SRI SHARADA SATASLOKI STAVAH

श्रीशारदाशतश्लोकीस्तवः
( शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनव-
      नृसिंहभारतीस्वामिभिः विरचितः)
करोतु पदविन्यासान्कमलासनकामिनी।
जिह्वाग्रे मम कारुण्याज्जितचन्द्रायुतप्रभा ॥१॥
पापेऽपि शारदाम्ब त्वं कृत्वा बहुऋपां मयि।
गरीयसीं चापि वाञ्छां पूरयाशु कृपानिधे ॥२॥

बहुभिस्त्वद्वदनाम्बुजमुल्लेखैः स्तोतुमार्यजनहृद्यैः।
प्रतिभां प्रयच्छ मह्यं करुणाजलधे पयोजभवजाये॥३॥
चम्पकसुमकोरकयुक्चकितमृगीप्रेक्षणेन संयुक्तम्।
शुककेकिनिनदजुष्टं वनमिव तव भाति वदनाब्जम् ॥४॥
नासिकाख्यवरशाखया युतं खञ्जरीटखगयुग्मभूषितम्।
पक्वबिम्बफलसंयुतं शिवे भाति भूरुह इवाननं तव ॥५॥
भक्तकेकिकुलतोषणव्रतं पद्मसंभवहृदम्बराश्रितम्।
गद्यपद्यमयवारि संददन्मेघवत्तव मुखं विभाति मे॥६॥
नेत्रोत्पलालंकृतमध्यभागं भ्रूवल्लिकाबम्भरपङ्क्तिरम्यम्।
पक्ष्मालिशैवालयुतं विभाति तवास्यमेतत्सरसीव वाणि॥७॥
सुचिल्लिकातोरणशोभमानं विशालफालाङ्गणरम्यरम्यम्।
उत्तुङ्गमाणिक्यकिरीटहर्म्यं विभाति वेश्मेव तवाम्ब वक्त्रम्॥८॥
नयनझषयुतोऽयं दन्तमुक्ताफलाढ्यो
दशनवसननामश्रीप्रवालप्रभायुक्।
प्रतिपदमभिवृद्धैः कान्तिपूरैः समेतः
शरधिरिव विभाति त्वन्मुखं वाक्सवित्रि॥९॥
कलय कलिविमोकं कालकालानुजाते
   कलय शुभसमृद्धिं भूमिमध्येऽखिलेऽस्मिन्।
कलय रुचिसमृद्धिं स्वस्वधर्मे जनानां
   कलय सुखसमृद्धिं स्वस्वधर्मे रतानाम् ॥१०॥
स्फुर ह्रुदयसरोजे शारदे शुभ्रवर्णे
    कलशममृतपूर्णं मालिकां बोधमुद्राम्।
सरसिजनिभहस्तैर्बिभ्रती पुस्तकं च
    प्रणतहृदयमच्छं कुर्वती तूर्णमेव ॥११॥   
पालय मां करुणाब्धे परिवारयुतं त्विहापि शृङ्गाद्रौ।
शारदशशिनिभवदने वरदे लघु शारदे सदये ॥१२॥
ऐन्द्रीमाशामैन्दवीं वा कलामित्यादौ बीजं जातु मातस्त्वदीयम्
व्याजाद्वा यो व्याहरेत्तस्य वक्त्राद्दिव्या वाचो निःसरन्त्यप्रयत्नात्
॥१३॥
शारदे तव पादाम्बुजयुग्मं बोधपुष्परसपूर्णमजस्रम्।
मामकं हृदयसंज्ञकमीशे
नैव मुञ्चतु सरः करुणाब्धे ॥१४॥
कथितानि मदीप्सितानि मातर्मुहुरग्रे तव शारदाम्बिके त्वम्।
न हि पूरयसे चिरायसे
किं मदघौघात्किमु शक्त्यभावतो वा ॥१५॥
अद्यैव मत्प्रार्थितमम्ब दद्या यदि त्वपारां करुणां विधाय।
वेलाविहीनं सुखमाप्नुयां हि नैवात्र सन्देहलवोऽपि कश्चित्॥१६॥
कमनीयकवित्वदां जवाद्रमणीयाम्बुजतुल्यपद्युताम्।
शमनीयभयापहारिणीं रमणीं पद्मभवस्य भावये ॥१७॥
काङ्क्षे कमलजकामिनि कमनीयैः पद्यनिकुरुम्बैः।
स्तोतुं वाचां निकरं स्वायत्तं कलय जगदम्ब ॥१८॥
कामं मम फालतले लिखतु लिपिं दुःखदां विधिः सततम्।
नाहं बिभेमि मातर्लुम्पामि त्वत्पदाब्जरजसा ताम् ॥१९॥
किं कल्पवृक्षमुख्यैः किं करधृतमेरुणा शिवेनापि ।
किं कमलया च हृदि चेत्किंकरसर्वेष्टदा वाणी ॥२०॥
