SRI DESIKENDRA TARANGINI II

         श्री
देशिकेन्द्र तरङ्गिणी II
       (श्लोकाः ५१-१०8)
   (शृंगगिरि गुरुपरंपरा स्तोत्रम्)
(By M J Narasimha Murthy, M.A., B.L.)
   
तस्य श्रीकरपद्मजातपरमं श्रीज्ञानगिर्याख्यया
 
ख्यातं निर्मल निर्विकल्पपरमज्ञानप्रभाभास्वरम्।
अन्तेवासि सुकल्पवृक्षसदृशं मोक्षप्रदं
देहिनां
  
वन्दे पूज्यतमाभिपूज्यचरणं
तेजोमयानन्ददम्॥५१॥
श्रीमत्सिंहगिरीश्वरोऽतिबहुलान् पाषण्डवादप्रियान्
  कान्तारस्थसरीसृपादिसदृशान्
बौद्धान् सृगालात्मकान्।
 दृष्ट्या स्वप्रतिभाप्रसारणपुषा संस्तंभयन् स्वं मतम्
  
गंभीरं परिसञ्चरन् गुरुवरश्चक्रे विनिष्कण्टकम्
॥५२॥
 वन्दे श्रीगुरुमीशतीर्थमखिलैर्लोकैस्सदावन्दितं
    
मायावादमशेषवादजयिनं स्पष्टं
विवृण्वन्निजम्।
श्रीमद्देशिकवागधीशमनघं व्याख्यानपीठाधिपं
  
शृंगक्ष्माभृति वर्तमानममलं
तेजोमयानन्ददम्॥५३॥
पञ्चास्य प्रतिरूपरूपमहितस्तंभं विभिन्दन्
पुरा
   
दैत्येशस्य हि तामसात्मकमतेः
नारायणद्वेषिणः।
क्षिप्रध्वंसनतुष्ट बालसुमतिप्रह्लादसन्तोषितः
   
तं वन्दे गुरुराजरूपविभवं सद्यो
नृसिंहाभिधम् ॥५४॥
 विद्याशंकरतीर्थपादगुरुराट्  तेजोमयानन्द भो
  
योगारूढ समाधिनित्यनिरतोर्वीगर्भवासप्रिय।
नित्यं वाञ्छति लंबिकाख्यवरयोगारूढतां
ते मनः
  
त्वां वन्दे दृढभक्तिभावसुलभं
सर्वज्ञमूर्तिं सदा ॥५५॥
पायान्मां वरकृष्णतीर्थयतिराट् श्रीभारतीपूर्वक
 
मद्बुद्धिं त्वदधीनमेव कुरु
पापारण्यदवानल
मच्चित्ते निवसन्मुदास्मितकरं  ज्ञानाङ्कुरं वर्धय
  
श्रृंगेरीस्थितशारदार्चनतपोयोगाप्तविद्यान्वित
॥५६॥
विद्यारण्ययतीश ते सुतपसा तुष्टा हि लोकेश्वरी
   
दारिद्र्यादतिखिन्नमानसमहो
कल्याणवृष्ट्या शिवा।
दत्त्वा मोदमकारयद् हृतमना धर्मस्य
सञ्जीवनम्
   
त्वां वन्दे परमादरात् गुरुवरं
पापौघदावानलम् ॥५७॥
तं वन्दे निगमान्तभाष्यसुखनिं राज्यप्रतिष्ठापकम्
   
श्रीविद्यानगरीं समस्तवसुधाभूषां
हि यो निर्ममे।
तस्य श्रीयुतमाश्रयं हरिहरं भूपं व्यधाद्यः  प्रभुः
  
सौख्यं यत्र च  रामराज्य इव संलेभे महीमण्डलम् ॥५८॥
अन्वर्थाभिधमात्मतत्त्वमखिलं यद्ग्रन्थजाले
स्फुटं
 
आनन्दाब्धितरङ्गताडितपदो ह्याचार्यचूडामणिः।
अद्वैताख्यमहानिधिं विपुलभूलोके स्थिरं
व्यातनोत्
  
