श्रीशारदास्तोत्रम्
( शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनव-
नृसिंहभारतीस्वामिभिः विरचितम्)
निदानमनुकम्पायाः पदाधःकृतपङ्कजाम्।
सदा नम्रालिसुखदां कदा द्रक्ष्यामि शारदाम्॥१॥
विदामग्रसरो भूयाद्यदालोकनमात्रतः।
रदालिजितकुन्दां तां कदा द्रक्ष्यामि शारदाम्॥२॥
अम्भोदनीलचिकुरां कुम्भोद्भवनिषेविताम्।
दम्भोलिधारिसंसेव्यां कदा द्रक्ष्यामि शारदाम्॥३॥
रंभानिभोरुयुगलां कुम्भाभस्तनराजिताम्।
शुम्भादिदैत्यशमनीं कदा द्रक्ष्यामि शारदाम्॥४॥
अव्याजकरुणामूर्तिं सुव्याहारप्रदायिनीम्।
रव्यादिमण्डलान्तःस्थां कदा द्रक्ष्यामि शारदाम्॥५॥
मह्यम्ब्वादिजगद्रूपां मह्यं लोकेषु ये जनाः।
द्रुह्यन्ति तेषां भयदां कदा द्रक्ष्यामि शारदाम्॥६॥
शल्यापहारचतुरां वल्ल्याशासितमार्दवाम्।
कल्याणदाननिरतां कदा द्रक्ष्यामि शारदाम्॥७॥
अस्मानवाप्तकामांस्ते यस्मात्प्रकुरुतेकृपा।
तस्मात्कृतोपकारां त्वां कदा द्रक्ष्यामि शारदाम्॥८॥
कुन्देन्दुदुग्धधवलां मन्देतरधनं जवात्।
विन्देद्यदङ्घ्रिनम्रस्तां कदा द्रक्ष्यामि शारदाम्॥९॥
वन्दारुजनवृन्दानां मन्दारव्रतधारिणीम्।
वृन्दारकेन्द्रविनुतां कदा द्रक्ष्यामि शारदाम्॥१०॥
क्षमानिर्धूतवसुधां शमादिगुणदायिनीम्।
रमासंस्तुतचारित्रां कदा द्रक्ष्यामि शारदाम्॥११॥
समाराधयतां नैव यमाद्भीर्यत्पदाम्बुजे।
समाधिमात्रगम्यां तां कदा द्रक्ष्यामि शारदाम्॥१२॥
सुमालिविलसद्ग्रीवां समानाधिकवर्जिताम्।
कुमारगणनाथेड्यां कदा द्रक्ष्यामि शारदाम्॥१३॥
सामादिवेदविनुतां भूमानन्दप्रदायिनीम्।
सीमातिलङ्घिकरुणां कदा द्रक्ष्यामि शारदाम्॥१४॥
गण्डाग्रराजत्कस्तूरीं खण्डान्यसुखदायिनीम्।
शुण्डालास्याग्निभूसेव्यां कदा द्रक्ष्यामि शारदाम्॥१५॥
तुण्डाधरीकृतविधुं चण्डाज्ञाननिवारिणीम्।
भण्डादिदैत्यदर्पघ्नीं कदा द्रक्ष्यामि शारदाम्॥१६॥
जुष्ट्वा वेदशिरोवाग्भिरिष्ट्वा च विविधैर्मखैः।
दृष्ट्वा हृष्यन्ति लोके यां कदा द्रक्ष्यामि शारदाम्॥१७॥
तेजोविजितगाङ्गेयां रजोगुणनिवारिणीम्।
भुजोद्धूतबिसाहंतां कदा द्रक्ष्यामि शारदाम्॥१८॥
दिवाकरेन्दुताटङ्कां प्रवाहकविताप्रदाम्।
सवादिकर्मभिस्तुष्टां कदा द्रक्ष्यामि शारदाम्॥१९॥
लवाद्यस्याः कटाक्षस्य सवाजिरथकुञ्जराम्।
अवाप्नुयाच्छ्रियं लोकः कदा द्रक्ष्यामि शारदाम्॥२०॥
दुर्लभां दुष्टमनसां सुलभां शुद्धचेतसाम्।
वलन्मुक्तासरां कण्ठे कदा द्रक्ष्यामि शारदाम्॥२१॥
द्राक्षासदृक्षवाग्दात्रीं वीक्षापालितविष्टपाम्।
लाक्षारञ्जितपादाब्जां कदा द्रक्ष्यामि शारदाम्॥२२॥
धृत्वा लक्ष्यं भ्रुवोर्मध्ये कृत्वा कुम्भकमादरात्।
ध्यात्वा हृष्यन्ति यां लोकाः कदा द्रक्ष्यामि शारदाम्॥२३॥
निष्पापाराध्यचरणां दुष्प्रापामकृतात्मभिः।
पुष्पालिगर्भितकचां कदा द्रक्ष्यामि शारदाम्॥२४॥
नीलाब्जतुल्यनयनां बालाब्जविलसत्कचाम्।
कैलासनाथविनुतां कदा द्रक्ष्यामि शारदाम्॥२५॥
लीलानिर्मितलोकालिं लोलामम्बुजसंभवे।
