SRI RAGHAVENDRA VIJAYAM – CHAPTER -4

                                             श्रीराघवेन्द्रविजयः
                चतुर्थः सर्गः
        (विद्वत्कुलावतंसैः महाकविभिः श्रीमन्नारायणार्यैर्विरचिता)
अथेन्द्ररक्षोत्सुकवामनोद्भव
  प्रसिद्धिमत्काश्यपवंशसंभवः।
भुवि
श्रुतो डङ्किपुराधिनायको
   बभूव तिम्मण्णडणायकाभिधः ॥१॥
तदन्ववाये
जनितो द्विजोत्तमो महीतले तिम्मरसार्यनामभाक्।
उवास
नारीसरसीतिविश्रुतां पुरीमुदारो निजतेजसाऽऽर्जिताम् ॥२॥
अजायतास्मादवनीसुरोत्तमाद्भुवि
प्रतीतः फणिशायिसंज्ञया।
चकार
वासं कृतमालिकापगापयःपवित्रे मधुराभिधे पुरे ॥३॥
अरातिविद्वद्विजयार्थमृद्धिमत्सरस्वतीनित्यनिवासमन्दिरम्।
अभूदभूतोपमबुद्धिसागरः
सुतोऽस्य लक्ष्मीनरसिंहनामभाक् ॥४॥
कृतोपनीतेः
सुकृताकृतेरयं सुतस्य वैवाहिकशोभनोदयम्।
चिकीर्षुरागात्किल
यत्र संस्थितो सुताविवाहोत्सवकारिदम्पती ॥५॥
समागतं
सद्म सुतोचितं वरं स्वकीयवंशानुगुणान्वयोद्भवम्।
सुताकरं
ग्राहयति स्म मान्यधीरपूजयत्तत्पितरौ सबान्धवौ ॥६॥
अथोपनीतं
विदधे पिताऽग्रतः
   समुद्भवस्यात्मगुणानुकारिणः।
सुतस्य
गर्गः क्षितिवासवो यथा
   स्ववैरिधात्रीमथनाग्रजन्मनः ॥७॥
ऋतौ
वसन्तेऽनुजमष्टहायनं
   तमग्रजो मासि मधावुपानयत्।
निघण्टुनानालिपिलब्धनैपुणं
   पितुः स मानं कलयन्निवात्मनः ॥८॥
उपासदत्तं
कुतुकेन शेमुषीनिधिः स लक्ष्मीनरसिंहदेशिकम्।
तपोधिसान्दीपिनिभूसुरोत्तमं
यथा यशोदातनयस्त्रयीमयः ॥९॥
द्विपञ्चकृत्वश्श्रुतिमात्रतः
श्रुते त्रिविष्टपोद्यानवनीमहीरुहः।
वटुर्द्वितीयां
वटुभिर्वयस्समैरधत्त शाखां धरणीसुरेश्वरः ॥१०॥
असावगृह्णादपि
काव्यमग्रिमं महीसुरोऽनध्ययने वयस्समैः।
अचष्ट
धीमाननिरीक्षितं पुनस्तदेव पृष्टं गुरुणाऽन्यवासरे ॥११॥
रहो
दिवारात्रमसंख्यचिन्तनं सतीर्थ्यसार्थेन कुतूहलात्कृतम्।
सुजातकर्मातिशयं
सुते कृतं चकार पित्रैव महीयसा मतौ॥१२॥
विहारभेदान्विविधान्विशालधीः
सकृद्विलोक्यैव सखीव्रजैः कृतान्।
तानेव
संगृह्य तपोभिशीलनाकृते सदैवातनुते स्म सादरम् ॥१३॥
स वायुवेगाः
सरितोप्यवातरत्स्वबाहुना बाण इवातिरंहसा ।
ऋजु
व्रजन्वक्रपदार्थपद्धतिं स्वहृदृजु ब्रह्मगतिं नयन्निव ॥१४॥
निरन्तरं
सृष्टसमीरणस्वनप्रधानलीलाः पुलिने सखीजनैः।
जनीष्यमाणास्यजपाङ्गरेचकप्रधानयोगं
गुणयन्निवातनोत्॥१५॥
सरस्वतीमच्चतुरास्यभासुरे
स्वभूभवेऽस्मिन्सरतिर्वसाम्यहम्।
इतीव