शेषेणापि यदीयसद्गुणकथा शक्यापि
नो भाषितुम् ॥५९॥
विद्यारण्यकटाक्षवीक्षणमहाज्योत्स्नाचकोरात्मकः
 
व्याख्यापीठमलंचकार मुदया श्रीचन्द्रचूडाभिधः
वैखर्यां वरभारतीति गदितः तेजोमयानन्ददः
 
शृंगक्ष्माभृतिवर्तमानममलं
तं मन्महे संततम् ॥६०॥
वन्दे श्रीनरसिंहपूर्ववरभारत्याख्यमस्मद्गुरुम्
  
श्रीलक्ष्मीनरसिंहमूर्तिविमलांभोजांघ्रियुग्मं
सदा।
भक्त्या भावयितुं कृतादरमतिं संसारतापत्रयी
  
सद्यश्छेदिकृपाकटाक्षलहरी
क्षेत्रं समाधिस्थितम् ॥६१॥
श्रीमद्देशिकवर्यशंकर तवाङ्घ्र्यब्जे मदीये
मृदौ
 
हृत्पद्मे करुणालवात् सुविशदं
नित्यं मुदा भासयन्।
त्वद्भक्तिस्तुतिसत्कथामृतझरी निर्मज्जनेन
स्वयं
  
सिद्धिं देहि विधेहि जन्म सफलं
विद्यां प्रदाय प्रभो॥६२॥
मायानिर्मितमेव दृश्यमखिलं माया च सा कल्पिता
  
देवो विष्णुरनन्तसौख्यविमलो
मूर्तिंस्तया प्राप्नुते।
इत्थं श्रीपुरुषोत्तमोऽपि जगतः स्थित्यादिभिः
क्रीडती-
 
त्येवं श्रीपुरुषोत्तमो ज्ञपयति
श्रीभारती संज्ञितः॥६३॥
तस्य श्रीकरसंभवः रिपुहरः श्रीचन्द्रमौलीश्वरः
  
निर्दिष्टो वरभारतीत्यनुपमो
ज्ञानप्रदो देहिनाम्।
शृंगेरीपुरनाथपूज्यमहिमा ह्यद्वैतरक्षामणिः
   
मच्चित्ते निवसन् प्रचोदयतु
मां सांख्ये स्वयं दुर्गमे ॥६४॥
मृग्येशानपुराधिनाथमनिशं
तेजोमयानन्ददम्
  
ब्राह्मीरत्नगणेशशंभुमनघं कोटीरपूजारतम्।
अष्टांगाञ्चित सर्वयोगपदवी निष्ठात्मकं
सन्ततम्
  
छात्राणां हृदयेशयं बहुविधं
पापं दहन्तं भजे  ॥६५॥
षट्कर्मात्मक धर्मविस्तृतिपरं ह्यद्वैतचिन्तामणिं
   व्याख्या सिंहसुपीठभूषणगुरुं देदीप्यमानं मुदा।
 तुङ्गातीरविहारिणं
निरुपमं प्रज्ञानतत्त्वाऽभिधं
   
भक्त्याऽहं सततं प्रणौमि परमं
तेजोमयानन्ददम् ॥६६॥
अद्वैताख्यमहाब्धिपूर्णशशिनं स्वानन्दमूर्तिं
गुरुं
  
स्वात्माराममनन्तलोकमहितं कोदण्डवीतं
परं।
तत्त्वं व्यङ्क्तुमना यथा रघुवरो लोकोपकारं
व्यधात्
 
तद्वत् योगिवरं श्रितार्तिहरणं
श्रीरामचन्द्रं भजे ॥६७॥
पञ्चास्यः परमेश्वरः पशुपतिः दुःखात्पशून्
मोचय-
 
त्येवं घोरभवाटवी मृगपतिः पञ्चाननं
सञ्चरन्।
स्वप्ने व्यक्ततयाऽपि हस्तिनमलं पञ्चत्वमापादय-
 
