच्छ्या
  कृत्वा पाणिनि देशिकेन्द्रहृदयं
चक्रे सुविस्तारितम्।
मीनाक्षीप्रियसुन्दरेशनटनं
श्रीव्याघ्रपादादिभिः
   साक्षादैक्षत धन्यधन्यमनिशं तं शेषमूर्तिं भजे ॥२२॥
त्यक्त्वा
पूर्वभवां पतञ्जलितनुं रेवादरीवासिनः
   गोविन्दाभिधसद्गुरोः पदयुगं
श्रीशङ्करार्यागमम्।
नित्यं
तत्र विपश्यतोऽति सुधियः दातुं चतुर्थाश्रमम्
   तद्वन्द्यं गुरुमूर्तिपूज्यचरितं
वन्दामहे संततम् ।२३॥
सेवारूपसमस्तयोगनिपुणं
पर्यङ्करूपं हरेः
   छत्रीभूतमहीधरं सुधवलं लक्ष्मीनृसिंहस्य
तम्।
साहस्रैः
फणमण्डलैः धृतमहाभूमण्डलं संततं
   भूतेशोभयपादभूषणतनुं शेषस्वरूपं
भजे ॥२४॥
श्रीमत्कालटिनामके
सुविमले क्षेत्रे वृषेशप्रिये
   चार्यांबाशिवगुर्वभिख्यशिशुवत् संभूतवान् शंकरः।
लीलामानुषविग्रहस्तु
विपुलाऽद्वैताख्य सत्यं मतं
   लोके स्थापयितेति भीत इव कालष्टीकते
भूतले ॥२५॥
 
पूजाप्रीतपरांबिकातिमुदा
स्तन्यं स्वयं या ददौ
    बालायाखिललोकशंकरभुवे तार्तीयके
वत्सरे।
तत्सौन्दर्यविमर्शचित्रलहरीं  यो
निर्ममे तत्पुरः
    तं दिव्यं परमार्थदं परगुरं
स्तोष्यामि भक्त्यान्वहम्॥२६॥
निन्ये
पञ्चमहायने स निकटं वेदानवाप्तुं गुरोः
   पाणावामलकं यथा स सकलं शास्त्रं
क्षणादग्रहीत्।
भिक्षादातृदरिद्रविप्रनिलयं
लक्ष्म्या समापूरयत्
   मौनीन्द्रैस्सह मातृवाक्यममलं
मूर्ध्ना प्रतस्थे वहन्॥२७॥
रेवातीरगतः
प्रपूज्यगुरुगोविन्दार्यपादांबुजं
   सन्यासं वररत्नगर्भगणपं खण्डेन्दुमौलीश्वरम् ।
स्वीकृत्यार्तिदमद्भुतं
करुणया रेवा प्रवाहं हरन्
   श्रीमन्मुक्तिपुरीं गतः प्रमुदितो
गङ्गाधरं चार्चयत्॥२८॥
तत्राभूत्किल
शंकरार्यभगवद्विश्वेशयोस्सङ्कथा
   चण्डालस्य तु वेषभाक् सुगुरुस्सान्निध्यं
गतोहीश्वरः
दूरं
गच्छ वचोऽब्रुवन्सगुरुराडूचे विमृश्यात्मनो
   देहस्यापि च तत्त्वमेष मुनिराट्
जित्वा व्यजृम्भत्तदा ॥२९॥
विश्वेशस्य
कृपाबलात्तु गुरुराट् शैष्यौघकल्पद्रुमः
     पद्मांघ्रिं वरतोटकं
करुणया छात्रौ च सोऽन्वगहीत्।
श्रीहस्तामलकाख्य
शिष्यमतुलं प्रेम्णानुगृह्णन्मुदा
      भाष्यं कर्तुमना जगाम
बद्रीनारायणं क्षेत्रकम् ॥३०॥
तत्र
स्थापितवान् ततो ह्यलकनन्दावारिमग्नं हरिं
      प्रस्थानत्रयभाष्यमत्रकृतवान्  स्वे
षोडशे वत्सरे।
श्रीकाशीनगरं
पुनश्च गतवान् गंगासुतीराश्रितम्
      शिष्याध्यापनकार्यमत्र
कृतवान् वन्दे परं देशिकम्॥३१॥
तत्राभूत्किल
शंकरार्यविमलव्यासार्यवादः परः
  तार्तीयस्थतदन्तरादिमबृहत्सूत्रस्य भाष्यं प्रति।
अद्वैताख्यमहाब्धिमन्थनमतिं
तात्पर्यपीयूषदं
   व्यासानुग्रहपूर्णपात्रममलं भूयो नमस्कुर्महे ॥३२॥
 गत्वा शिष्ययुतः प्रयागममले
स्नात्वा त्रिवणी जले
     मात्रा संस्मृत एव गतवान्
ह्याकाशमार्गेण ताम्।
 शुश्रूषात्मक मातृभक्तिनिरतः
चक्रेऽखिलां संस्कृतिम्
     मात्रे विष्णुपदं वितीर्य
मुदितं वन्दे सदा मद्गुरुम् ॥३३॥
 प्रातः शीघ्रमयं प्रयागममलं
श्रीभट्टपादाभिधं
     मीमांसाख्य सुकर्मशास्त्रजलधेः
कर्तारमीशाज्ञया।
 सुब्रह्मण्यमहाप्रभुं नृवपुषं
निर्जेतुकामो मुदा
     दृष्ट्वा तत्र तुषाग्निपूतवपुषं मुक्तिर्ददौ शङ्करः ॥३४॥
 