मारः सततं विराजते सहेत को वा सहजे समुन्नतिम् ॥१६॥
महामतिं
माणवकं च तद्वचःकृताधिवासं सहशारदं विधिम्।
विदुः
परं ब्रह्म सदागमं ब्रुवद्विमत्स्यरूपं नयनद्वयं विभोः ॥१७॥
कपोलराजन्नवरोमवल्लरीनिवेष्टितं
याति तदा तदाननम्।
समानतां
तेन यदा बहिर्गलत्कलङ्करेखावृतमिन्दुमण्डलम् ॥१८॥
गलान्तपीते
प्रसवासवैः पुनस्तदीयलोभाच्चलितालिभिर्युतम्।
शरत्सरोजातमिवास्य
भासते मुखं परीतं नवगण्डरोमभिः ॥१९॥
विलम्बिते
श्मश्रुमहःपरम्पराद्वितय्ययश्शृङ्खलमध्यसीमनि।
तदानने
छ्द्मसुवर्णभाजने विराजते विस्तृतशास्त्रशेवधिः ॥२०॥
करीश्वराणां
धरणीसमागमे भवेदुपादानमसंशयं भ्रुवौ।
अमुष्य
नो चेत्परथा कथं क्षितौ भवेदयं श्यामलिमा मनोहरः ॥२१॥
अमुञ्चदेणाङ्कविभावरीशितु-
   र्दलेन कृत्वाऽस्य ललाटमण्डलम्।
सरोजभूस्तस्य
कलङ्करेखिकां
   चकार चिल्लालतिकामपि प्रभोः ॥२२॥
नवाकृतेरस्य
ललाटतामसीविटार्धबिम्बाग्रलसत्सुधारसम्।
उदग्रनासा
भ्रममार्गनिर्गतं बिभर्ति नो चेदमृतं कुतोऽधरे ॥२३॥
रजोगुणस्तस्य
मनोऽतिनिर्मलं प्रवेष्टुकामोऽप्यपटुस्तपोबलात्।
दुराशया
हन्त चिरं निवर्तते दृशोर्युगल्यामधरेऽतिभासुरे ॥२४॥
मनोहरे
तन्मुखगर्भमन्दिरे चिरं रसज्ञानिभतूलिकाञ्चिते।
वचोऽधिदेव्याः
शयनक्रियाजुषो रदावलिं हारलतेति मन्महे ॥२५॥
सरन्ध्रकर्णद्वयमान्ध्रदेशिकाः
पयोधिकन्यामनुबीजरेखिके।
सुवेषवेदप्रणवौ
तु सञ्जगुः सुमेधसोऽस्य द्रविडावनीसुराः ॥२६॥
अनङ्गकुम्भीशितुरेतदाननप्रभासुधोदन्वति
खेलतश्चिरम्।
सहैव
वध्वा सहसा समुद्यतौ कराविवैते लसतोऽसिते भ्रुवौ॥२७॥
अमुष्य
शुद्धं हृदयं पयोधिजामनोहरान्तःपुरमेव मन्महे ।
उरः
कवाटं स्तनकीलकीलितं प्रयाति यद्रोमलताभशृङ्खलम् ॥२८॥
तदीयनासानिटिलद्युतिच्छलद्युसिन्धुसिन्धुप्रभुसङ्गमस्थले
स्फुरन्महावर्तविभूषितान्तरे
विभिन्नवेले इव चिल्लिवल्लिके॥२९॥
तदानने
कान्तिपयःपयोनिधौ निमज्जनोन्मज्जनकेलिकारिणा।
सुमेषुणा
नूनमिमौ समुद्यतौ भुजौ भ्रुवौ  रूपभृतौ
व्यराजताम् ॥३०॥
अनन्तकल्याणगुणैकमन्दिरं
हरिं जगद्व्याप्ततनुं हृदन्तरे।
निधातुकामस्य
भुजान्तरं क्रमादमुष्य विस्तारमपारमभ्यगात् ॥३१॥
मनो
रमेशास्पदमस्य मञ्जुलं
     विहर्तुमम्भोरुहसायकेऽञ्चति।
उरो
व्यलासीत्फलके दरोन्नते
     भटैस्तदीयैर्बहिरर्पिते इव ॥३२॥
मृणालवल्लीं
कथयन्ति कन्धरां मुखारविन्दस्य विकस्वरश्रियः।
परे
तु नालं मृदुलं गलं जगुर्मुखाभिधाभृन्मुकुरस्य बन्धुरम् ॥३३॥
उपेयुषो
