श्रीरामकृष्णस्तोत्रम्-१
श्रीरामकृष्णप्रणामः
स्थापकाय च धर्मस्य सर्वधर्मस्वरूपिणे।
अवतारवरिष्ठाय रामकृष्णाय ते नमः ॥
श्रीसारदादेवीप्रणामः
यथाग्नेर्दाहिकाशक्ती रामकृष्णे स्थिता हि या।
सर्वविद्यास्वरूपां तां सारदां प्रणमाम्यहम् ॥
आचण्डालाऽप्रतिहतरयो यस्य प्रेमप्रवाहः
लोकातीतोऽप्यहह न जहौ लोककल्याणमार्गम्।
त्रैलोक्येऽप्यप्रतिममहिमा जानकीप्राणबन्धो
भक्त्या ज्ञानं वृतवरवपुः सीतया यो हि रामः ॥१॥
स्तब्धीकृत्य प्रलयकलितं वाहवोत्थं महान्तं
हित्वा रात्रिं प्रकृतिसहजामन्धतामिस्रमिश्राम्।
गीतं शान्तं मधुरमपि यः सिंहनादं जगर्ज
सोऽयं
जातः प्रथितपुरुषो रामकृष्णस्त्विदानीम् ॥२॥
सोऽयं
जातः प्रथितपुरुषो रामकृष्णस्त्विदानीम् ॥२॥
नरदेव जय जय नरदेव
शक्तिसमुद्रसमुत्थतरङ्गं दर्शितप्रेमविजृंभितरङ्गम्।
संशयराक्षसनाशमहास्त्रं यामि गुरुं शरणं भववैद्यम्॥३॥
अद्वयतत्त्वसमाहितचित्तं प्रोज्ज्वलभक्तिपटावृतवृत्तम्।
कर्मकलेवरमद्भुतचेष्टं यामि गुरुं शरणं भववैद्यम्॥४॥
नरदेव जय जय नरदेव