SRI RAGHAVENDRA VIAJAYA – CHAPTER 8-PART 1

       श्रीराघवेन्द्रविजयः
               अष्टमः सर्गः (प्रथमो भागः)
     (विद्वत्कुलावतंसैः महाकविभिः श्रीमन्नारायणार्यैर्विरचिता)

श्रीशपादसरसीरुहभृङ्गो मध्वमौनिमतसिन्धुमृगाङ्कः।
मानपद्धतिमुखं मतमाख्याच्चन्द्रिकान्तमसकृच्चतुरोऽसौ॥१॥

प्राप्य रङ्गपरिणेतुरनुज्ञां तन्नियुक्तसकलर्तुसहायः।
तत्कृपाकवचमात्मनि कुर्वन्नुत्तरां दिशमगादुरुतेजाः ॥२॥

नामपर्वतमुपेत्य नृसिंहं नामसंस्मृतिधुताघजनौघम्।
तं प्रणम्य तरुणार्कसमाभं तां निशामिह गुरुर्वसति स्म॥३॥

सोऽथ भल्लपुरि भैरवभट्टो वीरभद्र इति विश्रुतवित्तौ।
नर्मणैव परिभूय नरेन्द्राद्ग्रामरत्नमचिरात्समगृह्णात्॥४॥

विष्णुमङ्गलपुरे विलसन्तं देवमीक्ष्य विपुलश्रियमस्मात्।
संवृतः परिजनैः स कुमारक्षेत्रमेत्य नमति स्म कुमारम्॥५॥

श्वित्रिणोपि यदुपेत्य विमुक्तास्सद्य एव निजपातकसङ्घात्।
सर्वसंपदभिवृद्धिकरोऽस्मिन्वासरान् कतिपयान्वसति स्म ॥६॥

रौप्यपीठपुरगं रुचिराङ्गं रुक्मिणीपतिमपश्यदुदारम्।
पूर्णबोधगुरुभिः सकलज्ञैः सन्निधापितमघौघविदूरम्॥७॥

चन्द्रिकाविवरणं समतानीत्सञ्चरन्नपि स पुण्यमहीषु।
वेत्ति वर्णनिचयं समयानां सङ्ख्यया सह धियैष सहार्थैः ॥८॥

चन्द्रिकप्रवचनं दशकृत्वः सोऽकृतातिशयमात्मनि वाञ्छन्।
पूर्णमास इव कर्मणि भूयोभ्यासमभ्यधिकतत्फलकाङ्क्षी॥९॥

सूत्रपात्ररुचिरं कलितर्धि न्यायपूर्वकसुधाज्यभरेण।
तन्त्रदीपमनुबोधयदर्थं भाष्यवार्तिकमयं तनुते स्म ॥१०॥

ब्रह्मसूत्रगणकाञ्चनसूत्रां कण्ठभूषणमशेषबुधानाम्।
बुद्धिशाणपरिशाणविदीप्तां न्यायमौक्तिकततीमतनिष्ट ॥११॥

चन्द्रिकाविवरणं न समाप्तं यावदेतदुभयं विरचय्य।
न्यायगर्भनयवन्नयशाली तत्समापयदनन्तरमार्यः ॥१२॥

भाव्यसंशयमहो गुरुवंशे दर्शनश्रुतिपरस्सुमतीन्द्रः ।
तस्य सार्थकमिदं सकलं स्यादित्यवेत्य कृतवान् कृतिसार्थम् ॥१३॥

राघवेन्द्रयतिराडसमानैरुत्सवैर्बहुविधैरुचितज्ञः।
कारितै ऋतुषु षट्स्वपि शिष्यैर्लोकमण्डलमनन्दयदेषः ॥१४॥

श्रीरामदेवस्य महोत्सवे हरिं विलोक्य तं सेवितुमादरादिव।
मनोज्ञमाकन्दमरन्दधारया कृताभिषेकः सुरभिः समाययौ॥१५॥

मधुस्तदा मन्मथसार्वभौमे विनिर्गते मानभृतां जयाय।
प्रसूनमाध्वीकणसेकतोऽसावरण्यवीथीरकरोदपांसूः ॥१६॥

शनैःशनैश्चन्दनभूधराग्रान्मरुत्कुमारस्तरुपल्लवेषु।
विन्यस्य पादं कुसुमैः सहासः सचंक्रमोऽभूद् भ्रमरप्रणादः॥१७॥

वल्लरीषु मलयाचलानिलस्पन्दितासु परपुष्टभामिनी।
कामदिग्विजयकाहलनादभ्रान्तिदं निनदमातनुते स्म ॥१८॥

मल्लिकासुमसमुत्थरजोभिर्वल्लिकाभिरभितः कृतभूषः।
मारवीरशरधिर्मधुमासः प्रादुरास पथिकासुदुरासः ॥१९॥