त्येवं श्रीनरसिंहभारतिगुरोः
कृत्यं विचित्रं सदा ॥६८॥
नमत्सर्वगीर्वाणकोटीरकोटि-
 
प्रभापुंजनीराजिताङ्घ्रिं परं
तम् ।
अनादिस्थ षट्दर्शनस्थापनार्यं
  
 नृसिंहाख्य तद्भारतीमूर्तिमीडे ॥६९॥
नृसिंहभारतीगुरुं सुवेदधाम संततम्।
समाधियोगिदेशिकं मुदा नमस्करोम्यहम् ॥७०॥
शिवपुत्रं गजवक्त्रमिन्द्रनुतं मूलाख्यचक्रस्थितं
 
सर्वत्रापि परंस्थितिप्रकटनं
विघ्नस्वरूपं तथा।
सद्विद्यात्मकमादिदेशिकवरं तेजोमयानन्ददं
  
यो हेरंबमदर्शयत् गुरुवरः स्तम्भान्तरे
तं भजे ॥७१॥
नृसिंहाख्य योगीन्द्र सच्चित्तमोदात्मको
भारतीवाच्यसुज्ञानसिन्धो
जयश्रीलसत्सिंहपीठाधिरूढ नमस्ते नमस्ते
पुनस्ते नमोऽस्तु ॥७२॥
वन्दे श्रीमुक्तिकन्यापरिणयगृहिणं योगिवन्द्यं
प्रशान्तं
 
शृंगेरीपीठवासं ह्यभिनवनरसिंहाभिधानं
यतीशम्।
योगीन्द्रं भक्तिभाजां परमकरुणया सर्वदा
द्योतमानं
  
श्रीविद्यामन्त्ररूपं परमगुरुवरं
सच्चिदानन्दधामम्॥७३॥
श्रीमदादिगुरुभारती नमो सच्चिदात्मकसुखस्वरूपिणे।
योगिवर्य विनतांघ्रये नमो ध्यानगम्य नरसिंहमूर्तये॥७४॥
ततो मठाधीशपदे नृसिंहो
  
ह्यभूत्सबालोऽपि पुरात्तपुण्यैः।
 संप्राप्य
सन्यासमहोदिनान्ते
 
 सर्वोऽहमस्मीति समन्वभूत्स्वम्॥७५॥
श्रीसच्चिदानन्दशिवाभिनव्यः
   
प्रसन्नगम्भीरमुखारविन्दः।
ज्ञानाभिलाषी सकलान्प्रबन्धान्
   
समग्रहीदेकपदे सलीलम् ॥७६॥
प्रेम्णानुगृह्णन्स समस्तलोकं
 
 अज्ञानबन्धं त्वरितं ददाह।
तत्त्वोपदेशैरपि कर्मबोधैः
 
 नमस्करोम्यद्य तमाशुभक्त्या ॥७७॥
सदाशिवब्रह्मणिसक्तबुद्धिं
  मुदा सदा रामकथानिमग्नं।
बुद्धिस्थवेदागमशास्त्रसंघं
 
नमामि वाचस्पतिवन्द्यमूर्तिम्
॥७८॥
कलादिमध्यान्तसुदूरदूरं
 
 छात्रार्थमार्द्रार्द्रमतिं नृदेहम्।
लोकोपकर्तारममन्दमोदं
 
 वन्दामहे देशिकराजराजम् ॥७९॥
श्रीशारदाचन्द्रधरौ नमन्तीं
 
भक्त्यध्वगः राजकिरीटजुष्टाम्।
वेदान्तसंवेद्यपरार्थरूपं
 
 श्रीशङ्करस्याद्भुतमूर्तिमीडे ॥८०॥
श्रीमद्भक्तिसुधातरङ्गिणी महादेवस्य तोषावहं
 
तद्वद्भातिपुमर्थनिर्णयमिति
ग्रन्थस्तदीयः परः।
तत्तत्तीर्थनिषेवणादि समये बुद्ध्या प्रपञ्चीकृतं
 