तुङ्गातटनिकटचरं  भृङ्गावलिगर्वहरणचणचिकुरम्।
श्रीशारदाभिधानं भाग्यं मम जयति शृङ्गशैलाग्रे ॥२१॥
निरणायि मया समस्तशास्त्रा-
    ण्यपि वीक्ष्य प्रणतार्तिहारि लोके।
प्रविहाय तवांघ्रिपंकजातं
     न परं वस्त्विति वाणि निश्चितं तत् ॥२२॥
पद्मासनासि खलु भारति वागधीशे
   पद्मासनप्रियतमे करलग्नपद्मे।
मत्कं मनोऽम्बुजमहो स्वयमेव मातः
   श्रीशारदाम्ब विजहासि किमत्र वाच्यम् ॥२३॥
 आनीय दिव्यकुसुमानि किरन्ति लोका
     ये त्वत्पदाब्जयुगलं वचसां सवित्रि।
 तान्प्राप्तराजपदवींस्तरसा किरन्ति
     पौराङ्गनाः कुसुमलाजचयेन नूनम् ॥२४॥
आज्ञासीद्गौरवी मे तव खलु करुणावारिधिः शारदाम्बा
   साष्टांगं योगमारादुपदिशति भवानौरसः सूनुरस्याः ।
इत्यप्यद्यापि मातर्न हि खलु करुणा जायते मय्यनाथे
   किं वा कुर्यां वदाम्ब प्रणतभयहरे शारदे चापलोऽहम् ॥२५॥
नाहं निगृह्य करणानि सरोजजात-
   जाये त्वदीयपदपङ्कजयोर्हि सेवाम्।
शक्नोमि कर्तुमलमज्ञशिखामणिर्य-
   त्तस्मान्निसर्गकरुणां कुरु मय्यनाथे ॥२६॥
वाणि सरस्वति भारति वाग्वादिनि वारिजातजनिजाये।
काश्मीरपुरनिवासिनि कामितफलवृन्ददायिनि नमस्ते ॥२७॥
शरणं त्वच्चरणं मे नान्यद्वाग्देवि निश्चितं त्वेतत्।
तस्मात्कुरु करुणां मय्यनन्यशरणे द्रुतं मातः ॥२८॥
शरदभ्रसदृक्षवस्त्रवीता करदूरीकृतपङ्कजाभिमाना।
चरणाम्बुजलग्ननाकिमौलिर्वरदा स्यान्मम शारदा दयार्द्रा॥२९॥
स्थापय नरकेषु सदाप्यथ सुखकाष्ठासु दिव्यलोकेषु।
न हि तत्र मे विचारः परं तु चित्तं तवाङ्घ्रिगतमस्तु॥३०॥
शृङ्गाद्रिवासलोले भृङ्गाहंकारहारिकचभारे।
तुङ्गातीरविहारे गङ्गाधरसोदरि प्रसीद मम ॥३१॥
ऋश्यशृङ्गजनिभूमिविभूषे कश्यपादिमुनिवन्दितपादे।
पश्यदङ्घ्रिमुखपालनलोले वश्यपङ्कजभवेऽव सदा माम् ॥३२॥
कम्बुडम्बरनिवर्तककण्ठामम्बुधिं निरवधि करुणयाः।
अम्बुदप्रतिमकेशसमूहामम्बुजोद्भवसखीं कलयेऽहम् ॥३३॥
भर्मगर्वहरसंहननाभां शर्मदां पदसरोजनतेभ्यः ।
कर्मभक्तिमुखपद्धतिगम्यां कुर्महे मनसि पद्मजजायाम्॥३४॥
शम्भुसोदरि शशाङ्कनिभास्ये मन्दबुद्धिविततेरपि शीघ्रम्।
वाक्प्रदायिनि कृपामृतराशे शृङ्गशैलवरवासविलोले ॥३५॥
तुष्टिमेहि वचसां जननि त्वं मत्कृतेन विधिनाऽविधिना वा।
ऐंजपेन परिपूरय वाञ्छां मामकीं च महतीमपि शीघ्रम् ॥३६॥
तवौरसं  सूनुमहो त्वदीयभक्ताग्रगण्या
मम देशिकेन्द्राः।
प्राहुर्यतोऽतो मयि शारदाम्ब पाप्यग्रगण्येऽपि दया विधेया॥३७॥
तवौरसं मां सुतमाहुरार्यास्त्वत्पादभक्ताग्रसरा यतोऽतः।
सोढ्वा  मदीयान्सकलापराधान्पुरो भवाम्बाशु
गिरां सवित्रि॥३८॥
भक्तेष्टपाथोनिधिपूर्णचन्द्रः कवित्वमाकन्दवसन्तकालः।
जाड्यान्धकारव्रजपद्मबन्धुरम्ब प्रणामस्तव पादपद्मे ॥३९॥
मुखाम्बुजं भातु जगज्जनन्या हृदम्बुजे मे जितचन्द्रबिम्बम्।
