PREMASAYUJYAM

                              प्रेमसायुज्यम्
कृष्णे गोकुलवासमुज्झितवति प्रोद्यद्वियोगाकुला
   गोप्यस्तत्स्मरणामृतैकशरणा निन्युः सुदीर्घाः समाः।
पश्चादेत्य समन्तपञ्चकमहातीर्थं कदाचित् प्रियं
    दृष्ट्वा ताः किल किञ्चिन्नाञ्चितहृदः कामप्यवस्थां दधुः॥१॥
विख्यातप्राभवोऽसौ सकलमुनिनृपाराधितो नन्दसूनु-
   र्गोपीस्ता मन्दहासप्रसरसुमधुरं पूर्ववन्मानयित्वा ।
 नीत्वा ताभिः समेतः कतिपयदिवसांस्तत्र ताभ्यो ददौ तां
   शान्तिं योगीन्द्रकाम्याममृतरसमयीं भक्तिमार्गैकगम्याम् ॥२॥
  
                खण्डः  १
तत्र गोपिकाशतसमावृतं तरुतले स्थितं श्यामसुन्दरम्।
चक्षुषा पिबन्त्यात्मना जगौ दूरसंस्थिता कापि गोपिका ॥१॥
“कथमिहास्मि हा कथमिहागतो मधुरदर्शनो
नन्दनन्दनः।
विविधभावसम्मर्दनिस्सहं स्फुटति हा हरे ममकं मनः ॥२॥
मूकरागिणीं मां परीक्षितुं व्यतिकरोऽयमुत्पादितस्त्वया।
तृषितया दृशा त्वां पिबाम्यहं वर्धते विभो, द्विगुणिता तृषा ॥३॥
धन्यजीवितास्ते सखीजना ये ह्ययन्त्रितास्त्वामुपासते।
सहजमुग्धतासन्नियन्त्रिता हा!
हताऽस्म्यहं मन्दगामिनी॥४॥
परिसमर्पयन्त्यात्मजीवितं किमु पतामि ते नाथ पादयोः।
कमपि ते करस्पर्शमाप्नुयां शिरसि मामके शान्तिदायकम् ॥५॥
अहह! साहसं
साहसं त्विदं, मम न शोभनं धृष्टचेष्टितम्।
क्व च भवान् विभुर्विश्वपूजितः?
क्व च वराकिका गोपदारिका?
॥६॥
               खण्डः  २
अयि पुरा हरे, यामुने तटे भवदनुष्ठिते चेलचोरणे।
तव नियोगतस्त्वामुपागता गोपबालिकास्ता दिगम्बराः॥१॥
आगलं जले स्थितवतीं तदा मां विलोकयन् दूरतो भवान्।
स्मितमदात्; प्रभो संस्मराम्यहं; स्मरसि
किं हरे, तादृशीमिमाम्॥२॥
वेणुगानमाकर्ण्य तावकं विश्वमोहनं वल्ल्वीजनाः।
त्वामुपाययुः दूरतः स्थिता केवला त्वहं त्वां व्यलोकयम्॥३॥
वेणुनालिकाचुम्बिताधरं गोपिकाशतैरावृतं मुदा।
दूरतोऽपि मय्यर्पितेक्षणं संस्मरामि  ते
तत् स्थितं हरे!॥४॥
रासखेलने नाहमागता केवलं गृहे ध्यानमास्थिता।
तन्वती सुखं नर्तनं त्वया साकमान्तरे रासमण्डले॥५॥
नो कदाऽपि मां नन्दनन्दनो ज्ञातवानभिज्ञातवानपि।
नास्ति तादृशं सौभगं च मे नास्ति चात्मनि प्रौढचातुरी॥६॥
हा! कदाऽपि
ते सेवनोद्यता नाहमागता त्वत्पदान्तिकम् ।
त्रासविह्वला लज्जयाऽऽकुला;
मां कथं भवान् संस्मरिष्यति॥७॥
     
                
खण्डः  ३
व्रजनिवासमुत्सृज्य गच्छतस्तव रथः क्षणं मद्गृहान्तिके।
निश्चलोऽभव;त्तत्र चाभवं स्तम्भसंश्रिताऽलिन्दसंस्थिता॥१॥
अभ्यषिञ्चदाहन्त!
मां प्रभो स्निग्धया दृशा सस्मितं भवान्।
विगलितं तदा केलिपङ्कजं तव कराम्बुजा; न्नन्वलोकयम्॥२॥
हा न्यशामयं ते मुखं तदा विधुरदर्शनं म्लानसुस्मितम्
मधुरवेदनाविद्युदाहता प्रलयमागता कतिपयक्षणान् ॥३॥
सुमधुरं भवन्नाम गृह्णती त्वां विलोकयन्त्येव सर्वतः।
त्वयि मम प्रिये लीनमानसा विरहवेदनां नाविदं चिरम्॥४॥
अहह! भावनावञ्चिताऽस्म्यहं; कृष्णचेष्टितं नैव मत्परं।
विलसितं हरेः सहजमोहनं मुग्धया मया ज्ञातमन्यथा ॥५॥
“त्वां स्मराम्यहं” – किं न्विदं मया श्रूयते मदीयान्तरात्मनि?।
मधुरभाषणं तावकं हरे,
जीवनामृतं खलु पिबाम्यहम् ॥६॥
                       खण्डः  ४
श्यामसुन्दर, त्वां विलोकये निर्निमेषकं दूरतः स्थिता।
मधुरदर्शनं मुग्धसुस्मितं मदनमोहनं मन्मनोहरम् ॥१॥
अयि महाप्रभो, त्वां विलोकयन्त्यधिगताऽस्म्यहं पूर्णकामताम्।
मम हि चेतना हर्षविह्वला यातुमिच्छतीवोपगूहितुम् ॥२॥

प्रिय, दयामयी
दृष्टिरद्य ते निपतति स्वयं मय्यपि क्षणम्।
अमृतधारया संप्लुताऽस्म्यहं स्पन्दतेतरां मामकं मनः ॥३॥
हन्त! मां
प्रति प्रस्थितो भवान् प्रियसखीः समुत्सृज्य गोपिकाः।
अभयमुद्रया सान्त्वयन्निमां द्रुतपदं हरे, किं समेष्यसि?॥४॥
हा! समागतो
मत्समीपतः प्रियतमो भवान् कृष्ण, तिष्ठति।
किं प्रभाषसे मां वराकिकां?
स्फुरति तेऽधरं पल्लवारुणम् ॥५॥
“सखि, जितं त्वया; प्रेमधाम तत् परममद्वयं प्राप्तवत्यसि”
इति भवद्गिरं शान्तिदायिनीममृतवाहिनीं हा! पिबाम्यहम् ॥६॥
सदयलोचने मधुरसुस्मिते तव मुखाम्बुजे मत्पुरोगते।
चिरमुपोषितां निदधती दृशं नाथ,
याम्यहं नित्यनिर्वृतिम्
“॥७॥
रुद्धा वाग्, दृढनिश्चला समभवद्‍दृष्टिः, प्रसन्नं मुखं, ।
निष्पन्दं हृदयं च,
सा व्रजवधूः सम्प्राप धन्यां गतिम् ॥८॥
तेजो देहसमुत्थितं निरुपमं तस्याः पुरःस्थे तदा ।
कृष्णे लीनमभूत्; स चापि भगवांस्तस्थौ क्षणं निश्चलः॥९॥       
(Source: ‘Bhaktitarangini’ by Prof. P.C. Vasudevan
Elayath, Published by Kerala Sanskrit Akademi)
         

Author Socials Follow me