SRI SHARADA CHATUH SHASHTIH

श्रीशारदाचतुःषष्टिः
 ( श्रुङ्गेरि श्रीजगद्गुरु
श्रीसच्चिदानन्दशिवाभिनव-
      नृसिंहभारतीस्वामिभिः
विरचिता)
अद्राक्षमव्याजकृपामपारां श्रीशारदाम्बाभिधया लसन्तीम्।
श्रीशृङ्गपुर्यामधिचक्रमध्यमितः परं किं करणीयमस्ति ॥१॥
अद्राक्षमम्भोजभवस्य पुण्यपरम्परामाश्रितदिव्यमूर्तिम्।
मालासुधाकुम्भलसत्कराब्जामितः परं किं करणीयमस्ति॥२॥
अद्राक्षमानन्दपयोधिराकासुधाकराणामिव रम्यपङ्क्तिम्।
विबोधमुद्रावरपुस्तकाढ्यामितः परं किं करणीयमस्ति॥३॥
अद्राक्षमुत्तुङ्गतरङ्गतुङ्गातटान्तराजद्वरमन्दिरस्थाम्।
शशाङ्कबालोज्ज्वलदिव्यमौलिमितः परं किं करणीयमस्ति॥४॥
अद्राक्षमर्धेन्दुसमानफालां लावण्यसर्वस्वपयोधिवेलाम्।
कीलालसंभूतसमुत्थलोलामितः परं किं करणीयमस्ति॥५॥
अद्राक्षमिन्दीवरतुल्यनेत्रां भ्रूवल्लिकानिर्जितकामचापाम्।
तुङ्गानदीतीरविहारशीलामितः परं किं करणीयमस्ति॥६॥
अद्राक्षमक्ष्णोर्जनिमर्थयुक्तां प्रकुर्वतीं स्वाङ्घ्रिनिरीक्षणेन।
पयःप्रभूतप्रभवस्य जायामितः परं किं करणीयमस्ति॥७॥
अद्राक्षमिक्षूदतरङ्गतुल्यां वाचं नतानां ददतीं जवेन।
लोकेशवामाङ्कमहद्विभूषामितः परं किं करणीयमस्ति॥८॥
अद्राक्षमास्येन्दुविलोकनेन विकासयन्तीं हृदयाम्बुजानि।
प्रणम्रपङ्क्तेर्वचसां सवित्रीमितः परं किं करणीयमस्ति॥९॥
अद्राक्षमज्ञानतमःप्रचण्डमार्ताण्डषण्डीकृतपादसेवाम्।
अपारसच्चित्सुखरूपदेहामितः परं किं करणीयमस्ति॥१०॥
अद्राक्षमक्षीणदयारसार्द्रकटाक्षसंरक्षितलोकजालाम्।
अजान्तरङ्गाम्बुजभानुरूपामितः परं किं करणीयमस्ति॥११॥
अद्राक्षमद्याहमशेषलोकप्रवृत्तिसाक्ष्यात्मतया विभान्तीम्।
गुप्त्यै प्रपञ्चस्य कृतावतारामितः परं किं करणीयमस्ति॥१२॥
अद्राक्षमत्यन्तविरक्तिभक्तिश्रद्धाप्रमुख्यैः सुगुणैः सुलभ्याम्।
सुदुर्लभां तद्गुणवर्जितानामितः परं किं करणीयमस्ति॥१३॥

अद्राक्षमम्भोजभवाब्जनेत्रगिरीशमुख्यैः परिपूज्यमानाम्।
वीणालसत्पाणिसरोजमध्यामितः परं किं करणीयमस्ति॥१४॥
अद्राक्षमङ्गच्छविनिर्जितेन्दुनीहारहारावलिदुग्धसिन्धुम्।
सगर्भयन्तीमगजासनाथमितः परं किं करणीयमस्ति॥१५॥
अद्राक्षमाद्यैर्वचसां समूहैरभिष्टुतां देवमुनीन्द्रसङ्खैः।