रदाम्बराधःकृतपक्वबिम्बं महाघविध्वंसनचञ्च्वजस्रम्॥४०॥
यानेन हंसं वदनेन चन्द्रं श्रोणीभराच्छैलपतिं च कामम्।
काञ्चिद्धसन्तीं कलये हृदब्जे चन्द्रार्धराजद्वरकेशपाशाम् ॥४१॥
विस्मृत्य देहादिकमम्ब सम्यक्समुच्चरंस्तावकमन्त्रराजम्।
तुङ्गानदीपुण्यतटे कदाहं सुसैकते स्वैरगतिर्भवामि ॥४२॥
श्रीशादिसंसेवितपादपद्मे श्रीबोधदानव्रतबद्धदीक्षे।
श्रीकण्ठसोदर्यमितानुकम्पे श्रीशारदाम्बाशु कृपां कुरुष्व
॥४३॥
हृद्यानि पद्यानि विनिःसरन्ति त्वदंघ्रिसंपूजकवक्त्रपद्मात्।
विना प्रयत्नं तरसा न चित्रं त्वमम्ब यस्माद्वचसां सवित्री
॥४४॥
गमागमविवर्जितैरसुभिरन्तरङ्गेऽनिशं
    गजास्यगुहनन्दिभिः सुरवरैर्मुदा चिन्तिते।
गजाजिनधरानुजे गलिततृष्णलोकेक्षिते
    गतिं
मम शुभां मतिं सपदि देहि वागीश्वरि॥४५॥
जलोद्भवजभामिनि प्रणतसौख्यभूमप्रदे
    जडत्वविनिवारणव्रतनिषक्तचेतोऽम्बुजे।
जगत्त्रयनिवासिभिः सततसेव्यपादाम्बुजे
     जगज्जननि शारदे जनय सौख्यमत्यद्भुतम् ॥४६॥
मदेभगमनेऽवने नतततेरनेकैः सुखै-
   रनारतमजामितं प्रवणहृत्सरोजेऽम्बिके।
कुतो मयि कृपा न ते प्रसरति प्रसन्ने वद
   प्रपञ्चजननप्रभुप्रणयिनि प्रपद्येऽद्य कम्॥४७॥
कदा वा श्रुङ्गाद्रौ विमलतरतुङ्गापरिसरे
   वसन्मातर्वाचां शिरसि
निदधानोऽञ्जलिपुटम्।
 गिरां देवि ब्राह्मि प्रणतवरदे भारति जवा-
   त्प्रसीदेति क्रोशन्निमिषमिव नेष्यामि दिवसान्॥४८॥
जगन्नाथं गङ्गा विविधवृजिनोघैः परिवृतं
   यथाऽरक्षत्पूर्वं सकलमपि हत्वाशु दुरितम्।
पुनश्चान्ते दत्त्वा करसरसिजं पूर्णकृपया
    जनैः सद्भिः प्राप्यां परमपदवीं प्रापितवती ॥४९॥
तथा शान्तं पापं सकलमपि कृत्वा मम जवा-
   द्धृदंभोजे 
लग्नं कुरु तव पदाम्भोरुहयुगम्।
कराम्भोजे पश्चात्परमकृपया देवि वचसां
   प्रदत्त्वाऽऽलम्बं माम् गमय पदवीं निर्मलतराम् ॥५०॥
दवीयांसं त्वेनं परमकृपया देशिकमुखा-
   त्समानीयाम्ब त्वं तव पदपयोजातनिकटम्।
 अवित्वापीयन्तं समयमधुना देवि भजसे
   यदौदास्यं तर्हि त्रिजगति ममान्यां वद गतिम् ॥५१॥
 कामं सन्तु सुरा निरन्तरनिजध्यानार्चनाकारिणो
     लोकान्स्वेप्सितसर्वसौख्यसहितान्कर्तुं जगत्यां किल।
  पूजाध्यानजपादिगन्धरहितांस्त्रातुं पुनस्त्वां विना
      नान्यद्दैवतमस्तिपद्मजमनःपद्मार्भकार्कप्रभे ॥५२॥
कारुण्यं मयि धेहि मातरनिशं पद्मोद्भवप्रेयसि
     प्रारब्धं मम दुष्टमाशु शमय प्रज्ञां शुभां यच्छ मे।
कर्तुं  काव्यचयं रसौघभरितं शक्तिं
दृढां भक्तिम-
     प्यंहःसञ्चयवारिणीं तव पदाम्भोजे कृपाम्भोनिधे ॥५३॥
कुर्यामद्य किमम्ब भक्तिरहितः पूजां जपं तर्पणम्
     किं वैराग्यविवेकगन्धरहितः कुर्यां विचारं श्रुतेः ।
किं योगं प्रकरोमि चञ्चलमनाः शृङ्गाद्रिवासप्रिये
