श्री दुर्गासप्तश्लोकी
ओं अस्य श्री दुर्गा सप्तश्लोकीस्तोत्रमहामंत्रस्य
नारायण ऋषिः
नारायण ऋषिः
अनुष्टुपादीनि छन्दांसि
श्री महाकाली महालक्ष्मी महासरस्वत्यो
देवताः
देवताः
श्री जगदंबाप्रीत्यर्थे जपे
(पाठे) विनियोगः
(पाठे) विनियोगः
ज्ञानिनामपि चेतांसि देवी भगवती
हि सा।
हि सा।
बलादाकृष्य मोहाय महामाया प्रयच्छति॥१॥
दुर्गे स्मृता हरसि भीतिमशेष जन्तोः
स्वस्थैः स्मृता मतिमतीव शुभां
ददासि।
ददासि।
दारिद्र्यदुःखभयहारिणि का त्वदन्या
सर्वोपकारकरणाय सदार्द्रचित्ता
॥२॥
॥२॥
सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके।
शरण्ये त्र्यंबके देवि नारायणि
नमोऽस्तु ते॥३॥
नमोऽस्तु ते॥३॥
शरणागतदीनार्तपरित्राणपरायणे।
सर्वस्यार्तिहरे देवि नारायणि
नमोऽस्तु ते ॥४॥
नमोऽस्तु ते ॥४॥
सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते।
भयेभ्यस्त्राहि नो देवि दुर्गे
देवि नमोऽस्तु ते॥५॥
देवि नमोऽस्तु ते॥५॥
रोगानशेषानपहंसि तुष्टा
रुष्टा तु कामान् सकलानभीष्टान्।
त्वदाश्रितानां न विपन्नराणां
त्वामाश्रिता ह्याश्रयतां प्रयान्ति
॥६॥
॥६॥
सर्वबाधा प्रशमनं त्रैलोक्यस्याखिलेश्वरि।
एवमेव त्वया कार्यं अस्मद्वैरिविनाशनम्
॥७॥
॥७॥
[chanting of these mantras will bestow long life,
health, wealth, children,
health, wealth, children,
Spiritual knowledge etc. ]