अम्भोजमच्छं शुकमादधानामितः परं किं करणीयमस्ति॥१६॥

अद्राक्षमाद्यन्तविहीनशुद्धबुद्धस्वभावं परमप्रमेयम्।
विबोधयन्तीं कृपया प्रणम्रानितः परं किं करणीयमस्ति॥१७॥

अद्राक्षमङ्कावहमङ्कवासमालोच्य वासं प्रतिहाय तत्र।
चतुर्मुखास्याम्बुजवाससक्तामितः परं किं करणीयमस्ति॥१८॥
अद्राक्षमीशानरमेशपद्मभवादिरूपेण जगत्प्रवृत्तिम्।
प्रकुर्वतीं शृङ्गमहीधरस्थामितः परं किं करणीयमस्ति॥१९॥
अद्राक्षमाम्नायशिरोवचांसि हृदाप्यलभ्यां जगदुर्हि यां ताम्।
विचित्रमस्याः करुणाविशेषादितः परं किं करणीयमस्ति॥२०॥
अद्राक्षमायासविहीनसेवालवैरपि प्रीतहृदम्बुजाताम्।
अशेषकल्याणगुणाभिरामामितः परं किं करणीयमस्ति॥२१॥
अद्राक्षमाकण्ठनतानुकम्पामक्षिप्रभानिर्जितमीनगर्वाम्।
वाङ्माधुरीनिर्जितकेकिलोकामितः परं किं करणीयमस्ति॥२२॥
अद्राक्षमैश्वर्यमपारमाशु संप्रापयन्तीं पदनम्रलोकान्।
दन्तच्छदाधःकृतपक्वबिम्बामितः परं किं करणीयमस्ति॥२३॥
अद्राक्षमानम्रजनानुतापवाराशिसंशोषणबाडवाग्निम्।
तुङ्गानदीखेलनलोलचित्तामितः परं किं करणीयमस्ति॥२४॥
अद्राक्षमाधारसरोरुहस्थां पञ्चाननामस्थिकृतप्रतिष्ठाम्।
मुद्गौदनासक्तमनोऽम्बुजातामितः परं किं करणीयमस्ति॥२५॥
अद्राक्षमष्टाङ्गहठादियोगनिबद्धभावैरनुचिन्त्यमानाम्।
कष्टादिषड्वर्गविभेददक्षामितः परं किं करणीयमस्ति॥२६॥
अद्राक्षमर्कायुतभासमानामनाहताख्ये हृदयाब्जमध्ये।
फालेऽहिशत्रोर्धनुषः सवर्णामितः परं किं करणीयमस्ति॥२७॥
अद्राक्षमिन्दोः सदृशीं शिरस्थसहस्रपत्रे कमले मनोज्ञे।
त्रिकोणमध्ये वरदीपिकाभामितः परं किं करणीयमस्ति॥२८॥
अद्राक्षमम्बाङ्घ्रिसरोजयुग्ममवोचमप्यम्ब तवाभिधानम्।
अश्रौषमंहोहरणं चरित्रमितः परं किं करणीयमस्ति॥२९॥
अद्राक्षमम्भोदतमःसमूहनीकाशकेशव्रजशोभमानाम्।
कण्ठप्रभानिर्जितकम्बुगर्वामितः परं किं करणीयमस्ति॥३०॥
अद्राक्षमव्याजदयासमुद्रैर्नृसिंहभारत्यभिधैर्यतीन्द्रैः।
मोदाच्चिरं पूजितपादपद्मामितः परं किं करणीयमस्ति॥३१॥
अद्राक्षमीशानपरावतारश्रीशङ्करार्यैर्वरचक्रराजे।
प्रतिष्ठितां सर्वजगत्सवित्रीमितः परं किं करणीयमस्ति॥३२॥
अद्राक्षमत्यन्तविरक्तिमाशु विश्राणयन्तीं विषयेषु सुस्थाम्।
शमादिषट्कं च विनम्रपङ्क्तेरितः परं किं करणीयमस्ति॥३३॥