  
 धातारं शुभमण्डनाख्यविबुधं
भट्टस्य शिष्यं परं
     श्रीसाध्वी वरभारतीधवमथो
माहिष्मती पत्तने।
 जित्वा  वादविधौ
स्वकर्मनिरतं दातुं च तस्मै मुदा
     सन्यासं
निजशिष्यसंघघटकं कर्तुं स चक्रे मनः ॥३५॥
व्यासं
जैमिनिमाजुहाव विबुधः श्राद्धक्रियाभुक्तये
     योगीन्द्रं
स कषायवीतवपुषं तं शंकरं दृष्टवान्।
निन्दामस्य
तदाऽकरोत् गुरुवरं वादाख्यभिक्षार्थिनं
     दास्यामीति समर्चयन्
समतनोत् श्राद्धं सुधीर्मण्डनः॥३६॥
माध्यस्ते
वरभारतीं  नियुयुजे वादो विचित्रोह्यभूत्
   श्रीमण्डनपण्डिताख्यविबुध श्रीशंकराभ्यां  तदा।
कर्मज्ञानपरत्वनिर्णयफलः
कृत्वा च शास्त्राशयम्
   व्यक्तं देशिकशंकरो विजितवान्
तं संततं भावये ॥३७॥
श्रीमन्मण्डननायिकाकृतरतिप्रश्नादवाक्सन्यतिः    
   लब्ध्वा मासमिहावधिं ह्यमरुकस्याविश्य
देहे तदा।
तस्मादागतवान्
नृसिंहकृपया ब्राह्मीं विजित्याभ्यगात्
    शृङ्गक्ष्माभृतिसर्वपुण्यफलदे
चक्रे निवासं गुरुः ॥३८॥
स्थूलसूक्ष्मवरकारणदेहप्लोषणेन
वरमोक्षमवाप्तुम्।
   जीवकोटिमयि चोदय शीघ्रं शारदे
स्वकरुणया भवभीतम्॥३९॥
   
