श्रीवाणीपाण्यवलम्बस्तुतिः
( शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनव-
नृसिंहभारतीस्वामिभिः विरचिता)
जाड्यवारिधिनिमग्नसुबुद्धेर्जातरूपसदृशच्छविकाये।
वासवादिदिविषद्प्रवरेड्ये वाणि देहि मम पाण्यवलम्बम्॥१॥
पाणिनिर्जितसरोरुहगर्वे पारदे विविधदुःखपयोधेः।
वासनाविरहितैर्लघुलभ्ये वाणि देहि मम पाण्यवलम्बम्॥२॥
शृङ्गशैलशिखरादृतवासेऽनङ्गगर्वहरशंभुसगर्भ्ये।
तुङ्गमङ्गलनिदानकटाक्षे वाणि देहि मम पाण्यवलम्बम्॥३॥
शारदाभ्रसदृशाम्बरवीते नारदादिमुनिचिन्तितपादे।
नीलनीरदसदृक्कचभारे वाणि देहि मम पाण्यवलम्बम्॥४॥
यत्पदाम्बुरुहपूजकवक्त्रादाशु निःसरति वागनवद्या।
स्वर्धुनी हिमगिरेरिव सा त्वं वाणि देहि मम पाण्यवलम्बम्॥५॥
जातुचित्प्रणमतोऽपि पदाब्जे देवराजसदृशान्प्रकरोषि।
यत्तदम्ब चरणौ तव वन्दे वाणि देहि मम पाण्यवलम्बम्॥६॥
शान्तिदान्तिमुखसाधनयुक्तैर्वेदशीर्षपरिशीलनसक्तैः।
आदरादहरहःपरिसेव्ये वाणि देहि मम पाण्यवलम्बम्॥७॥
कोशपञ्चकनिषेधनपूर्वं क्लेशपञ्चकमपि प्रविहाय।
यां प्रपश्यति यतिर्हृदि सा त्वं वाणि देहि मम पाण्यवलम्बम्॥८॥
वन्द्यमानचरणे सुरबृन्दैर्गीयमानचरिते तुरगास्यैः।
जप्यमाननिजनाम्नि मुनीन्द्रैर्वाणि देहि मम पाण्यवलम्बम्॥९॥
संनिरीक्ष्य कमलानि यदङ्घ्री साम्यमाप्तुमनयोस्तपसाम्भः।
कण्ठदघ्नमधिजग्मुरसौ सा वाणि देहि मम पाण्यवलम्बम्॥१०॥
पुण्यमम्ब न कृतं मतिपूर्वं पापमेव रचितं त्वतियत्नात्।
तेन तप्तमनिशं हृदयाब्जं वाणि देहि मम पाण्यवलम्बम्॥११॥
नाहमम्ब सरसां च सुवर्णामातनोमि कवितां विविधार्थाम्।
केन पूजयति मां भुवि लोको वाणि देहि मम पाण्यवलम्बम्॥१२॥
अक्षपादकणभुक्फणिनाथैर्देवहूतिसुतजैमिनिमुख्यैः।
प्रोक्तशास्त्रनिचये न हि बुद्धिर्वाणि देहि मम पाण्यवलम्बम्॥१३॥
नैव पादसरसीरुहयोस्ते पूजनं प्रतिदिनं प्रकरोमि।
हेतुशून्यकरुणाजनिभूमे वाणि देहि मम पाण्यवलम्बम्॥१४॥
संनिरुध्य हृदयाम्बुजमध्ये स्वान्तमम्ब तव सुन्दरमूर्तेः।
ध्यानमप्यनुदिनं न हि कुर्वे वाणि देहि मम पाण्यवलम्बम्॥१५॥
दुःखजन्मवसुधा विषया इत्यादरेण श्रुतिभिः श्रुतिशीर्षैः।
बोधितोऽपि न हि यामि विरक्तिं वाणि देहि मम पाण्यवलम्बम्॥१६॥
पुत्रमित्रगृहदारजनन्यो भ्रातृबन्धुधनभृत्यमुखा वा।
नैव कालवशगस्य सहाया वाणि देहि मम पाण्यवलम्बम्॥१७॥
एकमेवसदबाधितमन्यत्तुच्छमित्यसकृदागमशीर्षम्।
वक्त्यथापि न निवृत्तिरनित्याद्वाणि देहि मम पाण्यवलम्बम्॥१८॥
जन्ममृत्युभयनीरधिमध्ये मज्जतो विविधरुङ्मकराढ्ये।
