श्रीशारदागौरीसहोत्सवे
गीर्ललिताम्बिकासुतिः
( शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनव-
नृसिंहभारतीस्वामिभिः विरचिता)
कञ्जाक्षमुख्यामर पूजिताभ्यां
निजाश्रिताशेषवरप्रदाभ्याम्।
शृङ्गाद्रिकाञ्चीपुरवासिनीभ्यां
नमो नमो गीर्ललिताम्बिकाभ्याम्॥१॥
एकान्तपूजापरितुष्टहृद्भ्या-
मेकाक्षरीशीलनलब्धपद्भ्याम्।
विधीशचित्ताब्जरविप्रभाभ्यां
नमो नमो गीर्ललिताम्बिकाभ्याम्॥२॥
ईहाम्बुधेर्बाडवभारभृद्भ्या-
मीकारयुङ्मन्त्रविबोधिताभ्याम्
अजास्य शम्भ्वङ्कविभूषणाभ्यां
नमो नमो गीर्ललिताम्बिकाभ्याम्॥३॥