मृत्युञ्जयपुष्पाञ्जलिः
खण्डः १ (ध्यानम्)
शशिशकलाञ्चितकुञ्चितपिङ्गजटातडिदुज्ज्वलमूर्धतलं
फालविलोचनमञ्जनमञ्जुलनीलगलं शितशूलधरम्।
फणिगणभूषणमाकलये तव भीममिदं शिवमङ्गमहं
श्वेतवनालय, कालविमर्दन, भक्तजनार्दन, विश्वपते॥१॥
खण्डः २
॥पञ्चाक्षरवर्णमालास्तोत्रम्॥
ओङ्कारशुक्तिपुटमुक्तामणिं शिवमहंकारभञ्जनकरं
ह्रीङ्कारतत्त्वललिलतार्धं भजामि हृदि सङ्काशमानवपुषम्।
त्वाङ्कालखण्डन,
भुजगेन्द्रमण्डन,
वृषाङ्कात्मकं शिखिशिखा-
भुजगेन्द्रमण्डन,
वृषाङ्कात्मकं शिखिशिखा-
सङ्काशपिङ्गलजटाजूटसङ्गतशशाङ्काभिरामशिरसम्॥१॥
नक्तन्दिवं भयदचिन्तातुरं समनुरक्तं दुरन्तविषये
रिक्तं गुणैः सुजनकाम्यैर्मनो मम तु तिक्तं च पातकशतैः।
रिक्तं गुणैः सुजनकाम्यैर्मनो मम तु तिक्तं च पातकशतैः।
व्यक्तं भवत्युपहरामि,
प्रसीद कुरु भक्तं विषाशन,
विभो,
प्रसीद कुरु भक्तं विषाशन,
विभो,
मुक्तं भयाद्भवतु सत्कर्मनिर्वहणशक्तं च जीवितमिदम्॥२॥
मर्त्यं भवच्चरणपाथोजसेविनममर्त्यं करोषि भगवन्,;
सत्यं ममास्तु रतिरेतद्भवद्भजनकृत्यं विधातुमुचितम्।
अत्यन्तपावननिजोपान्तवासपर,
मृत्युञ्जयाखिलपते,
मृत्युञ्जयाखिलपते,
श्रुत्यन्तगोचरमहातत्त्वरूप,
मयि नित्यं प्रसीदतु भवान्॥३॥
मयि नित्यं प्रसीदतु भवान्॥३॥
शिञ्जानपादकटकानन्दनृत्तरतकञ्जाभिरामचरणम्
त्वञ्जाह्नवीधवलमालासमुल्लसनसञ्जातशोभमुकुटम्।
भञ्जानमन्तकमनङ्गान्तकं सुकृतपुञ्जाभिगम्यममलम्
सञ्जल्पितस्तुतिविरिञ्चादिसेव्यमिहरञ्जद्रसं हृदि भजे ॥४॥
वाताशनाकलितभूषागणं भसितपूताङ्गरागमहितम्
शीतांशुभास्करहुताशाक्षमुल्लसितभूतावलीपरिगतम्।
हे ताण्डवप्रिय,
चिदानन्दरूप, परिभूतान्तकं तववपु-
चिदानन्दरूप, परिभूतान्तकं तववपु-
र्भीताभयप्रदमुपासे,
प्रसीद मयि जातानुकम्पमनिशम् ॥५॥
प्रसीद मयि जातानुकम्पमनिशम् ॥५॥
यत्र प्रभो, परमभक्तो मृकण्डमुनिपुत्रस्तवाङ्घ्रिभजना-
दत्रस्तभावमिह लेभे यमादपि परित्रासिताखिलजनात्।
तत्र स्वधामनि परक्रोडनामनि चरित्रप्रशस्तिमहिते
क्षेत्रे विभासि जगतां भाग्यराशिरतिमात्रं, प्रसीद भगवन्॥६॥
खण्डः ३
महादेव, स्वामिन्, मधुरकरुणादिव्यजलधे,
परक्रोडावास, प्रकटितनिजैश्वर्यमहिमन्,
स्तवैरेभिर्बिल्वैस्तव चरणयोरर्चनमहं
करोमि त्वं भक्त्या कलितमिदमङ्गीकुरु विभो!॥१॥
इहानेकैर्मन्त्रैर्बहुभिरपि तन्त्रैर्नियमितं
भवत्पूजाहोमादिकमहमशक्तो रचयितुम्।
जुहोमि ब्रह्माग्नौ त्वयि हविरिदं मानसमयं
गृहाण त्वं मृत्युञ्जय, वरद, पूर्णाहुतिमिमाम्॥२॥
भवारण्ये घोरे विषयरसनव्योलपचयैः
समाच्छन्ने कूपे निरतिशयदुःखे निपतितम्।
पशुं क्रन्दन्तं मां करुणकरुणं,
पाहि कृपया
पाहि कृपया
