श्रीकालटिक्षेत्रे
श्रीशारदाम्बास्तोत्रमालिका
( शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनव-
नृसिंहभारतीस्वामिभिः विरचिता)
आसेतुशीतगिरिमध्यनिवासलोका-
न्स्वस्वाश्रमाद्युचितकर्मनिषक्तचित्तान्।
श्रीघ्रं विधाय करुणामृतवारिराशे
श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥१॥
हंसादिमस्करिवरार्चितपादपद्मे
हंसाग्र्ययाननिरते मुखनिर्जिताब्जे।
कंसारिमुख्यसुरनायकपूज्यमाने
श्रीशारदाम्ब सितचित्तमिमं
कुरुष्व ॥२॥
श्रीशारदाम्ब सितचित्तमिमं
कुरुष्व ॥२॥
श्वेताम्बुसंभवनिवासनिषक्तबुद्धे
शीतांशुराजतमहीधरतुल्य वर्णे।
वाताम्बुमात्रपरितुष्टजनालिसेव्ये
श्रीशारदाम्ब
सितचित्तमिमं कुरुष्व ॥३॥
सितचित्तमिमं कुरुष्व ॥३॥
क्रव्यादवैरिमुखदेववरेड्यपादे
सुव्याहृतिप्रदपदाम्बुजजातुपाते।
निर्व्याजपूर्णकरुणामृतजन्मभूमे
श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥४॥
भक्त्यादिगन्धरहितान्गुरुपादपद्मे
तत्सेवने च सुतरां विनिवृत्तभावान्।
लोकानवाम्ब परिशुद्धहृदो विधाय
श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥५॥
अज्ञातवेदनिचयस्मृतिमुख्यगन्धा-
न्कामार्थमात्रपुरुषार्थधियो मनुष्यान्।
आम्नायमार्गपथिकांस्तरसा विधाय
श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥६॥
देहात्मवादनिरतान्सततं हि मोदा-
त्तत्पालनैकनिरतानपि नीचवृत्त्या।
किं च स्ववृत्तिविमुखान्परिपालयन्ती
श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥७॥
पापाम्बुराशिविनिमज्जनमुह्यमान-
मेनं दुरन्तविषयाशमजास्यवासे।
लोकं निवार्य तरसा कृपया दुराशां
श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥८॥
उद्वेगकालपरितुष्टहृदम्बुजात-
मप्यैहिकादिनिचये स्पृहया विहीनम्।
भीत्या रुषा च सुतरां रहितं विधाय
श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥९॥
आकल्पकालटिनिवासनिबद्धदीक्षा
भूत्वा तथाखिलजगत्यपि धर्मवृद्धिम्।
प्रापय्य लोकपरिरक्षणमाचरन्ती
श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥१०॥
भाग्याब्धिपूर्णशरदिन्दुसमूहरूपे
भक्तौघसस्यसितभिन्नपयोदपङ्क्ते।
वेधोमनोऽम्बुजजनिबालदिवाक्राभे
श्रीशारदाम्ब सितचित्तमिमं
कुरुष्व ॥११॥
कुरुष्व ॥११॥
प्राणादिवायुनिचयं विनिरुद्ध्य चेतो
हृत्पङ्कजे चिरतरं तव दिव्यमूर्तेः।
ध्यानं विभुं रचयितुं प्रविधाय मातः
श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥१२॥
काणादकापिलमुखेषु समस्तशास्त्रे-
ष्वव्याहतां प्रतिभया सहितां मनीषाम्।
जात्वप्यकर्णविषयेषु वितीर्य तूर्णं
श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥१३॥
लक्ष्येऽखिलश्रुतिमहादिमवाक्यपङ्क्तेः
ऋक्षेशगर्वपरिशातनदक्षवक्त्रे।
यक्षेशपाशिमुखदिक्पतिपूज्यपादे
श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥१४॥
दारात्मजावसथपालनसक्तचित्तां-
स्तत्पालनात्तबहुदुःखततीश्च सोढ्वा।
स्वप्नेऽपि सौख्यरहितान्परिपाल्य लोका-
ञ्छ्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥१५॥
कारुण्यपूर्णनयने कलिकल्मषघ्नि
कन्दर्पवैरिसहजे कमलायताक्षि।
कस्तूरिकामकरिकाश्रितगण्डभागे
श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥१६॥
नैवापहाय निजधर्ममतीव कष्ट-
कालेऽपि वाणि सुतरां निजधर्मवाञ्छाः।
भूयासुराशु पुरुषाः कुरु तद्वदम्ब
श्रीशारदाम्ब
सितचित्तमिमं कुरुष्व ॥१७॥
श्रीशारदाम्ब
सितचित्तमिमं कुरुष्व ॥१७॥
ईहाविहीनजनसन्ततचिन्त्यमान-
पादारविन्दयुगले प्रणतव्रजाय।