एवं ग्रन्थविभूषणं कृतगुरुं
स्तोष्यामि भक्त्या सदा ॥८१॥
वेदान्तादिसुशास्त्रसारविमलप्रद्योतनाहस्करं
  
श्रीविद्यादिगभीरवार्धिमथनं
नाडीपरीक्षाचणम्।
सन्नैयायिकवाक्पतिं सदमलायुर्वेदधन्वन्तरिं
  
पाषण्डादिविनाशकं हृदि
भजे मत्तेभपञ्चाननम्॥८२॥
नित्यानित्यविवेकतत्त्वनिलयः शान्तात्मनामग्रणीः
 
आत्मारामदुरन्ततापशमनः विद्यौघकल्पद्रुमः।
पारंपर्यसमागताखिलमहाविद्यातपोभासुरः
 
अन्वर्थाभिधचन्द्रशेखरगुरुः
मां पातु नित्यं मुदा ॥८३॥
शान्तं सज्जनसेवितं मुनिवरं सौभाग्यसंपत्करं
  
नित्यं निर्मलवाक्सुधारसयुतं
भक्तानुकंपापरम्।
ध्यानावस्थितचेतसं निरुपमं ध्यानास्पदं
देहिनां
    वन्दे सुन्दरमन्दहासवदनं संसारबन्धच्छिदम् ॥८४॥
वेदे शास्त्रचये पुराणनिवहे तर्के च वाचस्पतिः
 
माधुर्यप्लुतभाषणे सुकवितासंपादने
भार्गवः।
वैराग्ये वरभीष्मतुल्यविभवः श्रीकृष्णभक्त्यांशुकः
  
श्री शम्भ्वादिपरंपरागतगुरुः
श्रीचन्द्रचूडाभिधः ॥८५॥
पारिव्रज्यविधेयधर्मपरमः तेजोमयानन्ददः
  
अद्वैताभिधमाधुरीभटलसत्पीयूषदाता
गुरुः।
विद्यारूपकलानिधानमहितः देहीति भाभाति मे
  
सत्यज्ञानसुखस्वरूपविमलः देदीप्यतां
मानसे ॥८६॥
स्वामिन् भो तवसद्गुणान् प्रवदितुं शेषोप्यशक्तोऽभव-
  
न्नित्यानन्दनिजस्वरूपविभवं
व्यक्तुं कथं शक्नुयाम्।
वेदान्ते सदनन्तचिन्मयघनं ब्रह्मेति यद्वर्ण्यते
  
तद्दिव्यं निखिलस्वरूपममलं
ध्यायामि युष्मत्पदम् ॥८७॥
      
विद्यातीर्थजगद्गुरो तवमुखाम्भोजोपमा भूतले
 
नास्तीति प्रकटीकृतं शशभृता
नित्यं शशाङ्कच्छलम्।
पङ्कोद्भूतकुशेशयं कथमहो तद्वत्प्रभां विन्दति
 
शृङ्गक्ष्माभृतिवर्तमान नमसां
तन्वे तति प्राश्रितः ॥८८॥
वेदाभ्यासरतानशेषविबुधान्प्रोत्साहयन्सर्वदा
  
वेदान्तादि समस्तशास्त्रनिपुणः
शिष्यौघकल्पद्रुमः।
श्रीविद्यामुखमन्त्रराजपदवीसाम्राज्यदीक्षागुरुः
  
व्याख्यापीठविभूषणं विजयते
श्री देशिकेन्द्रो मम ॥८९॥
शिष्याणां हृदयेस्थितं बहुविधं पापौघगाढंतमो
  
विध्वस्ताद्भुतवाग्विलासरुचिभिर्देदीप्यमानस्सदा।
मेदिन्यां कृपया चरन्बुधजनैराराधितः श्रीगुरुः
  
