SRI RAGHAVENDRA VIJAYA – CHAPTER 2

                                             श्रीराघवेन्द्रविजयः
                  द्वितीयः सर्गः
        (विद्वत्कुलावतंसैः महाकविभिः श्रीमन्नारायणार्यैर्विरचिता)
रामावतारस्य
हरेरधत्त सेवां हनूमद्वपुषा समीरः।
भीमात्मना
यादवभूषणस्य मध्वात्मना व्यासमुनित्वभाजः॥१॥
आभाष्य
भाष्यं निगमान्तसूत्रव्यख्यात्मकं पूर्णमतिर्गुरुर्नः।
सम्पादयध्वं
मतसम्प्रदायसमृद्धिमित्यादिदिशे यमीश्वरान् (यमीशान्) ॥२॥
भाष्यामृतोत्पादकरोऽनुभाष्यश्रीमान्स
भाष्यान्तरकल्पशाखी।
व्यासं
गुरुं संश्रयते बदर्यामानन्दतीर्थाभिधदुग्धसिन्धुः ॥३॥
सिद्धान्तसंरोहविधौ
नियुक्तेष्वेतेष्वनेकव्रतिषु प्रधानः।
प्रेमास्पदं
स्वीयगुरोः स पद्मनाभार्यवर्योऽकृत दर्शनर्द्धिम्॥४॥
सत्तर्कदीपावलिमत्युदारां
सन्न्यायरत्नावलिमप्यनिन्द्याम्।
भाष्यानुभाष्याशयबोधहेतू
ततान यस्तार्किकमौलिरत्नम् ॥५॥
व्याख्यासु
यः पाणिनिसूत्रभाष्यव्याख्यादशां व्यञ्जयति स्म साक्षात्।
छन्नो
यवन्या प्रतिपादनेन सहस्रधा सूत्रपदाशयानाम् ॥६॥
गुरोर्नियोगादधिगम्य
राज्यं शिष्यस्तदीयो नृहरिव्रतीन्द्रः।
गजेशकोशस्थितराममूर्तिं
पूर्णप्रबोधाय समार्पयत्ताम् ॥७॥
सा यत्र
रामप्रतिमास्ति तत्र चतुःपुमर्थी सततं चकास्ति।
आदिश्य
चैवं गुरुणैव दत्तामथार्चयत्ता(यंस्ता)मनिशं यतीन्द्रः(न्द्राः) ॥८॥
अन्तेवसंस्तस्य
गुरोरनेना(न)सभाजयत्तां(यं स्तां) प्रतिमां वितीर्णाम्।
संवर्धयन्नादिमसम्प्रदायमन्योऽभवन्माधवसंयमीन्द्रः॥९॥
मुनेरमुष्मादनवद्यबोधात्कृतोपदेशः
प्रतिमाञ्च गृह्णन्।
क्षोभं
विधातुं प्रतिवादिवाचामक्षोभ्यनामा मुनिराविरासीत्॥१०॥
दृढासिना
तत्त्वमसीतिवाचा सामर्थ्यभाजा परजीवभेदे।
अवैदिकाग्र्यं
मुनिरेष विद्यारण्यं शरण्यं कुदृशां बिभेद ॥११॥
तल्लब्धबोधो
विमतैकबाधो जयैकभूमिर्जयतीर्थनामा।
व्याचष्ट
पूर्णप्रमतिप्रणीतं सर्वं प्रबन्धं सरसैर्वचोभिः ॥१२॥
असौ
कदाचिद्गृहिभावकाले विधाय धाटीं तुरगाधिरूढः।
अक्षोभ्यतीर्थाश्रिततीरसीमामक्षोभ्यतीर्थां
तटिनीमयासीत्॥१३॥
अनुद्धृतं
वारि समुद्धतश्रीः पीत्वा मुखेनैव तृषाकुलेन।
मुनिं
समीपे मननैकतानमसावनंसीदवलोक्य मूर्ध्ना ॥१४॥
अभ्यर्थितस्तेन
मुनिः स भक्त्या संन्यासमन्यादृशवारिपानात्।
अमंस्त
तं पूर्णमतिप्रदिष्टं व्याख्यातृभावे वृषमन्यभावे॥१५॥
विधाय
तं संयमिनं प्रहृष्टे गुरौ तदीया रुषिताः पुनस्तम्।
निन्युः
पुरीं तत्र भयेन भार्याजनेन दृष्टः स तु शेषवेषः॥१६॥
ततोऽतिविश्वासयुजा
नगर्याः पित्रादिना बन्धुजनेन तूर्णम्।
आनीय
तस्मै मुनये स दत्तः शास्त्राण्यमुष्मादखिलानि लेभे ॥१७॥
तस्मादुपेता
प्रतिमा हरेः सा क्रमेण सिद्धान्तसमृद्धिहेतुः।
विद्याधिराजव्रतिनं
कवीन्द्रं वागीशमस्मादपि रामचन्द्रम्॥१८॥
