श्रीरामकृष्णस्तवराजः
ओङ्कारवेद्यः पुरुषः पुराणो
बुद्धेश्च साक्षी निखिलस्य जन्तोः।
यो वेत्ति सर्वं न च यस्य वेत्ता
परात्मरूपो भुवि रामकृष्णः ॥१॥
न वेदगम्यो न च योगगम्यो
ध्यानैर्न जापैर्न तपोभिरुग्रैः।
ज्ञेयः कदापीह ततोऽवतीर्णो
दयानिधे त्वं भुवि रामकृष्णः ॥२॥
मोक्षस्वरूपं तव धाम नित्यं
यदा तदाप्नोति विशुद्धचित्तः।
तदोपदेष्टाखिलतत्त्ववेत्ता
त्वं
विश्वधाता भुवि रामकृष्णः ॥३॥
त्वं
विश्वधाता भुवि रामकृष्णः ॥३॥
भक्तेश्च शुद्धज्ञानस्य मार्गौ
प्रदर्शितौ द्वौ भवमुक्तिहेतू।
तयोर्गतानां ध्रुवनायकोऽसि
त्वं मोक्षसेतुर्भुवि रामकृष्णः ॥४॥
गतिस्त्वमेका जगतां जडानां
पुरा विसृष्टेश्चिदखण्डरूपः।
तद्वल्लये स्यादधुनासि तद्वत्
त्वमादिदेवो भुवि रामकृष्णः ॥५॥
वर्णाश्रमाचारविहीनशान्ताः
संन्यासिनो ज्ञानविधूतचित्ताः।
ध्यायन्ति यं नित्यमभेददृष्ट्या
स एव हि त्वं भुवि रामकृष्णः ॥६॥
तेजोमयं दर्शयसि स्वरूपं
कोशान्तरस्थं परमार्थतत्त्वम्।
संस्पर्शमात्रेण नृणां समाधिं
विधाय सद्यो भुवि रामकृष्णः॥७॥
रागादिशून्यं तव सौम्यमूर्तिं
दृष्ट्वा पुनश्चात्र न जन्मभाजः।
स्थाने यदादाय विशुद्धसत्त्वं
इहावतीर्णो भुवि रामकृष्णः॥८॥
महाविचित्रं महदादिकार्यं
लब्ध्वाप्यधिष्ठानमनाद्यनन्तम्।
करोति नित्या प्रकृतिस्तवाद्या
तद्ब्रह्म सच्चिद् भुवि रामकृष्णः॥९॥
कृशानुवत्तापविदग्धचित्ताः
संसारिणः शान्तिनिकेतनं त्वां।
सम्प्राप्य शान्ता हि भवन्ति तेषां
त्वं शन्तिदाता भुवि रामकृष्णः॥१०॥
षडङ्गयोगो न
यतः सुसाध्यो
यतः सुसाध्यो
ज्ञानाधिकारी सुलभो न यस्मात्।
गरीयसी भक्तिरतः कलौ स्यात्
तज्ज्ञापकस्त्वं भुवि रामकृष्णः॥११॥
नाकादिलोकं सुखदं च दिव्यं
सुरम्यमैश्वर्यमहं न याचे ।
हृदासने त्वं कृपया सदा वै
वसेति याचे भुवि रामकृष्णः॥१२॥
यं ब्रह्मविष्णू गिरिशश्च देवा
ध्यायन्ति गायन्ति नमन्ति नित्यम्।
तैः प्रार्थितस्तस्य परावतारो
द्विबाहुधारी भुवि रामकृष्णः॥१३॥
वन्दे जगद्बीजमखण्डमेकं
वन्दे सुरैः सेवितपादपीठम्।
वन्दे भवेशं भवरोगवैद्यं
तमेव वन्दे भुवि रामकृष्णम्॥१४॥
रामकृष्णं चिदानन्दं यः स्तौति भक्तिमान् सदा
तस्य चित्तं भवेच्छुद्धं तत्त्वज्ञानं स्वयं ततः ॥१५॥