नित्यानन्दविशुद्धकान्तिविसरैः
जेगीयते भूतले ॥९०॥
विद्यातीर्थसुदेशिकेन्द्र न हि मे गीर्वाणवाण्यां
मना-
 
गस्ति ज्ञानलवोपि वाचमिति मे
श्रुत्वा कृपापूरितः।
ब्राह्मी त्वां समनुग्रहिष्यति न ते खेदोऽस्त्विति
प्रोच्य मे
 
हृत्पद्मं विकसीकृतं गुरुवरं
भूयो नमस्कुर्महे ॥९१॥
इत्थं भासुरदेशिकेन्द्रनिवहं व्यष्टिं समष्टिं
सदा
  
प्राप्तं मानसपुण्डरीकनिलये
सन्धार्यमाणं मुदा।
भक्तौघैः भवबन्धनाशनकृते निध्यातमत्यादरा-
  
दानन्दामृतबाष्पराजितपदांभोजं
भजेऽहं सदा ॥९२॥
ऊर्ध्वं चाचमनीयकं सुविमलं चेलालवङ्गादिभिः
  
युक्तैः गाङ्गजलैः प्रदातुमयि
भोः त्वत्संमतिं प्रार्थये।
नानास्वादुफलादिपूरितमिदं पर्कं गृहाण प्रभो
  
स्वात्माराम समस्तलोकविनुतानन्दाभिधापांनिधे
॥९३॥
शीर्षाग्रेविलसत्सहस्रदलयुक्तांभोजसंयोजित-
 
श्रीमत्कुण्डलिनीविनिर्गतपरानन्दात्मना
वारिण।
स्नानं कल्पयतां मया विरचितं सन्तुष्टये
मौनिराट्
 
वासोरत्नविभूषणानि दयया गृह्णन्
विजेजीयताम् ॥९४॥
आयुष्यं वरयज्ञसूत्रममलं दण्डं तथा वैणवं
  
व्योमाख्यं सुकमण्डलुं त्वयि
महन्प्रत्यर्पितं स्वीकुरु।
सौगन्धं मलयोद्भवं सुरुचिरं गन्धं तथाप्यक्षतान्
   
स्वीकृत्याशु मयार्पितं तव
विभो मां पाहि नित्यं मुदा॥९५॥
स्वीकृत्याशु ममेप्सितं वितनुया सच्चित्सुखांभोनिधे
   दीपं मे हृदयांबुजाग्रविलसन्नीवारशूकोपमं
सूक्ष्मं तत्प्रमदाय ते प्रभवतात्प्रीताणुतेजोमयं
   
नित्यानन्दसुधारसं विमलनैवेद्यं
च गृह्णीष्व भो॥९६॥
त्रैगुण्यात्मकमच्छसत्त्वविशदं लौहित्यरागाश्रयं
   
ताम्बूलाभिधकृष्णमोहसहितं ताम्बूलपूगादिकम्।
सान्निध्ये तव चार्पयामि परया प्रीत्या
प्रसन्नो भव
   
श्रीमन्मस्करिवर्य पाहि सततं तेजोमयानन्द हे ॥१७॥
आत्मज्योतिरशेषसन्तमसहं नीराजनं मौनिराट्
  
स्वाद्वैतानुभवार्थमेवगुरवे प्रेम्णा प्रदास्यामि ते ।
श्रीमन्मन्त्रसुमाञ्जलिं तव पदाम्भोजे निधाय
प्रभो
  
साष्टाङ्गं हि नमस्करोमि परया भक्त्या प्रमोदं वहन् ॥९८॥
तेजोरूप मयासमर्पित महानीराजनं गृह्यतां
 
पूर्वे जन्मनि तन्मयाऽकृतमहो देहो मयाप्तः स्वयम्।
त्वत्पूजाप्रणिपातकारणवशादन्त्याममेयं तनुः
 
तस्मादेव पुनःप्रपूजनमये गृह्णन्भयात्त्राहि माम् ॥९९॥
भुवनविमलरूपं नादबिन्दुस्वरूपं
 