     त्वत्पादप्रणतिं विहाय न गतिर्मेऽन्या गिरां देवते ॥५४॥
जह्यान्नैव कदापि तावकपदं  मातर्मनो मामकं
     मान्द्यध्वान्तनिवारणोद्यतदिनेशाखर्वगर्वावलि।
गौरीनाथरमाधवाब्जभवनैः संभाव्यमानं मुदा
     वाक्चातुर्यविधानलब्धसुयशःसंपूरिताशामुखम् ॥५५॥
तुङ्गातीरविहारसक्तहृदये शृङ्गारजन्मावने
     गङ्गाधारिमुखामरेन्द्रविनुतेऽनङ्गाहितापद्धरे ।
 सङ्गातीतमनोविहाररसिके गङ्गातरङ्गायिता
     भृङ्गाहंकृतिभेददक्षचिकुरे तुङ्गा गिरो देहि मे ॥५६॥
 त्वत्पादाम्बुजपूजनाप्तहृदयाम्भोजातशुद्धिर्जनः
     स्वर्गं रौरवमेव वेत्ति कमलानाथास्पदं दुःखदम्।
 कारागारमवैति चन्द्रनगरं वाग्देवि किं वर्णनै-
     दृश्यं सर्वमुदीक्षते स हि पुना रज्जूरगाद्यैः समम्॥५७॥
 त्वत्पादाम्बुरुहं विहाय शरणं नास्त्येव मेऽन्यद्ध्रुवं
      वाचां देवि कृपापयोजलनिधे कुत्रापि
वा स्थापय।
 अप्यूर्ध्वं ध्रुवमण्डलादथ फणीन्द्रादप्यधस्तत्र मे
      त्वन्न्यस्तैहिकपारलौकिकभरस्त्वासे न कापि व्यथा॥५८॥
 त्वत्पादाम्बुरुहं हृदाख्यसरसिस्याद्रूढमूलं यदा
      वक्त्राब्जे त्वमिवाम्ब पद्मनिलया तिष्ठेद्गृहे निश्चला।
 कीर्तिर्यास्यति दिक्तटानपि नृपैः संपूज्यता स्यात्तदा
       वादे
सर्वनयेष्वपि प्रतिभटान्दूरीकरोत्येव हि ॥५९॥
 मातस्त्वत्पदवैभवं निगदितुं प्रारभ्य नागेश्वरा-
     ऽस्वप्नाचार्यकवीन्दुशेखरदिनेशाद्याः प्रभग्ना मुहुः।
 क्वाहं तत्कथने जडेष्वचरमः कारुण्यपाथोनिधे
     वाचां देवि सुतस्य साहसमिदं क्षन्तव्यमेवाम्बया ॥६०॥
 मातः शृङ्गपुरीनिवासरसिके मातङ्गकुम्भस्तनि
     प्राणायाममुखैर्विनापि मनसः स्थैर्यं द्रुतं देहि मे।
 येनाहं सुखमन्यदुर्लभमहोरात्रं भजाम्यन्वहं
     प्राप्स्याम्यात्मपरैकबोधमचलं निःसंशयं शारदे ॥६१॥
 वेदाभ्यासजडोऽपि यत्करसरोजातग्रहात्पद्मभू-
      श्चित्रं विश्वमिदं तनोति विविधं वीतक्रियं सक्रियम्।
 तां तुङ्गातटवाससक्तहृदयां श्रीचक्रराजालयां
      श्रीमच्छङ्करदेशिकेन्द्रविनुतां श्रीशारदाम्बां भजे ॥६२॥
 वैराग्यं दृढमम्ब देहि विषयेष्वाद्यन्तदुःखप्रदे-
      ष्वाम्नायान्तविचारणे स्तिरतरां चास्थां कृपावारिधे।
 प्रत्यग्ब्रह्मणि चित्तसंस्थितिविधिं संबोधयाश्वेव मां
       त्वं ब्रूषे सकलं ममेति गुरवः प्राहुर्यतः शारदे ॥६३॥
 कमलासनवरकामिनि करधृतचिन्मुद्रिके कृपाम्भोधे।
 करकलितामलकाभं तत्त्वं मां बोधयतु जगदम्ब ॥६४॥
 करविधृतकीरडिम्भां शरदभ्रसधर्मवस्त्रसंवीताम्।
 वरदाननिरतपाणिं  सुरदां प्रणमामि शारदां सदयाम्
॥६५॥
 कामाक्षीविपुलाक्षीमीनाक्षीत्यादिनामभिर्मातः।
 काञ्चीकाशीमधुरापुरेषु भासि त्वमेव वाग्जननि॥६६॥
 चन्द्रार्धशेखरापररूपश्रीशङ्करार्यकरपूज्ये।
 चन्द्रार्धकृतवतंसे चन्दनदिग्धे नमामि वाणि पदे॥६७॥
               
