NAVARATROTSAVE SRI SHARADA STOTRAM (SLOKAs 56-110)

श्रीशृङ्गाद्रौ
श्रीशारदानवरात्रोत्सवसमये
           श्रीशारदास्तोत्रम् (श्लोकाः ५६-११०)
   ( शृङ्गेरि
श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनव-
         नृसिंहभारतीस्वामिभिः
विरचितः)
त्वमश्वपूर्वां
श्रियमानताय ददासि तूर्णं त्विति बोधनाय।
तुरंगमग्रे
विदधासि मातरितीव  मन्ये वद
किं तथैव ॥५६॥
उन्नम्य
पादद्वितयं तुरंगो वदन्नितीवास्ति गिरां सवित्रि।
विलंघ्यतां
किं सरिदीश्वरोऽयमुत्प्लुत्य  गच्छेयमथाम्बरं
वा॥५७॥
पदे
पदे दानववश्यता मे भवेच्छचीनाथसमीपवासे।
उच्चैःश्रवा
इत्यधिगम्य मातस्तवांघ्रिसेवां प्रकरोति किं वा ॥५८॥

अश्वो वाहनतां न याति दिविषद्‍वृन्दस्य
वेदा इति
   प्राहुस्तं
च निशम्य रोषसहितस्त्वत्संनिधिं प्राप्य किम्।
मिथ्या
कर्तुमहो तदीयवचनं देव्यास्तवांबानिशं
    वाहत्वं कुतुकी
जगाम तुरगाधीशो गिरां देवते ॥५९॥
विहङ्गं
कुरङ्गं तुरङ्गं च वाहं
   विधायाशुगं
श्रान्तिमासाद्य किं त्वम्।
गजं
मन्दगं वाहमद्यातनोषि
   प्रणम्रस्य
मे ब्रूहि वाचामधीशे ॥६०॥
नतेष्टदानाय
सदा जलार्द्रकरांबुजा त्वं यत एव वाणि
तस्मादिभोऽप्येषतवांघ्रिसङ्गाद्दानांबुसंसिक्तकरो
विभाति ॥६१॥
केचित्प्राहुरनैपुणास्तु
कुचयोः साम्यं हि कुम्भस्थले
    शुण्डायामथवोरुतौल्यमिभराडिच्छंस्तवागादिति।
नैतत्संभविता
तनौ कठिनता यस्मात्ततः शारदे
    मन्ये ह्युत्सवसेवनाय
हरिणा संप्रेषितः स्यादिति ॥६२॥
मम
कौशिकवाहनता स्याद्धर्यश्वस्य सेवने किमिति।
शुक्लेभस्तववाहः
समभून्मातर्न सन्देहः ॥६३॥
जम्भारौ
कौशिकत्वं ह्यथ च तदनुजे वीक्ष्य सम्यग्घरित्वं
  त्यक्त्वा
ह्रीसाध्वसाभ्यामयमिभकुलराट् तौ शरच्चन्द्रशुभ्रः।
इन्द्रोपेन्द्रादिसेव्यामपि
सकलसुराराध्यपादारविन्दां
   त्वामेवातिप्रमोदात्कमलजदयिते
सेवते नूनमेतत् ॥६४॥
मत्पादाब्जप्रणम्रं
नरमतितरसा सेवते चेभमुख्या
   लक्ष्मीर्हस्ताग्रराजद्वरकनकमयस्रग्धरेत्येव
बोधम्।
कर्तुं
हस्ताग्रराजद्वरकनकसरं नागराजं प्रधत्से
   वाणि प्रब्रूहि
किं त्वं कमलजहृदयाम्भोजसूर्यप्रभे मे ॥६५॥
एकः
शुकः प्रसिद्धोऽस्ति पाराशर्यसुतः किल।
शुकोऽपरस्तु
को ब्रूहि शारदे प्रणताय मे ॥६६॥
एकं
शरीरं परिगृह्य पूर्वभवे शुकोऽयं कृतवान्विचारम्।
मोक्षाय
नालं स इतीह देहद्वयं गृहीत्वा किमु सेवते त्वाम्॥६७॥
दन्तेषु  किं दाडिमबीजबुद्ध्या तवाधरे बिम्बधियाऽथवाऽयम्।
शुकः
कुतस्त्वन्निकटे चकास्ति संदेहयुक्ताय वदाशु मातः ॥६८॥
श्रुत्वा
तवाम्ब निनदं किल कीरडिम्भः
    कण्ठे तवास्ति
शुक इत्ययमाकलय्य ।
 इच्छन्विनिर्गमनमस्य  बहिस्तवाद्य
     हस्ताम्बुजे
स्थिरतया वसतीति मन्ये ॥६९॥
क्षुधातुरः
कश्चन कीरडिम्भस्तृषार्दितोऽन्यश्च तयोर्हि मातः।
एकस्तु
कर्णोत्पलमत्तुमिच्छत्यन्यः करस्थामृतपानकामः ॥७०॥
पादनम्रपुरुषान्
किं बोधयितुं लज्जया गिरां देवि।
अपिधाय
नैजरूपं धत्से पुरुषाकृतिं ब्रूहि ॥७१॥
प्रसवित्र्यां
हि सुतानां नैव भवेत्साध्वसं कदाचिदपि।
मत्त्वेति
बोधनकृते गुरुवररूपं दधासि किं मातः ॥७२॥
सर्वात्मकत्त्वमथवा
बोधयितुं स्वस्य सर्वलोकानाम्।
स्वीकुरुषे
किं पौरुषमम्बुजसंजातमानिनि ब्रूहि ॥७३॥
झषौ
स्वजातिदोषं किमबलस्वकुलाशनम्।
मातर्निवेदनायाक्षिव्याजात्कर्णसमीपगौ॥७४॥
अशक्नुवंस्तोतुमहीश्वरस्त्वन्मुखस्य
सौन्दर्यमयं जगाम।
रसातलं
वक्त्रसहस्रतां च निनिन्द कञ्जातभवस्य जाये ॥७५॥
अशक्नुवन्तस्तवसुन्दरत्वं
स्तोतुं महेशाग्निभवाब्जजाताः।
निनिन्दुरास्येषु
हि पञ्चकत्वं षट्त्वं चतुष्ट्वं च गिरां सवित्रि॥७६॥
नीलोत्पलोत्थः
खलु नीलमेघो नम्रास्यमध्यात्कविताप्रवाहम्।
प्रवर्तयत्याशु वदन्ति
चैनं मातस्तवाक्षिप्रभवं कटाक्षम् ॥७७॥
नीलोत्पले
त्वन्नयने हि मातस्तदुत्थमेघः करुणाकटाक्षः।