कालाटवीदवशिखां कदा द्रक्ष्यामि शारदाम्॥२६॥
पुराणागमसंवेद्यां विरागिजनसेवितां।
कराग्रविलसन्मालां कदा द्रक्ष्यामि शारदाम्॥२७॥
मुरारिमुखसंसेव्यां सुरारिमदमर्दिनीम्।
स्वरादिभुवनाधीशां कदा द्रक्ष्यामि शारदाम्॥२८॥
सुराचार्यसदृक्षः स्याद्गिरा यत्पदपूजकः।
चराचरजगत्कर्त्रीं कदा द्रक्ष्यामि शारदाम्॥२९॥
वीराराध्यपदाम्भोजां क्रूरामयविनाशिनीम्।
घोरापस्मारशमनीं कदा द्रक्ष्यामि शारदाम्॥३०॥
शरणं सर्वलोकानां शरदभ्रनिभाम्बराम्।
करराजद्बोधमुद्रां कदा द्रक्ष्यामि शारदाम्॥३१॥
स्मरणात्सर्वपापघ्नीं चरणाम्बुजयोः सकृत्।
वरदां पदनम्रेभ्यः कदा द्रक्ष्यामि शारदाम्॥३२॥
पर्णाहारैः सेव्यमानां कर्णाग्रलसदुत्पलाम्।
स्वर्णाभरणसंयुक्तां कदा द्रक्ष्यामि शारदाम्॥३३॥
पूर्णचन्द्रसमानास्यां तूर्णमिष्टप्रदायिनीम्।
चूर्णयन्तीं पापवृन्दं कदा द्रक्ष्यामि शारदाम्॥३४॥
प्रभाजिततटित्कोटिं सभासु प्रतिभाप्रदाम्।
विभावरीशतुल्यास्यां कदा द्रक्ष्यामि शारदाम्॥३५॥
मत्तमातङ्गगमनां चित्तपद्मगतां सतां।
वित्तनाथार्चितपदां कदा द्रक्ष्यामि शारदाम्॥३६॥
यतिनाथसमाराध्यां मतिदानधुरंधराम्।
पतितायापि वरदां कदा द्रक्ष्यामि शारदाम्॥३७॥
यथा दुष्टा लिपिर्वैधी वृथा स्यान्नम्रफालगा।
तथा करोति यद्ध्यानं कदा द्रक्ष्यामि शारदाम्॥३८॥
रोगालिवारणचणां भोगानां पूगदायिनीम्।
योगाभ्यासरतध्येयां कदा द्रक्ष्यामि शारदाम्॥३९॥
विधातुममरान्नम्रान्सुधाकलशधारिणीम्।
क्रुधारहितहृल्लभ्यां कदा द्रक्ष्यामि शारदाम्॥४०॥
वीतां निर्जरनारीभिर्गीतां गन्धर्वगायकैः।
पीताम्बरादिविनुतां कदा द्रक्ष्यामि शारदाम्॥४१॥
शिक्षिताखिलदैतेयां कुक्षिस्थितजगत्त्रयीम्।
रक्षितामरसन्दोहां कदा द्रक्ष्यामि शारदाम्॥४२॥
शिखाभिर्गीतमाहात्म्यां सुखाराध्यपदां श्रुतेः।
नखांशुजितचन्द्राभां कदा द्रक्ष्यामि शारदाम्॥४३॥
शोकापहारचतुरां राकाचन्द्रसमाननाम्।
केकासदृशवाग्भङ्गीं कदा द्रक्ष्यामि शारदाम्॥४४॥
शृङ्गाद्रिवासनिरतां गङ्गाधरसहोदरीं।
तुङ्गातटचरीं भूयः कदा द्रक्ष्यामि शारदाम्॥४५॥
शृङ्गारजन्मधरणिं गङ्गां तापनिवारणे।
तुङ्गां पयोधरयुगे कदा द्रक्ष्यामि शारदाम्॥४६॥
सुयशोदाननिरतां शयनिर्जितपल्लवाम्।
इयत्तातीतसौन्दर्यां कदा द्रक्ष्यामि शारदाम्॥४७॥
स्वर्गापवर्गसुखदां दुर्गापद्विनिवारिणीम्।
दुर्गाशाकम्भरीरूपां कदा द्रक्ष्यामि शारदाम्॥४८॥
कदा शृङ्गगिरिं द्रक्ष्ये कदा तुङ्गां पिबाम्यहम्।
कदा स्तोष्येऽग्रतो देव्याः कदा द्रक्ष्यामि शारदाम्॥४९॥
कदा पापक्षयोभूयात्कदा पुण्यसमागमः।
कदा पदे नमस्यामि कदा द्रक्ष्यामि शारदाम्॥५०॥
सुहृदः शत्रवो वा मे ये सन्ति भुवि शारदे।
अविशेषेण सर्वांस्तान्पाहि दत्त्वा शुभां धियम् ॥५१॥
शारदे त्वत्पदाम्भोजलोलम्बायितमानसः।
अकार्षं स्तोत्रमेतच्छ्रीसच्चिदानन्दनामकः॥५२॥
य इदं प्रपठेद्भक्त्या शारदास्तोत्रमण्डलम्।
प्राप्नोति सततं लोके मङ्गलानां स मण्डलम् ॥५३॥