MAHANARAYANOPANISHAD- AMBHASYAPAARE MANTRAH

                                                        महानारायणोपनिषत्
                       चतुर्थः प्रश्नः
ऊँ सह नाववतु। सह नौ भुनक्तु ॥ सह वीर्यं करवावहै।
तेजस्विनावधीतमस्तु मा विद्विषावहै।
ऊँ शान्तिः शान्तिः शान्तिः ॥
                  
अंभस्यपारे
अम्भस्य पारे भुवनस्य मध्ये नाकस्य पृष्ठे महतो महीयान्।  शुक्रेण
ज्योतीँषि
समनुप्रविष्टः प्रजापतिश्चरति गर्भे अन्तः।  यस्मिन्निदँ
सं च विचैति सर्वं यस्मिन्देवा अधि विश्वे निषेदुः। तदेव भूतं तदु भव्यमा इदं तदक्षरे
परमे व्योमन्।
येनावृतं खं च दिवं महींच येनादित्यस्तपति तेजसा भ्राजसा
च ।  यमन्त-स्समुद्रे कवयो वयन्ति यदक्षरे
परमे प्रजाः । यतः प्रसूता जगतः प्रसूती तोयेन जीवान् व्यचसर्ज भूम्याम्। यदोषधीभिः
पुरुषान् पशूँश्च विवेश भूतानि चराचराणि। अतः परं नान्यदणीयसँ हि परात्परं यन्महतो
महान्तम् । यदेक-मव्यक्त-मनन्तरूपं विश्वं पुराणं तमसः परस्तात् ॥
तदेवर्तं तदु सत्यमाहु-स्तदेव ब्रह्म परमं कवीनाम्। इष्टापूर्तं बहुधा जातं जायमानं
विश्वं बिभर्ति भुवनस्य नाभिः । तदेवाग्निस्तद्वायु-स्तत्सूर्यस्तदु चन्द्रमाः । तदेव शुक्रममृतं तदाप-स्सप्रजापतिः। सर्वे निमेषा जज्ञिरे विद्युतः पुरुषा-दधि ॥ कला मुहूर्ताः काष्ठाश्चाहोरात्राश्च सर्वशः । अर्धमासा
मासा ऋतव-स्संवत्सराश्च कल्पन्ताम्।
स आपः प्रदुघे उभे इमे अन्तरिक्ष-मथो सुवः।नैनमूर्ध्वं न तिर्यञ्चं न मध्ये परिजग्रभत्। न
तस्येशे कश्चन तस्य नाम महद्यशः ॥
न संदृशे तिष्ठति रूप-मस्य न चक्षुषा पश्यति कश्च-नैनम्
। हृदा मनीषा मनसाभिकॢप्तो य एनं  विदु-रमृतास्ते भवन्ति। अद्भ्यस्सम्भूतो हिरण्यगर्भ इत्यष्टौ।
एष हि देवः प्रदिशोऽनुसर्वाः पूर्वो हि जात-स्स उ गर्भे अन्तः ।
सविजायमान-स्सजनिष्यमाणः प्रत्यङ्मुखास्तिष्ठति विश्वतोमुखः। विश्वतश्चक्षुरुत विश्वतोमुखो
विश्वतो हस्त उत विश्वतस्पात्। संबाहुभ्यां नमति संपतत्रै-र्द्यावापृथिवी
जनयन् देव एकः। वेन-स्तत्पश्य-न्विश्वा
भुवनानि विद्वान् यत्र विश्वं भवत्येकनीळम्।  यस्मिन्निदँ सं चविचैकँ स ओतः
प्रोतश्च  विभुः प्रजासु ।
प्रतद्वोचे अमृतं नु विद्वान् गन्धर्वो नाम निहितं गुहासु
त्रीणि पदा निहिता गुहासु यस्तद्वेद सवितुः पितासत्। स नो
बन्धु-र्जनिता स विधाता धामानि वेद
भुवनानि विश्वा। 
यत्र देवा अमृतमानशाना-स्तृतीये धामा-न्यभ्यैरयन्त।
परिद्यावापृथिवी यन्ति सद्यः परि लोकान् परिदिशः परिसुवः ।
ऋतस्य तन्तुं विततं विचृत्य तदपश्यत्तदभवत्  प्रजासु।  परीत्य
लोकान् परीत्य भूतानि परीत्य सर्वाः प्रदिशोदिशस्च । प्रजापतिः प्रथमजा ऋतस्यात्मनाऽऽत्मा-
नमभि-संबभूव
। सदसस्पतिमद्भुतं प्रियमिन्द्रस्य काम्यम् ।  सनिं मेधामयासिषम्।  उद्दीप्यस्व
जातवेदोऽपघ्नन्निऋतिं मम।
पशूँश्च मह्यमावह जीवनं च दिशोदिश। मानो हिँसीज्जातवेदो गामश्वं
पुरुषं जगत्।
अबिभ्रदग्न आगहि श्रिया मा परिपातय । पुरुषस्य विद्म सहस्राक्षस्य
महादेवस्य धीमहि। तन्नो रुद्रः प्रचोदयात्।  तत्पुरुषाय विद्महे महादेवाय
धीमहि। तन्नोरुद्रः प्रचोदयात्।  तत्पुरुषाय विद्महे वक्रतुण्डाय
धीमहि। तन्नो दन्तिः प्रचोदयात्।
तत्पुरुषाय विद्महे चक्रतुण्डाय धीमहि॥
तन्नो नन्दिः प्रचोदयात्। तत्पुरुषाय विद्महे महासेनाय धीमहि।
तन्नष्षण्मुखः प्रचोदयात् । तत्पुरुषाय विद्महे सुवर्णपक्षाय धीमहि। तन्नो गरुडः प्रचोदयात्
वेदात्मनाय विद्महे हिरण्यगर्भाय धीमहि। तन्नो ब्रह्म प्रचोदयात्
। नारायणाय विद्महे वासुदेवाय धीमहि। तन्नो विष्णुः प्रचोदयात् ।  वज्रनखाय
विद्महे तीक्ष्णदँष्ट्राय धीमहि ।
   तन्नो नारसिँहः प्रचोदयात्। भास्कराय विद्महे महद्युतिकराय धीमहि। तन्नो आदित्यः
प्रचोदयात् । वैश्वानराय विद्महे लालीलाय धीमहि। तन्नो अग्निः प्रचोदयात् । कात्यायनाय
विद्महे कन्यकुमारि धीमहि। तन्नो दुर्गिः प्रचोदयात्॥   
       

Author Socials Follow me