स्वधर्मानुष्ठानं खलु समुचितं ते पशुपते ॥३॥
इह श्वेतारण्ये भुवनविदिते सर्वमहिते
महासिद्धिक्षेत्रे
सकरुण, भवन्तं भयहरम्
महासिद्धिक्षेत्रे
सकरुण, भवन्तं भयहरम्
समभ्यर्च्य प्रेष्ठां गतिमसुलभां प्राप सुकृती।
मुनिर्मार्कण्डेयस्तव हि महिमाऽयं विजयते ॥४॥
परं ब्रह्म स्वेच्छाकलितशिवलिङात्मकवपुः
प्रतिष्ठां क्षेत्रेऽस्मिन् स्वयमुपगतं भासि भगवन्।
इहाभेदं विष्णोस्तव च ददृशुः कालनिधने
महे भक्तोत्तंसा मुदितमनसो विस्मयवशाः ॥५॥
धृतद्वैतं रूपं पुनरपरमेतत्तव निला-
सरित्तीरेऽदूरे परिलसति नावाख्यनिलये।
यदम्भोदानीलं करकलितशङ्खारिविलसद्-
गदापद्मं पद्मासुकृतनिलयं मञ्जुहसितम्॥६॥
लसद्द्वैताद्वैतं परमशिव, शम्भो, तव वपुः
परानन्दाकारं मनसि मम निर्भातु सततम्।
यतोऽहं भूयासं विगलितभवक्लेशनिवहः
स्वधर्मानुष्ठानैस्तव विरचयन् सेवनविधिम्॥७॥
पराशक्तिः सूक्ष्मा भवति परमं तत्त्वमिह वै
वदन्त्योतप्रोतं गजदिति च वैज्ञानिकवराः।
प्रभो, त्वत्सान्निध्यादियमपि
स्पन्दनकुशला
स्पन्दनकुशला
ह्यधिष्ठानं मुख्यं त्वमसि जगतस्ते नतिरियम् ॥८॥
भवन्निष्ठं चित्तं भवतु भगवन्,
वागपि भवत्-
वागपि भवत्-
स्तुतौ सक्ता नित्यं, वपुरपि
भवत्सेवनरतम्।
भवत्सेवनरतम्।
विकासोऽयं भक्तेर्मधुरमधुनिष्यन्दसुभगः
परप्रेमाकार, प्रसरतु
ममात्मन्यनुदिनम्॥९॥
ममात्मन्यनुदिनम्॥९॥
प्रवृद्धायां भक्तौ भवति हृदयं निर्मलतरं
समस्तं कर्म त्वच्चरणवरिवस्याऽपि च भवेत्
ततो जानीयां त्वां निरतिशयचैतन्यवपुषं
परब्रह्माभिख्यं
शिवमखिललोकैकपितरम् ॥१०॥
शिवमखिललोकैकपितरम् ॥१०॥
अखण्डे ब्रह्माण्डे निरुपमचिदानन्दवपुषं
स्वया शक्त्या
साकं कृतनटनलीलाविलसितम्।
साकं कृतनटनलीलाविलसितम्।
तथा सूक्ष्मात्मानं स्थितमणुषु सूक्ष्मेषु भगवन्
भतन्तं संवीक्ष्य
प्रतिकलमुपेयां हृदि मुदम् ॥११॥
प्रतिकलमुपेयां हृदि मुदम् ॥११॥
नटेश, त्वत्तालप्रसरसुभगं जीवितमिदम्
प्रभो, जीवन्मुक्तिः
खलु निगदिता शास्त्रसरणौ।
खलु निगदिता शास्त्रसरणौ।
पदेऽस्मिन्नुत्तुङ्गे गिरिश, गिरिशृङ्गे पशुरयं
विहर्तुं शक्तः
स्याद्यदि भवति भक्तः पशुपते ॥१२॥
स्याद्यदि भवति भक्तः पशुपते ॥१२॥
परक्रोडावासिन्, परमशिव, मृत्युञ्जय, मनो-
भवाराते, भक्तप्रिय,
गिरिसुताऽऽलिङिततनो,
गिरिसुताऽऽलिङिततनो,
विपन्निस्तारं मे प्रदिश भगवन्, मां कुरु भवत्-
पादाम्भोजे भक्तं,
न खलु न खलु प्रार्थ्यमपरम्॥१३॥
न खलु न खलु प्रार्थ्यमपरम्॥१३॥
‘
(Source:
‘Bhaktitarangini’ by Prof. P.C. Vasudevan Elayath, Published by
‘Bhaktitarangini’ by Prof. P.C. Vasudevan Elayath, Published by
Kerala Sanskrit Akademi)