जागरदायिनो हरेः हृदम्बुजादक्षि ततो हृदम्बुजम्।
अमुष्य
कण्ठस्थिततैजसात्मनो गृहाणि रेखात्रितयं गलान्तरे॥३४॥
सदैव
दाहो हननं कपीश्वरैरगस्त्यपानं मथनं महीभृता।
इतीव
सन्त्यज्य समुद्रमादरादमुष्य कम्बुर्गलतामवाप्तवान् ॥३५॥
करौ
कृतो चेन्नवचूतपल्लवैः कथं सहेते सतताम्बुसङ्गतिम्।
सदोद्यतस्यास्य
सुकर्मदानयोरितीव वेधाः कमले करौ व्यधात् ॥३६॥
अमुष्य
लोकत्रयरक्षणक्रियानिबोधनायेह नृणां तनूदरे।
महामहिम्नोऽस्य
वलित्रयच्छलात्कृता विधात्रा किमु चिह्नरेखिका ॥३७॥
पदे
कृते चेत्कठिने मया पदा
   व्रजेदयं तन्न सहे नवाकृतेः।
चिरेण
यानेन व्रजेद्वसुन्धरा-
   मितीव वेधा मृदुले व्यधादिमे ॥३८॥
ऋणादृषीणामथ
मुक्तिभाजनं मुमुक्षुमग्र्यः सुधियामृणद्वयात्।
तदग्रजो
वीक्ष्य विवाहमङ्गलं विधातुमैच्छद्गुरुराजनामभाक् ॥३९॥
तदग्रहारे
महनीयवैभवे
   निजाग्रहारस्य समीपवर्तिनि।
ललास
काचित्स्वकुलस्य सद्गुणैः
    समेऽन्ववाये जनिताऽस्यकन्यका ॥४०॥
समुद्रपत्नी
भवितेति सादरं प्रसाद्य वाणीमसृजत्पितेति वा।
सरोवरो
नाभिरिवेति वा पुनः सरस्वतीत्येव जुहाव  तां जनः ॥४१॥
विवेकनैपुण्यविनीतिदाक्षिणीपतीशभावप्रमुखा
निजा गुणाः।
सुजातमात्रा
अपि शोभनाकृतेः समेतरास्ते सफला इवासते ॥४२॥
पदे
पदे पल्लवकान्तिसम्पदां  निगूढगुल्फे नखराः प्रभाकराः।
निरस्तकूर्माकृतिनी
च जानुनी करौ तदूरू करिणो मनोहरौ ॥४३॥
घनं
तदीयं जघनं यथोचितं कृशं वलग्नं कुशेशये शयौ।
नखानि
रत्नानि बिसानुजौ भुजौ गभीरनाभेर्गहनं विमोहनम् ॥४४॥
गलोऽतुलोऽस्याः
फलके च तालुनी
  मुखं तदीयं शशिनाऽऽसनोन्मुखम्।
रदाश्च
कुन्दान्यधरं सुधोदरं
  समुन्नता गन्धफलीव नासिका ॥४५॥
शिशोरमुष्यास्तिलकस्य
केलिनीसखस्य डोलेव ललाटपट्टिका।
चतुष्कपर्दायसशृङ्खलाश्रिता
ललन्तिकारत्नगुलिच्छराजिता ॥४६॥
तामुद्विविक्षुः
सुरभौ समागते
    वटुव्रतानाञ्च चतुष्टयं मुदा।
विधाय
भाष्यं लिखति स्म वेङ्कटो
     विकल्पितं सिन्धुनदीनिमज्जनम्
॥४७॥
सगोपिकाम्बिकाग्रजः
सुहृज्जनैस्समन्वितः।
उपाविशत्सुपूजितो  मुदैव कन्यकापदम् ॥४८॥
श्रीमत्कश्यपवंशवार्धिशशिनः षड्दर्शनीवल्लभ-
श्रीलक्ष्मीनरसिंहवित्तविदुषः श्रीवेङ्कटाम्बामणौ।
जातेनाऽर्यदयासुधामयगिरा नारायणेनोदिते
काव्ये चारुणि राघवेन्द्रविजये सर्गश्चतुर्थोऽभवत् ॥४९॥
॥इति कविकुलतिलकेन श्रीनारयणाचार्येण विरचिते श्रीराघवेन्द्रविजये
चतुर्थस्सर्गः समाप्तः॥
   

Author Socials Follow me