नम्रवक्त्रात् कविताप्रवाहं प्रवर्तयत्याशु न संशयोऽत्र ॥७८॥
मालाविभात्यम्ब
तवाद्य कण्ठे क्वचिच्चरक्ता क्वचिदच्छवर्णा।
बिम्बाधरस्य
प्रभया हि नासामणेश्च कान्त्येति वितर्कयामि॥७९॥
अक्षीणो
नतचित्तसंस्थिततमोनिर्वापणेऽपि क्षम-
  श्चाङ्केनाप्ययुतस्तवास्यरजनीनाथो
गिरां देवते।
क्षीणेनाङ्कयुजा
बहिःस्थिततमोमात्रापनोदक्षमे-
  णाब्जेनायमहो
कथं स लभतां साम्यं जगन्मातृके॥८०॥
देवानामनिमेषताद्य
सफला जाता तवाम्बानिशं
    वक्त्राब्जस्य
निरीक्षणात्सुरपतेस्तद्वत्सहस्राक्षता।
गौरीशस्य
दशाक्षता कमलजस्याष्टाक्षता  भारति
    क्रौञ्चारेर्द्विषडक्षतापि
फलयुग्जातेति जानीमहे ॥८१॥
 अस्याब्जस्य
समाश्रये मम भवेन्मोदो रजन्यां परं
      नैवाह्नीत्यत
एव चम्पकसुमेनालोच्य नीलोत्पले।
 सेवेते तव
वक्त्रपद्ममनिशं नेत्रापदेशान्मुदा
       रात्रौ
वासरमध्यमेऽपि सुखदं वाग्देवि न द्वापरः ॥८२॥
 चन्द्रः सौहार्दमिच्छंस्तव
मुखशशिना प्राप्य वृद्धिं वलर्क्षे
     पक्षे
प्राप्येषदम्ब प्रहृषितहृदयश्चाभवत्पूर्णिमायाम्।
 दृष्ट्वाथ
त्वन्मुखेन्दुं मृगशिशुरहितं स्वं च चिह्नेन युक्तं
     लज्जायुक्तस्ततोऽयं
प्रतिदिवसमहो क्षीणतां याति कृष्णे ॥८३॥
  दृष्टं  वाग्देवताया वदनसरसिजं येन भूमौ कदाचि-
     च्छृङ्गाद्रौ
तस्य वक्त्रात्सरसपदयुता वाक्ततिर्निःसरेद्धि।
  नीहाराद्रेर्गुहातः
सुरवरतटिनी यद्वदाश्वप्रयत्ना-
       न्निर्गच्छत्येव
तद्वन्न हि खलु विशयोऽस्माकमत्रास्ति कश्चित्त् ॥८४॥
  एकापि नानाविधरूपधर्त्रीत्येतादृशार्थस्य
विबोधनाय।
  वेण्यां भुजङ्गो
नयने कुरङ्गी मध्ये च सिंही प्रतिभासि किं त्वम्॥८५॥
  कम्बौ पद्मं
भाति बिम्बं हि तस्मिन्मल्लीपङ्क्तिश्चापि नीलोत्पले द्वे
  सर्वं ह्येतद्भाति
हैम्यां लतायां शैले चास्मिन्पश्यतैतद्विचित्रम् ॥८६॥     
 
