वसुदेवकृतश्रीकृष्णस्तोत्रम्
त्वामतीन्द्रियमव्यक्तमक्षरं निर्गुणं विभुं
ध्यानासाध्यञ्च सर्वेषां परमात्मानमीश्वरम्॥१॥
स्वेच्छामयं सर्वरूपं स्वेच्छारूपधरं परं।
निर्लिप्तं परमं ब्रह्म बीजरूपं सनातनम् ॥२॥
स्थूलात् स्थूलतरं प्राप्तमतिसूक्ष्ममदर्शनं।
स्थितं सर्वशरीरेषु साक्षिरूपमदृश्यकम्॥३॥
शरीरवन्तं सगुणमशरीरं गुणोत्करं।
प्रकृतिं प्रकृतीशञ्च प्राकृतं प्रकृतेः परम् ॥४॥
सर्वेशं सर्वरूपञ्च सर्वान्तकरमव्ययं
सर्वाधारं निराधारं निर्व्यूहं स्तौमि तं विभुम् ॥५॥
अनन्तः स्तवनेऽशक्तोऽशक्ता देवी सरस्वती।
यं वा स्तोतुमशक्तश्च पञ्चवक्त्रः षडाननः॥६॥
चतुर्मुखो वेदकर्ता यं
स्तोतुमक्षमस्तथा
स्तोतुमक्षमस्तथा
गणेशो न समर्थश्च योगीन्द्राणां गुरोर्गुरुः ॥७॥
ऋषयो देवताश्चैव मुनीन्द्रमनुमानवाः।
स्वप्ने तेषामदृश्यश्च त्वमेकं किं स्तुवन्ति ते॥८॥
श्रुतयः स्तवनेऽशक्ताः किं स्तुवन्ति विपश्चितः।
विहायेमं शरीरञ्च बालो भवितुमर्हसि ॥९॥
वसुदेवकृतं स्तोत्रं त्रिसन्ध्यं यः पठेन्नरः।
भक्तिं दास्यमवाप्नोति श्रीकृष्णचरणांबुजे ॥१०॥
विशिष्टपुत्रं लभते हरिदासं गुणान्वितं।
संकटं निस्तरेत्तूर्णं शत्रुभीतेः प्रमुच्यते ॥११॥