तुंगाजलार्द्रकमनीयपदांबुजेशं गंगाहिमांशुपरिशोभितदिव्यकेशम्।
   श्यामालिकुन्तलगिरीशसुतासुदेहाश्लेषीकृतार्धवपुषं  भजतात्रमर्त्याः॥४०॥
वाग्देवीं
वरचन्द्रमौलिममलं नित्यं मुदा पूजयन्
   तस्थौ द्वादशवत्सरानिह तदा
शिष्यं सुरेशं यतिम्।
आचार्यप्रथमं
चकार सुयजुर्वेदीयशाखामठे
    नानाक्षेत्रवरान् ददर्श कुमतीन्
जित्वा प्रबोधं व्यधात् ॥४१॥
श्रीमच्छंकरदेशिकेन्द्रयतिराट्
देशाटनव्यापृतः
    काश्मीरस्थितशारदाविमलपीठारोहणाद्भूतले
सार्वज्ञ्यं
प्रविसार्य गौडपदपद्मांघ्रिं मुदा पूजयन्
    केदारे
दिविषद्गणैः परिवृतो कैलासमापेदिवान् ॥४२॥
षट्संस्थाप्य
मतानि सर्वजनतां ह्यज्ञानकूपस्थितां
    उद्धृत्याश्रितवत्सलो व्यरचयत्
ग्रन्थान् बहून् विस्तृतान्।
प्रस्थानत्रयभाष्यरत्नसुखनिं
तेजोमयानन्ददं
     ह्यद्वैताख्यसुधाब्धिपूर्णशशिनं
वन्दामहे शंकरम् ॥४३॥
नित्यो
निर्मलवाक्सुधारसयुतो भक्तानुकंपी गुरुः
   हार्दस्थो मम नित्यमेव यमयन्
सर्वाः क्रिया राजते ।
मूर्तिर्ध्येयतमा  मदीयधिषणाधाऽऽरः
त्वमेवासि भोः
   त्वत्प्रेमात्मक भक्तिमेव विमलां
शंभो सदा देहि मे ॥४४॥
ब्रह्माणं
बुधमण्डनाख्यवपुषं तेजोमयानन्ददं
   पारंपर्यतयाप्तवैभवमठाचार्यं
सुरेशाभिधम्।
अद्वैतार्णवशंकरप्रियतमं
नैष्कर्म्यसिद्धिप्रदं
   शृंगक्ष्माभृति वर्तमानममलं
वन्दामहे सन्ततम्॥४५॥
चोले
सह्यसुतानिलैश्शुभतमे जातं सनन्दाभिधं
   ह्याचार्ये दृढभक्तिमंबुजचयावष्टब्धपादद्वयम्।
प्राच्यामद्वयसंप्रदायविशदीकाराय
गोवर्धने
   स्थातारं यतिवर्यमाश्रितदयं
वन्दामहे संततम्॥४६॥
मूकत्त्वेन
सुतत्त्वबोधनपरं ह्याचार्यहर्षप्रदं
   श्लोकद्वादशिकाप्रणीत निखिलाम्नायार्थमद्वन्द्विनम्।
श्री
हस्तामलकं गुरुं विमलसामाम्नाय सुद्वारका
   पीठस्थं वरकालिका मठयतिं वन्देऽनुभूतिप्रदम्॥४७॥
  
श्रीमत्पूज्यपदार्चनाप्त
सुधिया यस्तोटकग्रन्थकृत्
  पीठस्थो बदरीवने च निगमं तुर्यं सदा वर्तयन्।
अंशो
गन्धवहस्य दिव्यविभवः तेजोमयानन्ददः
   वन्दे श्रीमठदेशिकेन्द्रममलं तं तोटकार्यं मुदा
॥४८॥
शृंगेरीपुरनाथदेशिकसुरेशाचार्यपाण्युद्भवं
   ह्यद्वैतार्कसुनित्यबोधघनसोमार्काग्निनेत्रप्रियम्।
श्रीमच्छारदया
प्रचोदितहृदं व्याख्यानपीठाधिपं
   तं वन्दे परमादरात्सुमनसं तोजोमयानन्ददम् ॥४९॥
वन्दे
ज्ञानघनार्थदेशिकपदं ज्ञानोत्तमं तं मुनिम्
  ह्यन्वर्थं वरनामकं सुविमलं भक्तौघकल्पद्रुमः।
अद्वैताख्य
परंपरां सुविमलां योऽस्थापयत्तिष्यके
  शृंगक्ष्माभृतिवर्तमानमतुलं तुंगाश्रयानन्ददम् ॥५०॥
  
  
  

Author Socials Follow me