  विराजते कश्चन
वारिराशिर्मीनेन युक्तो न हि कम्बवोऽत्र।
  कम्बूपरिस्थस्त्वयमेव मातः सनेत्रमास्यं तव चैनमाहुः ॥८७॥
   अकलङ्कः किमु
चन्द्रः किं वा सद्यः प्रफुल्लमम्बुभवम्।
   सौन्दर्ययुतवपुष्मद्वक्त्रं
किं वा तवाम्ब न हि जाने ॥८८॥
    भुजगी वा
तव वेणी किं वा करपद्मपुष्परसलोभात्।
    आगतमधुलिट्पटली
जानीमो नैव विधिकान्ते ॥८९॥
    नागेन्द्रकुम्भावुत
हेमकुम्भौ किमम्ब कोकौ तव किं कुचौ वा।
    विवेक्तुमत्रास्ति
न नोऽद्य शक्तिस्त्वमेव मातर्वद धातृजये ॥९०॥
    पयोजौ कूर्मौ
वा सुरवरशिरोभूषणमणी
        तरू
वा कल्पाद्यौ नतजनचयाभीष्टवरदौ। 
    पदे वा मातस्ते
न तदिति विवेक्तुं हि विभवो
        वयं
तस्माच्छीघ्रं वद कमलजातप्रियतमे ॥९१॥
    निर्गत्य  शैलमध्यात्कुहरं काचिद्गता भुजंगी।
    तां शंसन्ति
हि सुधियो मातस्तव नाभिरोमालिम्॥९२॥
    सरस्या जातेयं
न हि खलु कलिन्दाख्यगिरितः
       समुद्रं
नो याता ह्यपि तु वरशैलद्वयगता।
    विभातीत्थं
काचित्त्वयि खलु गिरां देवि यमुना
       वदन्त्येनां
नाभिप्रसृततनुजालिं कविवराः ॥९३॥  
     किं
तत्पयोजयुग्मं रम्भास्तम्भौ ततो व्योम।
     तत्र
सरः समृणालं तदुपरि शैलौ ततः पयोजातम् ॥९४॥
     दृष्टं
वाग्देवते ते सरसिजयुगलं पादयुग्मं हि रम्भा-
         स्तम्भावूरुद्वयं
तत्तदुपरि गगनं मध्यभागो हि नूनम्।
     मन्ये
नाभिः सरः स्यात्तदुपरि कलये रोमपङ्क्तिं मृणालं
         शैलद्वन्द्वं
कुचौ स्यात्तदुपरि कमलं त्वास्यमेवेति मन्ये ॥९५॥
     
    मां द्रष्टुमाकाशगतं
हि मर्त्या वक्त्रोन्नतेः क्लेशयुता भवेयुः।
    इतीव मत्वा
धरणीं गतोऽयमम्बास्यलक्ष्यात्तव पूर्णचन्द्रः ॥९६॥
     