 जय जय चिन्मुद्रकरे जय जय शृङ्गाद्रिविहरणव्यग्रे।
 जय जय पद्मजजाये जय जय जगदम्ब शारदे सदये ॥६८॥
 दुर्वसनदत्तशापप्रतिपालनलक्ष्यतः समस्तानाम्।
 रक्षार्थमवनिमध्ये कृतचिरवासां नमामि वाग्देवीम्॥६९॥
 नवनवकवनसमर्थं पटुतरवाग्धूतवासवाचार्यम्।
 वनजासनवरमानिनि वरदे कुरु शीघ्रमंघ्रिनतम्॥७०॥
 भगवत्पदमण्डनयोर्वादमहे सकललोकचित्रकरे।
 अङ्गीकृतमाध्यस्थ्यां जगदम्बां नौमि शारदां सदयाम् ॥७१॥
 सेवापूजानमनविधयः सन्तु दूरे नितान्तं
      कादाचित्का स्मृतिरपि पदाम्भोजयुग्मस्य तेऽम्ब।
 मूकं रङ्कं कलयति सुराचार्यमिन्द्रं च वाचा
      लक्ष्म्या लोको न च कलयते तां कलेः किं हि दौःस्थ्यम्॥७२॥
     
  आशावस्त्रः सदात्मन्यविरतहृदयस्त्यक्तसर्वानुरागः
       काये चक्षुर्मुखेष्वप्यनुदितममतः क्वापि कस्मिंश्च काले।
  शैलाग्रेऽरण्यकोणे क्वचिदपि पुलिने क्वापि रेवातटे वा
       गङ्गातीरेऽथ तुङ्गातटभुवि च कदा स्वैरचारी भवेयम् ॥७३॥      
             