पश्यतोऽपि न हि भीतिरनेकान्वाणि देहि मम पाण्यवलम्बम्॥१९॥
त्वत्पदाम्बुरुहयुग्ममपास्य प्राक्तनाघपरिमार्जनदक्षं ।
नास्ति तारणविधानसमर्थं वाणि देहि मम पाण्यवलम्बम्॥२०॥
बालचन्द्रपरिचुम्बितशीर्षे बाहुसक्तकनकाङ्गदरम्ये।
कण्ठलोलवरमौक्तिकहारे वाणि देहि मम पाण्यवलम्बम्॥२१॥
आननेन चरणेन कटाक्षैर्नीरजासनमनोहरकान्ते।
चन्द्रमम्बुजमलिं च हसन्ती वाणि देहि मम पाण्यवलम्बम्॥२२॥
मध्यनिर्जितमृगाधिपगर्वे मत्तवारणसदृग्गतिशीले।
मञ्जुशिञ्जितमहाभरणाढ्ये वाणि देहि मम पाण्यवलम्बम्॥२३॥
तापमम्ब विनिवार्य समस्तं पापमप्यहरहःकृतमाशु।
चित्तशुद्धिमचिरात्कुरुमातर्वाणि देहि मम पाण्यवलम्बम्॥२४॥
पादपद्मयुगमर्दनरूपा पात्रवस्त्रपरिशुद्धिमुखा वा।
श्रीगुरोर्न हि कृता बत सेवा वाणि देहि मम पाण्यवलम्बम्॥२५॥
मन्त्रराजलयपूर्वकयोगान्योगिनीहृदयमुख्यसुतन्त्रान्।
नैव वेद्मि करुणामृतराशे वाणि देहि मम पाण्यवलम्बम्॥२६॥
कामलोभमदपूरितचेतःप्राणिदूरनिजपादपयोजे।
कामनिर्मथनदक्षसगर्भ्ये वाणि देहि मम पाण्यवलम्बम्॥२७॥
अङ्गयष्टिरुचिनिर्जितभर्मे कुम्भिकुम्भपरिपन्थिकुचाढ्ये।
भृङ्गनीलचिकुरे तनुमध्ये वाणि देहि मम पाण्यवलम्बम्॥२८॥
स्वाङ्घ्रिसेवनसमागतकाष्ठाकान्तदारकरमर्दितपादे।
स्वामिनि त्रिजगतां धृतवीणे वाणि देहि मम पाण्यवलम्बम्॥२९॥
नीलनागनिवहा विविशुर्यद्वेणिकां मुहुरवेक्ष्य बिलानि।
लज्जयाशु विधिभामिनि सा त्वं वाणि देहि मम पाण्यवलम्बम्॥३०॥
शान्तिदान्तिविरतिप्रमुखा मां मोहकोपमुखरोगविशीर्णम्।
वीक्ष्य यान्ति तरसा बहुदूरं वाणि देहि मम पाण्यवलम्बम्॥३१॥
काकलोकसदृशः पिकलोकः केकिजालमपि शोकि नितान्तम्।
यद्वचः श्रवणतः खलु सा त्वं वाणि देहि मम पाण्यवलम्बम्॥३२॥
राजराजपदवीं क्षणमात्राद्याति यत्पदसरोरुहनत्या।
दीनराडपि जनो भुवि सा त्वं वाणि देहि मम पाण्यवलम्बम्॥३३॥
श्रीघ्रकाव्यकरणेऽम्ब पटुत्वं यान्ति मूकबधिरादिममर्त्याः।
यत्पदप्रणतितो भुवि सा त्वं वाणि देहि मम पाण्यवलम्बम्॥३४॥
ब्राह्मि भारति सरस्वति भाषे वाक्सवित्रि कमलोद्भवजाये।
पाणिपङ्कजलसद्वरवीणे वाणि देहि मम पाण्यवलम्बम्॥३५॥
चामरप्रविलसत्करगौरी विष्णुदारपरिसेवितपार्श्वे।
चामराजसुतपालनसक्ते वाणि देहि मम पाण्यवलम्बम्॥३६॥
शेषशैलपतिनामकमन्त्रिश्रेष्ठपालनपरायणचित्ते।
शेवधेऽब्जभवपूर्ववृषाणां वाणि देहि मम पाण्यवलम्बम्॥३७॥
श्रीनृसिंहशिशुरामयुतश्रीकण्ठपालननिषक्तमनस्के।
श्रीशशंकरमुखामरपूज्ये वाणि देहि मम पाण्यवलम्बम्॥३८॥
इति श्रीवाणीपाण्यवलम्बस्तुतिः
सम्पूर्णा
सम्पूर्णा