 विपुलविभवयुक्तं श्रीकलामूर्तिराजम्।
सविनयगुरुभक्त्या धार्यमाणं सुतत्त्व-
  
प्रकटनमहितं तत्पादुकाराजयुग्मम्॥१००॥
सदमलमतिविप्रायार्थितश्शेषशैले
  
गुरुपतिरयमेकश्लोकरूपं प्रसादम्।
तमस इह समूलं नाशकं भानुमन्तं
  
व्यरचयदमलं तत्पादुकायुग्ममीडे ॥१०१॥
मृतशिशुमनुगृह्णन् क्षेत्रके मूकमंबा-
 
भुवनसुविदितेऽङ्के स्थाप्य दत्त्वा तथासून्।
परमसुखकरं श्री ब्रह्मविद्यां प्रदाय
  
प्रकटितमहिमश्रीपादुकायुग्ममीडे ॥१०२॥
देवदानवदुर्दर्शं भक्तमानवमोक्षदम्।
 नतोऽस्मि सन्ततं प्रेम्णा पादुकायुग्ममुत्तमम्॥१०३॥
एकदाऽनेकदेशेषु प्रत्यक्षीकृतदेशिका।
नृसिंहपादशोभाढ्या मूर्ध्नि तिष्ठतुपादुका
॥१०४॥
रामेश्वराद्धनुष्कोटिं नयन् शिष्यमिमं यदा।
गुरुदर्शनलाभश्च दत्तो येन तदस्तु मे ॥१०५॥
पावनं पापदूरं च परमार्थप्रचोदकम्।
जन्ममृत्युविहन्तृ श्रीपादुकायुग्ममाश्रये
॥१०६॥
शेषेणापि सुदुस्साध्यं पादुका गुणवर्णनम्।
साष्टाङ्गप्रणिपातेन ध्यायामि महिमास्पदम्
॥१०७॥
ब्रह्मात्मगुरुसम्बन्धी पापतूलदवानलः।
गुरुवंशस्तवो नित्यं भक्त्या गेयः परार्थदः
॥१०८॥
अष्टोत्तरशतं श्रेष्ठो पद्यात्मक सुमाञ्जलिः।
देशिकेन्द्रपदाम्भोजपूजार्थं प्रतिगृह्यताम्
॥१०९॥
दुष्करो हि हरेणापि गुरुवंशस्य संस्तवः।
अनन्तविस्तृतो यस्मात्तस्मान्मौनमवाप्तवान्
॥११०॥
अद्वैतगुरुवृक्षो हि नैकशाखा समन्वितः।
तासु शृंगाद्रि शाखां वै स्मरामि मतिशुद्धये
॥१११॥
अनन्तकोटिगुर्वाख्य फलवान्गुरुकल्पकः।
तेष्वेकं प्राप्नुवानस्य संसारक्षुद्विनश्यति
॥११२॥
गुरुवरकरुणार्कस्त्वन्तरेवोदिताभः
  
निरुपमपरितोषान्मन्मनस्तोतुकामम्।
 विकसितमदधाद्यन्मय्यहो शक्तिलेशं
   
कलयतुहृदयोत्था भृङ्गझङ्कारमाला ॥११३॥
स्वामिन्विभो तवगुणान्वदितुं न शक्तः
 
शेषोऽपि सर्वमहिमाश्रयविग्रहस्त्वम्।
जानामि किं गुरुमशेषविभूतिपात्रं
  
दासस्य दास इति मां कृपया गृहाण ॥११४॥
हरितस् गोत्रसञ्जातः गौरीगर्भसमुद्भवः
  
जयरामसुतश्श्रीमान् नृसिंहनामधारकः।
देशिकेन्द्रस्तवं प्रेम्णा कुरुतेऽत्र विशेषतः
  
गृह्णन्तु हंसवत्सर्वे द्विजाः क्षीरतरंगिणीम् ॥
 
         —- शुभं भूयात् —

Author Socials Follow me