अन्तेवसंस्तस्य
नृसिंहदेवोपान्ते वसंस्तत्कृपया प्रतीतः।
विजित्य
सर्वान्विबुधेन्द्रयोगी बभौ हरेरर्पितजैत्रपत्रः ॥१९॥
जितारिरस्माद्रघुनन्दनोऽतस्ततः
सुरेन्द्रव्रतिनो बभूवुः।
पवित्रिताऽभूदखिला
धरित्री चिरं गृहीतानशनव्रतैस्तैः॥२०॥
विद्वद्वरोऽस्माद्विजयेन्द्रयोगी
विद्यासु हृद्यास्वतुलप्रभावः।
रत्नाभिषेकं
किल रामराजात् प्राप्याग्र्यलक्ष्मीन(र)कृताग्रहारान् ॥२१॥
वाक्ये
पदे पादविलोचनोक्तौ
   व्यासीयशास्त्रे च कृतान्प्रबन्धान्।
आस्तां
बुधः श्रोतुमशेषमेषामाख्याः(ख्यां)
    समाख्याद्यदि पण्डितोऽसौ ॥२२॥
सा रामचन्द्रप्रतिमा
जयीन्द्रात्सुधीन्द्रयोगीन्द्रमगात्क्रमेण।
विस्तीर्णकीर्तिर्विबभाववन्यां
विख्यातविद्वज्जनवन्द्यपादः ॥२३॥
पवित्रितामेष
धरां वितन्वन् सञ्चारतो दिग्विजयापदेशात्।
श्रीवेङ्कटक्ष्मापरिणीसमक्षे
वादेन विद्वेषिबुधान् विजिग्ये ॥२४॥
समेत्य
शङ्खादिमजैत्रचिह्नं नृपादमुष्मादपि सह्यजायाः।
तटस्थितां
तापससेवितां तां पुरीं प्रपेदे पुनरुक्तनाकाम् ॥२५॥
सदा
परीता परिणाहवाहिप्रवाहरीत्या भुवि सह्यपुत्र्या।
पराजिताखण्डलपत्तनश्रीर्या
कुम्भघोणाभिधया समिन्धे ॥२६॥
पातालपर्यन्तनिविष्टमूलां
वैरिञ्चगेहव्यतिलङ्घिमौलिम्।
पीताम्बरां
हाटकहारिशोभां मन्ये सलक्ष्मीं परदेवतां याम् ॥२७॥
अध्यासिता
राजतसालमध्ये आसारसौधच्छलमाधवेन।
खेया(येऽ)म्बुधौ
क्षीरमये निविष्टा श्वेतादिमद्वीपमयी रमा या ॥२८॥
स्वयम्भुवा
या ससृजे पुरस्ताद्ब्रह्माण्डसृष्टेः परिशीलनाय।
नो चेदमुष्याः
कथमीदृशी स्याद्विशालता विश्वनिवासयोग्या ॥२९॥
यत्खेयखेलद्द्विपदानवारिगन्धे
तदम्भोरुहसौरभे च ।
लोभाद्भ्रमन्
कञ्चन नाप भृङ्गो नैवातिवाञ्छस्य निजेष्टलाभः॥३०॥
न केवलं
यद्वलभीविहङ्गाः प्रांशुस्थिता(तौ) नन्दननीडभाजः।
गीर्वाणवाण्या
विहगान्विवादैर्विजिग्यिरे हन्त विचित्रवाग्भिः ॥३१॥
दत्तो
महादानकृता विधात्रा सरोजसद्माण्डकटाह एव।
या स्वर्गसत्याञ्चितलोकयुक्ता
नो चेत्स तद्वान्विधिरस्तु केन ॥३२॥
वर्धिष्णुसौधाग्रविभिन्नपद्मजन्माण्डनिर्यद्बहिरम्बुपूरम्।
वदन्ति
गङ्गां परथा कथं वा स्याद्वामनांघ्रेर्द्रुहिणाण्डभेदः ॥३३॥
म(मा)ध्यन्दिने
यौवतनर्मकीर्णकस्तूरिकापङ्किलसौधशृङ्गे।
रथं
नु मग्नं परिकृष्य यस्यां श्रान्तोऽर्कवाजी समया करोति ॥३४॥
अगाधपाथः
परिखां यदीयामम्भोनिधिः स्वेन समीचकार।
गाम्भीर्यगर्वेण
जडाश्रयत्वादेनं रुषाऽगस्त्य मुनिः पपौ किम् ॥३५॥
पद्माऽत्मभूब्रह्महिरण्यगर्भस्रष्टृत्वहंसाश्रयवाक्प्रियत्वैः।
चतुर्मुखत्वेन
च धातृभावाच्चकास्ति यस्याश्चतुराननत्वम् ॥३६॥
दम्भोलिपाणिर्धरणीधरेन्द्रदम्भादया(ला)सीदधिभूमि यस्याम्।
अम्भोमुचस्तस्य
वियोगभीताः स्तम्बेरमेन्द्राः परितश्चरन्ति ॥३७॥
 खेये(यं)