         
  कल्पन्तां काम्यसिद्ध्यै कलिमलहतये चाक्षयैश्वर्यसिद्ध्यै
      कारुण्यापारपूराः कमलभवमनोमोददानव्रताढ्याः
  कात्यायन्यब्धिकन्यामुखसुररमणीकाङ्क्ष्यमाणाः कवित्व-
      प्राग्भाराम्भोधिराकाहिमकरकिरणाः शारदाम्बाकटाक्षाः ॥७४॥
     
               
   कल्पादौ तन्महिम्ना कतिपयदिवसेष्वेव लुप्तेषु मार्गे-
        ष्वाम्नायप्रोदितेषु प्रवरसुरगणैः प्रार्थितः पार्वतीशः।
    आम्नायाध्वप्रवृद्ध्यै यतिवरवपुषागत्य यां शृङ्गशैले
        संस्थाप्यार्चां प्रचक्रे निवसतु वदने शारदा सादरं सा॥७५॥
    तिष्ठाम्यत्रैव मातस्तव पदयुगलं वीक्षमाणः प्रमोदा-
       न्नाहं त्यक्त्वा तवाङ्घ्रिं सकलसुखकरं क्वापि गच्छामि नूनम्।
    छायां मत्कां विधत्स्व प्रवचननमनध्यानपूजासु शक्तां
        शुद्धामेकां त्रिलोकीजननपटुविधिप्राणकान्ते नमस्ते ॥७६॥
     त्वद्बीजे वर्तमाने वदनसरसिजे  दुर्लभं
किं नराणां
        धर्मो वाऽर्थश्च कामोऽप्यथ च सकलसंत्यागसाध्यश्च मोक्षः।
      काम्यं वा सार्वभौम्यं कमलजदयितेऽहेतुकारुण्यपूर्णे    
         शृङ्गाद्र्यावासलोले भवति सुरवराराध्यपादारविन्दे ॥७७॥
     दृष्ट्वा त्वत्पादपङ्केरुहनमनविधावुद्यतान्भक्तलोका-
         न्दूरं गच्छन्ति रोगा हरिमिव हरिणा वीक्ष्य यद्वत्सुदूरम्।
     कालः कुत्रापि लीनो भवति दिनकरे प्रोद्यमाने तमोव-
         त्सौख्यं चायुर्यथाब्जं विकसति वचसां देवि शृङ्गाद्रिवासे॥७८॥  
    
     नाहं त्वत्पादपूजामिह गुरुचरणाराधनं चाप्यकार्षं
        नाश्रौषं तत्त्वशास्त्रं न च खलु मनसः स्थैर्यलेशोऽपि कश्चित्।
     नो वैराग्यं विवेको न च मम सुदृढा मोक्षकाङ्क्षाऽपि नूनं
        मातः कावा गतिर्मे सरसिजभवनप्राणकान्ते न जाने ॥७९॥
     नौमि त्वां शैववर्याः शिव इति गणनाथार्चका विघ्नहर्ते-
        त्यार्येत्यम्बाङ्घ्रिसक्ता हरिभजनरता विष्णुरित्यामनन्ति।
      यां तां सर्वस्वरूपां सकलमुनिमनःपद्मसंचारशीलां
         शृङ्गाद्र्यावासलोलां कमलजमहिषीं शारदां पारदाभाम् ॥८०॥
     यः कश्चिद्बुद्धिहीनोऽप्यविदितनमनध्यानपूजाविधानः
          कुर्याद्यद्यम्ब सेवां तव पदसरसीजातसेवारतस्य ।
      चित्रं तस्यास्यमध्यात्प्रसरति कविता वाहिनीवामराणां
          सालङ्कारा सुवर्णा सरसपदयुता यत्नलेशं विनैव ॥८१॥
       याचन्ते नम्रलोका विविधगुरुरुजाक्रान्तदेहाः पिशाचै-
           राविष्टाङ्गाश्च तत्तज्जनितबहुतरक्लेशनाशाय शीघ्रम्।
        किं कुर्यां मन्त्रयन्त्रप्रमुखविधिपरिज्ञानशून्यश्चिकित्सां
           कर्तुं  न त्वत्पदाब्जस्मरणलवमृते वाणि जानेऽत्र किंचित्॥८२॥
         रागद्वेषादिदोषैः सततविरहितैः शान्तिदान्त्यादियुक्तै-
             राचार्याङ्घ्र्यब्जसेवाकरणपटुतरैर्लभ्यपादारविन्दा।
         मुद्रास्रक्कुम्भविद्याः करसलिलरुहैः संदधाना पुरस्ता-
             दास्तां वाग्देवता नः कलिकृतविविधापत्तिविध्वंसनाय ॥८३॥
         वारय पापकदम्बं तारय संसारसागरं  तरसा।
         शोधय चित्तसरोजं बोधय परतत्त्वमाशु मामम्ब ॥८४॥
        सच्चिद्रूपात्मनिष्ठः प्रगलितसकलाक्षादिवृत्तिः शयानो
           भुञ्जानः सत्यसौख्यं तदितरसुखतः प्राप्तनीरागभावः।
        पाषाणे वाथ तल्पे वनभुवि सदने पार्थिवस्याऽश्महेम्नो-
          र्नार्यां मृत्यौ च तुल्यः सततसुखिमनाः स्यां कदा शारदाम्ब॥८५॥
         किं पाठयेयं लघुचन्द्रिकां वा किं वा त्यजेयं सकलप्रपञ्चम्।
         स्वप्नेऽद्य मे ब्रूहि किमत्र कार्यं डोलायितं मामकमम्ब चेतः ॥८६॥
         त्यागे वाऽध्यापने वा मम खलु न गिरां देवि काप्यस्ति शक्ति-
           स्त्वं वै सर्वत्र हेतुर्यदसि निरवधिर्वारिराशिः कृपायाः ।
         तस्मात्स्वप्नेऽद्य
कार्यं मम खलु निखिलं बोधयैवं कुरुष्वे-
            त्यज्ञानां बोधनार्थं त्वमिह बहुविधा अम्ब मूर्तीर्बिभर्षि॥८७॥
    