अद्राक्षमात्मैक्यविबोधनेन संसारवाराकरमध्यमग्नान्।
उत्तारयन्तीं करुणाकटाक्षैरितः परं किं करणीयमस्ति॥३४॥
अद्राक्षमश्वस्तननित्यवस्तुविवेकमत्यन्तमुमुक्षुतां च।
संपादयन्तीं पदसंनतानामितः परं किं करणीयमस्ति॥३५॥
अद्राक्षमाकाशनभस्वदग्निजलादिरूपाणि जगन्ति सृष्ट्वा।
प्रविश्य तेषु प्रविभासमानामितः परं किं करणीयमस्ति॥३६॥
अद्राक्षमूरीकृतपारहंस्यैर्दूरीकृताङ्गप्रभवप्रसङ्गैः।
विचार्यमाणां श्रुतिशीर्षवाग्भिरितः परं किं करणीयमस्ति॥३७॥
अद्राक्षमेनां हृदि मौनिवर्यैर्विशोषयद्भिर्विषयप्रवाहान्।
साक्षात्कृतां पङ्कजजातकान्तामितः परं किं
करणीयमस्ति॥४४॥
अद्राक्षमेतत्परिदृश्यमानं यद्दर्शनान्नीरसमेव विश्वम्।
तां सच्चिदानन्दघनस्वरूपामितः परं किं करणीयमस्ति॥३९॥
अद्राक्षमापूर्णकलङ्कशून्यशीतांशुनीकाशमुखाम्बुजाताम्।
कञ्जातसंजातमनो हरन्तीमितः परं किं करणीयमस्ति॥४०॥
अद्राक्षमाकर्णविशालनेत्रां रम्भासमानोरुयुगाभिरामाम्।
नागेन्द्रकुम्भप्रतिमस्तनाढ्यामितः परं किं करणीयमस्ति॥४१॥
अद्राक्षमेनां जडजातजातोऽप्यनेकनानाविधविश्वकर्ता।
यत्पाणिपद्मग्रहणादभूत्तामितः परं किं करणीयमस्ति॥४२॥
अद्राक्षमेनां कलिकल्मषघ्नीं यत्पादपद्मं दिननाथतुल्यम्।
स्वध्यातृहृद्‍ध्वान्तनिवारणात्तामितः परं किं करणीयमस्ति॥४३॥
अद्राक्षमच्छाच्छपयोजसंस्थां शरन्निशानाथसदृक्षचेलाम्।
नम्रालिजिह्वाग्रकृतप्रनृत्तामितः परं किं करणीयमस्ति॥४४॥
अद्राक्षमव्याहतशक्तिदात्रीं विनिग्रहानुग्रहयोः क्षणेन।
अपीन्द्रलोकादिसमस्तसृष्ट्यामितः परं किं करणीयमस्ति॥४५॥
अद्राक्षमेनां महिषासुरस्य निशुम्भशुम्भासुरयोश्च हन्त्रीम्।
अस्वप्नलोकावनबद्धदीक्षामितः परं किं करणीयमस्ति॥४६॥
अद्राक्षमालोक्य जनिं समृत्युं जातस्य हीत्यादि नयेन वव्रे।
अजं पतिं या चतुरामहं तामितः परं किं करणीयमस्ति॥४७॥
अद्राक्षमेनां तरसैव नम्रान्कुल्यामिवायासलवं विनैव।
संसारयन्तीं भववारिराशीमितः परं किं करणीयमस्ति॥४८॥
अद्राक्षमद्वैतविबोधनार्थं कण्ठेन कम्बोर्वचसा पिकस्य।
मध्येन सिंह्या दधतीमभेदमितः परं किं करणीयमस्ति॥४९॥
अद्राक्षमेनां दयया जवेन प्रकुर्वतीं स्वाङ्घ्रिसरोजनम्रान्।