यदीये(यं) कलशाम्बुराशौ(शिं)
      वैशाखशैलान्म(लंम)णिजालसालैः(लम्)।
 उदारधेनुद्युमणीन्दिराभि-
      र्योगा दपां (र्युक्ताऽधुना) तद्बहुतेति मन्ये
॥३८॥
भुञ्जानकञ्जाननसौधसद्ममध्यं
समागादिति सूरसूतः ।
यदीयदौवारिकदारितोरुस्तेनासृजाऽद्याप्यरुणो
ह्यनूरुः॥३९॥
स्वीयावनैश्वर्यकला(भरा)न्यशिक्षाकृते रमेशांशनृपेण यस्याम्।
मुक्तारुणेन्द्रोपलसौधदम्भाद्गुणत्रयं
किं क्रमशो गृहीतम्॥४०॥
रत्नप्रभाबन्धुरजालजालश(ल)-
    शृंगैरनेकैरनुयाति सौधः।
नी(ली)लाकृति(तिः) स्वात्मनि लक्ष्यलोकः
    श्रीमान्यदीयः पुरुषस्य रूपम्॥४१॥
कानीनजाताः
श्रुतयश्चतस्रो विभिद्य सालं व्यतिलङ्घिताभ्रम्।
द्वारैरवापुर्विदुषो
यदीयानद्यापि तान्येव तु गोपुराणि॥४२॥
वृत्तं
यदीयं चरणैश्चतुर्भिर्द्वारैरुपेतं चतुराग्रसालम्।
श्रीचक्रबिन्दुं
सततं श्रितस्य महीगृहं मन्त्रविदो वदन्ति॥४३।।
गजैर्गिरीन्द्रैर्जवतो
विहङ्गैस्तुङ्गैस्तुरंगैर्मिलितं तरङ्गैः।
चतुःप्रतोलीचतुरास्यसिन्धुं
चतुष्पथं सञ्जगदुर्यदीयम् ॥४४॥
विचित्रयत्पण्यगृहाणि
कर्त्रा विस्मृत्य धात्रा नु कृतं जनानाम्।
समार्प(स्वसद्म)यत्सद्मनिबोधनार्थं शृङ्गाटकं ज्ञापकहंसपादम्॥४५॥
पाकाहिते
यन्नृपवैभवेन पराजिते हन्त विसृज्य सिन्धुम्।
बृहत्कुचा
यत्प्रमदाजनानां चरन्ति यस्यां गिरयो निकामम्॥४६॥
विभाकरेऽस्तेऽपि
विकासभाजां निरन्तरं संश्रितहंसकानाम्।
घनागमेप्यभ्युदयं गतानां पङ्केरुहैर्य(हां य)त्प्रमदापदानाम् ॥४७॥
न चन्द्ररेखा
नखरेण कॢप्ता न मोहनं केवलदर्शनेन।
न श्लक्ष्णता
नैव रुचिर्न हारास्तैरद्रिभिर्यद्रमणीकुचानाम् ॥४८॥
न बन्धकत्वं
शकुलेषु दृष्टं न चोत्पले चञ्च्लताऽम्बुजेषु।
स्वतोऽतनोर्बाधकता
न बाणे यदङ्गनानां नयनैरमीषाम् ॥४९॥
न वक्रिमा
बर्हिणबर्हि(बर्ह)बर्हे न तेजसैकासिकतान्धकारे।
न मेघवृन्दे
चिरकालनैल्यं यदङ्गनाकेशभरैरतस्तैः॥५०॥
न भ्रूविलासा
नतमां(रां) स्थिर(स्मित)श्रीर्नानारसोक्तिर्नतमां च यस्य।
तेनेन्दुना
यत्प्रमदामुखानां कथं कवीन्द्राः कथयन्ति साम्यम् ॥५१॥
तस्यां
नगर्यां सुकृते बदर्यां भवाब्धितर्यां बुधसिंहदर्याम्।
विचित्रनार्यां
विजितेन्द्रपुर्यां चिरं न्यवासीत्सितसौधगौर्याम् ॥५२॥
अतुलविविधविद्वन्मण्डलीलाल्यमानः(मण्डितेन)
   प्रभुमणिरघुनाथप्रौढभूपालकेन।
निहितनिखिलविद्वन्मौलिपादः सुधीन्द्रः
   परजनदुरवापं प्राप हेमाभिषेकम् ॥५३॥
श्रीमत्कश्यपवंशवार्धिशशिनः षड्दर्शनीवल्लभ-
श्रीलक्ष्मीनरसिंहवित्तविदुषः श्रीवेङ्कटाम्बामणौ।
जातेनाऽर्यदयासुधामयगिरा नारायणेनोदिते
काव्ये चारुणि राघवेन्द्रविजये सर्गो द्वितीयोऽभवत् ॥२१॥
॥इति कविकुलतिलकेन श्रीनारयणाचार्येण विरचिते श्रीराघवेन्द्रविजये
द्वितीयः सर्गः समाप्तः॥

  

Author Socials Follow me