     वितर विधिप्रेयसि मे विमलधियं वाञ्छितं च तरसैव।
     विष्णुमुखामरवन्द्ये विधुबिम्बसमानवदनकञ्जाते   ॥८८॥
     शारदनीरदसन्निभवसने वनजासनान्तरङ्गचरे।
     वरटावल्लभयाने वरदे वाग्देवि शारदे पाहि॥८९॥
     सप्तदशघस्रमविरतमीशेन समस्तविद्यानाम्।
     विरचितवादां कुतुकात्सामोदं नौमि वाग्जननीम्॥९०॥ 
 
      सुरवरनिषेव्यपादे सुखलवाधूतकेकिकुलनिनदे
      सुरवनविहारबलदे सुरवरदे पाहि शारदे सुरदे ॥९१॥
 
      कुन्दरदनेऽम्ब वाणि मुकुन्दरवीन्द्वादिदेववर्येड्ये ।
      कुन्दरकृपावशान्मुकुन्दवराद्यांश्च मे निधीन्देहि ॥९२॥
      स्फुरशरदिन्दुप्रतिभटवदने वाग्देवि मामके मनसि।
      वरदाननिरतपाणे सरसिजनयने सरोजजातसखि॥९३॥
      अस्थिरभक्तेर्मम देवि गिरां शीघ्रं दत्त्वा काञ्चित्सिद्धिम्।
      कुरु सुदृढां मम तव पादाब्जे भक्तिं शृङ्गगिरीन्द्रनिवासे॥९४॥
      सहमानसोदरि सह प्रण्तकृता मानहीनमन्तुततीः।
      सहमानसोदरीत्वं त्यज वा युक्तं
यदत्र कुरु वाणि ॥९५॥
      वलभिन्मुखनिर्जरवरसेव्ये कलवचनन्यक्कृतपिकरावे।
      जलजप्रतिभटपदयुगरम्ये कलय प्रवरं कृतिनामेनम्॥९६॥         
                                  
     करविलसद्वरपुस्तकमाले शरदब्जाहंकृतिहरचेले।
     अरणीसुमनिभकुंकुमफाले शरणं
मम भव धृतशुकबाले ॥९७॥
      कलयासक्तिं कमलजदयिते तुलनाशून्यामींमनुवर्ये।
      वलयाञ्चितकरसरसीजाते ललनाभिः सुरवितते:
पूज्ये॥९८॥
      शृङ्गक्ष्माभृन्कूटविहारे तुङ्गातटभूकृतसञ्चारे।
      वाचां देवि प्रार्थितमर्थं शीघ्रं देहि प्रणतायास्मै॥९९॥
      नाहं सोढुं कालविलम्बं शक्नोम्यम्ब प्रणतप्रवणे।
      ईप्सितमर्थं देहि तदाशु द्रुहिणस्वान्ताम्बुजबालघृणे ॥१००॥
           
             ॥इति श्रीशारदाशतश्लोकीस्तवः संपूर्णः॥

 

Author Socials Follow me