आगतोऽजनि मधुर्मधुरश्रीर्मानमत्र ननु मन्दसमीरः।
हन्त पान्थजन न त्यज कन्तामित्यघुष्यदधिकं कलकण्ठः ॥२०॥

चञ्चलद्युतिसमद्युतिचञ्चत्पल्लवावलिपरीतवनेषु।
स्यन्दमानमधुवर्षिषु कामं वर्षवासरमहान्यनुचुक्रुः ॥२१॥

मरुताभिमुखषट्पदमण्डल्याकृतिः स्मृतिभुवा पथिकेषु।
अन्तकं मुधयताऽऽदिदिशे किं कुण्डली कृतिवहः कुटिलेन॥२२॥

पुष्पपल्लवमुखेन महान्तं पर्युपास्त समयः पुरुषं यत्।
माधवः श्रियमगान्महनीयामप्रियामयमयोगिजनस्य ॥२३॥

शाखिनः किसललोहितमौलिप्रावृतिं व्यरचयन्नृतुपुंसः।
बाणमेव मदनोऽकृत बर्हिर्यष्टुमध्वगवधाय वनेषु॥२४॥

शातकुम्भमयकुम्भकुचानामंघ्रिपातमतिदुर्लभमेत्य।
संमदेन सह्सा किमशोकः कुड्मलैरभवदुत्पुलकाङ्गः॥२५॥

स्वीकृतं विदधिरे सुमनोभिः स्वांघ्रिसेवनमशोकमनङ्गम्।
धार्मिकञ्च सुदृशः सततं तौ हन्त पान्थजनहन्तृपदे स्तः ॥२६॥

पुष्पितस्य बकुलस्य समन्तादुद्गतास्सुमनसः सुमनोभ्यः।
अङ्गनास्यमधुनाऽध्वगयूनामापदागमनमत्र शशंसुः ॥२७॥

रामचन्द्रमथ रामनवम्यामिष्टदैवतममृतैरुपकॢप्तैः ।
पञ्चभिः परमराघवयोगी भक्तिपूर्वमभिषिञ्चति तं स्म ॥२८॥

मल्लिकायुवतियौवनधाता मन्मथप्रभुपरीभवदाता।
काननज्वलनबालकमाता वासरोऽजनिसरोजलपाता  ॥२९॥

जृम्भिते च मिहिरे भुवि शैत्यं कूपमाप तरुणीकुचदुर्गम्।
किञ्चिदन्यदिनसन्धिमवाप्तुं छायया सह परं चरति स्म ॥३०॥

तापयत्यतितरां तरणिर्यल्लोकबन्धुरिति नाम कथं वा।
तत्सखस्य शुचिता शुचिमासश्चातका भुवि विचुक्रुशुरित्थम् ॥३१॥

छायया सह दिवैव कराग्रैः शम्बराम्बरहरेऽम्बररत्ने।
ज्येष्ठपूर्वमभियायिनि नूनं कोपताम्रनयना नलिनीति ॥३२॥

भावि शोषणमवेत्य दुरन्तं पद्मसायकहिताय पयांसि
कामिनीकुचघटेषु वसन्तो विन्यधत्त यदिमावतिशीतौ॥३३॥

वारि नर्मपरयौवतवक्षोजातसङ्गमवशात्सरसीनाम्।
शैत्यमाप परितप्तजडानां किं न यच्छति सुवृत्तसमाजः ॥३४॥

वैरिचन्द्रगुणपक्कणभीत्या चक्रवाकमिथुनं परिशुष्यत्।
आतपर्तुविलसद्दिवसेभ्यः पारितोषिकमदात्परिणाहम् ॥३५॥

सामवर्तिहरितं स्वसुतेति प्राप्य तां हृतवसुर्दिशयाऽर्कः।
दूरतः परिहरन्नथ पश्चात्तापतः प्रतिययौ धनदाशाम् ॥३६॥

 
तत्र तत्रभवता यतिनेत्रा राघवेन्द्रगुरुणाऽक्रियतान्यैः।
फुल्लतल्लजसरोजसरस्यां जानकीपरिवृढप्लवकेली॥३७॥

वारिदावलितिरोहितमित्रं मानसाभिमुखपाण्डुरपत्रम्।
नृत्यदद्रितनयासुतपत्रं दीव्यति स्म दिनमङ्गजमित्रम्॥३८॥

प्रावृडिन्दुसहजां परिणेतुः शब्दमण्डलसमाश्रयशौरेः।
कुंकुमाक्तमचिरादुपवीतं पाकशासनशरासनमिषाऽभात् ॥३९॥

पीतपुष्करकलापपयोभ्यो निर्गतैरिव जलैर्जलदेभ्यः।
पद्मरागमणिविद्रुमभङ्गैरिन्द्रगोपनिकरैः स्थगिता भूः ॥४०॥

                                   (contined in Part II)

Author Socials Follow me