श्रीरामकृष्णस्तोत्रदशकम्
ब्रह्मरूपमादिमध्यशेषसर्वभासकं
भावषट्कहीनरूप-नित्यसत्यमद्वयम्।
वाङ्मनोऽतिगोचरं च नेतिनेतिभावितम्
तं नमामि देवदेव-रामकृष्णमीश्वरम्
॥१॥
॥१॥
आदितेयभीहरं सुरारिदैत्यनाशकं
साधुशिष्टकामदं महीसुभारहारकम्।
स्वात्मरूपतत्त्वकं युगे युगे च दर्शितं
तं नमामि देवदेव-रामकृष्णमीश्वरम्
॥२॥
॥२॥
सर्वभूतसर्गकर्मसूत्रबन्धकारणं
ज्ञानकर्मपापपुण्यतारतम्यसाधनम्।
बुद्धिवास-साक्षिरूप-सर्वकर्मभासनं
तं नमामि देवदेव-रामकृष्णमीश्वरम्
॥३॥
॥३॥
सर्वजीवपापनाशकारणं भवेश्वरं
स्वीकृतं च गर्भवास-देहधानमीदृशम्।
यापितं स्वलीलया च येन दिव्यजीवनं
तं नमामि देवदेव-रामकृष्णमीश्वरम्
॥४॥
॥४॥
तुल्यलोष्टकाञ्चनं च हेयनेयधीगतं
स्त्रीषु नित्यमातृरूपशक्तिभावभावुकम्।
ज्ञानभक्तिभुक्तिमुक्तिशुद्धबुद्धिदायकं
तं नमामि देवदेव-रामकृष्णमीश्वरम्
॥५॥
॥५॥
सार्वधर्मगम्यमूलसत्यतत्त्वदेशकं
सिद्धसर्वसम्प्रदाय सम्प्रदायवर्जितम्।
सर्वशास्त्रमर्मदर्शि-सर्वविन्निरक्षरं
तं नमामि देवदेव-रामकृष्णमीश्वरम्
॥६॥
॥६॥
चारुदर्शकालिकासुगीतचारुगायकं
कीर्तनेषु मत्तवच्च नित्यभावविह्वलम्।
सूपदेशदायकं हि शोकतापवारकं
तं नमामि देवदेव-रामकृष्णमीश्वरम्
॥७॥
॥७॥
पादपद्मतत्त्वबोधशान्तिसौख्यदायकं
सक्तचित्तभक्तसूनुनित्यवित्तवर्धकम्।
दम्भिदर्पदारणं तु निर्भयं जगद्गुरुं
तं नमामि देवदेव-रामकृष्णमीश्वरम्
॥८॥
॥८॥
पञ्चवर्षबालभावयुक्तहंसरूपिणं
सर्वलोकरञ्जनं भवाब्धिसङ्गभञ्जनम्।
शान्तिसौख्यसद्म-जीवजन्मभीतिनाशनं
तं नमामि देवदेव-रामकृष्णमीश्वरम्
॥९॥
॥९॥
धर्महानहारकं त्वधर्मकर्मवारकं
लोकधर्मचारणं च सर्वधर्मकोविदम्।
त्यागिगेहिसेव्यनित्यपावनाङ्घ्रिपङ्कजं
तं नमामि देवदेव-रामकृष्णमीश्वरम्
॥१०॥
॥१०॥
स्तोत्रशून्यसोमकं सदीशभावव्यञ्जकं
नित्यपाठकस्य वै विपत्तिपुञ्जनाशकम्।
स्यात्कदापि जापयागयोगभोगसौलभं
दुर्लभं तु रामकृष्णरागभक्तिभावनम् ॥११॥
इति श्रीविरजानन्दरचितं भक्तिसाधकम्।
स्तवसारं समाप्तं वै श्री रामकृष्णतूणकम्॥१२॥