    तवास्यलक्ष्याद्धरणीं
गतस्य सुधांशुबिम्बस्य निषेवणाय।
    मुक्तासराणां
मिषतः समागात्ताराततिर्वाग्जननीति मन्ये ॥९७॥
   शारदे तव
पदाम्बुजयुग्मं ये स्मरन्ति मनुजा भुवि लोके।
   श्रीमतां
च विदुषां धुरि गण्यास्ते भवन्ति न हि तत्र विचारः ॥९८॥
   वाताहताब्धिलहरीततितौल्यभाजो
       वाचः
प्रयत्नमनपेक्ष्य मुखारविन्दात्।
   वादेषु यत्करुणया
प्रगलन्ति पुंसां
       वाग्देवता
भवतु वाञ्छितसिद्धये सा ॥१००॥
   यस्त्वामिन्दुनिबद्धदिव्यमकुटां
शुक्लाम्बरालंकृतां
       मुद्रापुस्तकमालिकामृतघटान्संबिभ्रतीं
ध्यायति।
   तस्यास्यात्सरसा
सुवर्णघटिता सालंकृता वाक्तति-
       स्तूर्णं निःसरति प्रयत्नरहिता निःसंशयं भारति ॥१०१॥
  अनायासादास्यादमरतटिनीपूरसदृशी
     ततिर्वाचामाशु
प्रसरति शिशोरप्यनुदिनम्।
  कृपालम्बापाङ्गे
कृशतरवलग्नेऽकृशकुचे
     न
संदेह्यत्राहं सरसिजभवप्राणदयिते ॥१०२॥
   कदाचिदपि
यो नरस्तव पदाम्बुजं भक्तितो
       विभावयति
शारदे हृदयपङ्कजे तस्य हि ।
   व्रजेयुरपि
दासतां नृपवर्गस्तथा वाक्ततिः
       सुधाशितटिनीसखी
वदनपद्मतो निःसरेत् ॥१०३॥
   जडोऽपि जगदम्बिके तव कृपायुतं वीक्षणं
       प्रपद्य
सुरनायकं जयति सत्वरं संपदा।
    मुखाम्बुजनिरर्गलप्रविगलद्वचोवैखरी-
        विनिर्जितसुरापगास्मयभरश्च
संजायते ॥१०४॥
    शिवे त्वदङ्घ्रिपङ्कजप्रणम्रवाग्झरीजिता
        तुषारशैलगह्वरं
जगाम जह्नुकन्यका।
    ततस्ततोऽपि
तावकप्रणम्रकीर्तितर्जिता
        शिवस्य
शैलकन्यका जटाख्यदुर्गमाविशत् ॥१०५॥
    के वा न कुर्युर्भुवि
काव्यमम्ब शब्दार्थविज्ञानयुजश्चिराय।
    चित्रं त्वदङ्घ्रिं
परिसेवते यो जयेत्स वाचस्पतिमाशु वाग्मिः॥१०६॥ 
   
    पञ्चास्यषण्मुखचतुर्मुखनागराजाः
      स्तोतुं
न तेऽम्ब चरितं प्रभवन्ति किंचित्।
    एकाननः कथमहं
तव शक्नुयां तत्
      स्तोतुं
तथापि चपलं प्रसहस्व सूनोः ॥१०७॥
   यावद्वाचां
सवित्रि प्रणतजनवचोदानबद्धादरे ते
     पादाम्भोजं
प्रणन्तुं कलयति धिषणां जन्ममूकोऽपि लोकः।
   तावद्देवेन्द्रदत्तप्रवरमणिगणाबद्धपीठस्य
मध्या-
      दुत्थायाशु
प्रधावत्यमरगुरुरहो मामयं जेष्यतीति ॥१०८॥
   मुक्ताहारमिषाज्जगज्जननि
ते सेवां करोत्यादरा-
     द्देवानां
सरिदित्यहो मकरराडालोच्य सेवां स्वयम्।
   कर्तुं हारमिषेण कम्बुसदृशे कण्ठे विभातीति म-
     च्चित्ते
भाति पुनर्वदन्तु चतुराः किं तं न जानाम्यहम्॥१०९॥
   पापीयानिति
संजहासि करुणावारांनिधे शारदे
      सर्वाघौघपयोधिबाडवशिखे
त्वं मामनाथं यदि।
   तर्ह्येतादृशपापकोटिसहितं
सर्वैश्च दूरीकृतं

      को
वा मां परिपालयेत्कमलजप्राणप्रिये ब्रूहि मे ॥११०॥

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.