ईशित्वसिद्धिमुखसिद्धिततिप्रदात्रि
श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥१८॥
बालारुणाधरविनिर्जितपक्वबिम्बे
चेलावधूतशरदभ्रसनस्तगर्वे।
लीलाविनिर्मितविचित्रजगत्समूहे
श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥१९॥
भक्तिं वितीर्य सुदृढां तव पादपद्मे
दुःखालयेषु विषयेषु विरक्तिदार्ढ्यम्।
औत्सुक्यमप्यविरलं निगमान्तपाठे
श्रीशारदाम्ब सितचित्तमिमं
कुरुष्व ॥२०॥
कुरुष्व ॥२०॥
दूर्वादिमत्तगजसिंहधुरन्धरत्वं
शर्वादिसेवितपदे तरसा वितीर्य।
दुर्वासनां हृदि गतां तरसा प्रमथ्य
श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥२१॥
पादाम्बुजप्रणतलोकविचित्रकाव्य-
कर्तृत्वदानचतुरे चतुरास्यजाये।
कुम्भीन्द्रकुम्भपरिपन्थिकुचे कुमारि
श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥२२॥
चापल्यनैजजनिभूमिहृदम्बुजातं
पापाम्बुराशिदृढमग्नमपेतपुण्यम्।
आत्मावबोधविधुरं गुरुभक्तिहीनं
श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥२३॥
रङ्कोऽपि यत्करुणया प्रभवेत्सुरेशो
मूकोऽपि तद्गुरुमहो वचसा जयेच्च।
सा त्वं प्रभूतधनवाग्विभवप्रदात्री
श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥२४॥
अम्बाशु बोधय कृपाभरितैः कटाक्षै-
स्तत्त्वं परं यदवलोकनतो न भूयात्।
भूयोऽपि जन्म पदनम्रततेः कदाचि-
ञ्छ्रीशारदाम्ब
सितचित्तमिमं कुरुष्व ॥२५॥
सितचित्तमिमं कुरुष्व ॥२५॥
कालट्यभिख्यपुरवासिनिबद्धभावे
कालप्रतीपसहजे कलकण्ठकण्ठे।
कायप्रभाजिततुषारसितांशुशोभे
श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥२६॥
यत्त्वं हि वीक्षणलवेन नतार्भकाणां
संपोषणं प्रकुरुषे जगदम्ब सार्थम्।
मीनाम्बकत्वमभजद्भवतीह तस्मा-
च्छ्रीशारदाम्ब सितचित्तमिमं कुरुष्व॥२७॥
अष्टाङ्गयोगमखिलं तरसोपदिश्य
नीत्वा च मध्यपदवीं सहशक्तिवायुम्।
चेतश्च धामनि परे दृढमारचय्य
श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥२८॥
ऐक्यावबोधनकृते प्रणमज्जनानां
वक्त्रे विधुत्वमथ नेत्रयुगे झषत्वम्।
मध्ये च पञ्चमुखतां परिधारयन्ती
श्रीशारदाम्ब
सितचित्तमिमं कुरुष्व ॥२९॥
सितचित्तमिमं कुरुष्व ॥२९॥
श्रीशंकरार्यकरपङ्कजपूजिताङ्घ्रे
पाशं विभिद्य तरसा भवनामभाजम्।
साशंसदाहिविषयेऽप्युपभुक्तपूर्वे
श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥३०॥
कीरार्भकप्रविलसत्करपङ्कजाते
स्वाराज्यदानपरितोषितनम्रवृन्दे।
स्मेरास्यकान्तिपरिधूतसुधांशुबिम्बे
श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥३१॥
कारुण्यसागरनिमग्नहृदम्बुजाते
लावण्यजन्मसदनीकृतनैजदेहे।
कारुण्यनित्यविहृतेर्निलयाङ्गसौधे
श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥३२॥
श्रीशेशपद्मजमुखामरपूजिताङ्घ्रे
श्रीबोधदाननिरते प्रणमज्जनेभ्यः ।
श्रीकण्ठसोदरि कृपामृतवरिराशे
श्रीशारदाम्ब
सितचित्तमिमं कुरुष्व ॥३३॥
सितचित्तमिमं कुरुष्व ॥३३॥
पूर्णानदीतटविहारविलोलचित्ते
तूर्णानतेष्टततिदाननिबद्धदीक्षे।
चूर्णायिताखिलचिरात्तहृदन्धकारे
श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥३४॥
वैराग्यजन्मनिलयैः परिसेव्यमाने
वैयासकिप्रमुखमौनिजनैर्नितान्तम्।
सच्चित्सुखात्मकतनो विधिपुण्यराशे
श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥३५॥
यां वेत्तुमिच्छति मखानशनाद्युपायै-
र्लोके द्विजावलिरसौ बहुपुण्यपाकात्
सोपायहीनमपि नैजकृपातिरेका-
च्छ्रीशारदाम्ब
सितचित्तमिमं कुरुष्व॥३६॥
सितचित्तमिमं कुरुष्व॥३६॥