संपन्नसार्वज्ञ्यसमस्तशक्तीनितः परं किं करणीयमस्ति॥५०॥
अद्राक्षमग्राह्यनिजस्वरूपां गूढामशेषे किल भूतवर्गे।
ग्राह्यां सुखेनैव सुसूक्ष्मधीभिरितः परं किं
करणीयमस्ति॥५१॥
अद्राक्षमक्षासुमनोविभिन्नसच्चित्सुखाकारतया गुरूक्त्या।
अवापमानन्दमपायशून्यमितः परं किं करणीयमस्ति॥५२॥
अद्राक्षमेनां मुनिभिर्हि साहमहं च सेति व्यतिहारतो या।
विभाव्यते तां त्रिजगत्सवित्रीमितः परं किं करणीयमस्ति॥५३॥
अद्राक्षमष्टादशसंख्यविद्या वश्या यदङ्घ्र्यम्बुजलग्नबुद्धेः।
तां सर्वविद्यामयदिव्यदेहामितः परं किं करणीयमस्ति॥५४॥
अद्राक्षमेनां परिहृत्य  पञ्चकोशान्सुधीभिः परिचिन्त्यमानाम्।
वेदान्तसिद्धान्तविचारशीलैरितः परं किं करणीयमस्ति॥५५॥
अद्राक्षमाधारगतत्रिकोणे संतप्तहेमप्रभलिङ्गरूपाम्।
अनाहताख्येऽरुणलिङ्गरूपामितः परं किं करणीयमस्ति॥५६॥
अद्राक्षमब्जायुतकोटिशुक्ललिङ्गस्वरूपां कमले शिरःस्थे।
वाणीमनोजन्मपरास्वरूपामितः परं किं करणीयमस्ति॥५७॥
अद्राक्षमेनां गृहदारपुत्रदेहेष्वहंताममते जहाति।
यत्पादपाथोजविचिन्तनात्तामितः परं किं करणीयमस्ति॥५८॥
अद्राक्षमेनां हरिदन्तजालविख्यातपाण्डित्ययुता भवन्ति।
यत्पादसंसक्तहृदो मुहुस्तामितः परं किं करणीयमस्ति॥५९॥
अद्राक्षमेनां मदवद्विवादिगर्वेभनिर्वापणपञ्चवक्त्राः।
यत्पादपङ्केरुहपूजकास्तामितः परं किं करणीयमस्ति॥६०॥
अद्राक्षमेनामपि किंपचानः सुरेन्द्रतुल्यः प्रभवेज्जवेन।
यन्मन्त्रजापाद्‍दृढभक्तितस्तामितः परं किं करणीयमस्ति॥६१॥
अद्राक्षमम्लानसरोजमालाविभूषितोरःस्थलशीर्षभागाम्।
अमर्त्यतेजःसमुदायरूपामितः परं किं करणीयमस्ति॥६२॥
अद्राक्षमङ्गप्रभवप्रभूतव्यथानभिज्ञैः परिचिन्त्यमानाम्।
चित्तामलत्वप्रदनैजचिन्तामितः परं किं करणीयमस्ति॥६३॥
अद्राक्षमात्मेष्टवरप्रदानसंतोषितानेकनतिप्रधानाम्।
अजातरूपामपि जातरूपामितः परं किं करणीयमस्ति॥६४॥
अद्राक्षं नारदाद्यैः सुरमुनिनिकरैर्गीयमानापदानां
  नृत्यद्दिव्याङ्गनानां करचरणविलसत्कङ्कणानां रवौघैः।
संपूर्णाशावकाशं नवनवकविताचातुरीदानदक्षां
  शृङ्गाद्रौ चक्रराजस्थिरकृतनिलयां शारदां पारदाभाम् ॥६५॥
          इति श्रीशारदाचतुःषष्टिः संपूर्णा

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.