सर्पबाधानिवृत्तिकरश्लोकाः
अनन्तो वासुकिः शेषः
पद्मनाभश्च कम्बलः।
पद्मनाभश्च कम्बलः।
धृतराष्ट्रः शंखपालः तक्षकः कालियस्तथा ॥१॥
एतानि नव नामानि नागानां च महात्मनां।
सायंकाले पठेन्नित्यं प्रातःकाले विशेषतः ॥२॥
नर्मदायै नमः प्रातः नर्मदायै नमो निशि।
नमोऽस्तु नर्मदे तुभ्यं त्राहि मां विषसर्पतः ॥३॥
असितं चार्तिमन्तं च सुनीथं चापि यः स्मरेत्।
दिवा वा यदि वा रात्रौ नास्य सर्पभयं भवेत् ॥४॥
यो जरत्कारुणा जातो जरत्कारौ महायशाः।
आस्तिकः
सर्पसत्रे वः पन्नगान् योऽभ्यरक्षत॥५॥
सर्पसत्रे वः पन्नगान् योऽभ्यरक्षत॥५॥
तं
स्मरन्तं महाभागाः न मां हिंसितुमर्हथ ॥६॥
स्मरन्तं महाभागाः न मां हिंसितुमर्हथ ॥६॥
सर्पापसर्प भद्रं ते दूरं गच्छ महायशाः
जनमेजयस्य यज्ञान्ते आस्तीकवचनं स्मरन्॥७॥