श्री दक्षिणामूर्ति स्तोत्रम्
(वृषभदेवकृतम्)
अगणितगुणमप्रमेयमाद्यं
सकलजगत्स्थितिसंयमादि
हेतुम्।
हेतुम्।
उपरतमनोयोगिहृन्मन्दिरं तं
सततमहं दक्षिणामूर्तिमीडे॥१॥
निरवधिसुखमिष्टदातारमीड्यं
नतजनमनस्तापभेदैकदक्षम्।
भवविपिनदवाग्निनामधेयं
सततमहं
दक्षिणामूर्तिमीडे॥२॥
दक्षिणामूर्तिमीडे॥२॥
त्रिभुवनगुरुमागमैकप्रमाणं
त्रिजगत्कारणसूत्रयोगमायम्।
रविशतभास्वरमीहितप्रदानं
सततमहं दक्षिणामूर्तिमीडे॥३॥
अविरतभवभावनाऽतिदूरं
पदपद्मद्वयभाविनामदूरम्।
भवजलधिसुतारणाङ्घ्रिपोतं
सततमहं दक्षिणामूर्तिमीडे॥४॥
कृतनिलयमनिशं वटाकमूले
निगमशिखाव्रातबोधितैकरूपम्।
धृतमुद्राङ्गुलिगम्यचारुबोधं
सततमहं दक्षिणामूर्तिमीडे॥५॥
द्रुहिणसुतपूजिताङ्घ्रिपद्मं
पदपद्मानतमोक्षदानदक्षम्।
कृतगुरुकुलवासयोगिमित्रं
सततमहं
दक्षिणामूर्तिमीडे॥६॥
दक्षिणामूर्तिमीडे॥६॥
यतिवरहृदये सदा विभान्तं
रतिपति शतकोटि सुन्दराङ्गमाद्यम्।
परहितनिरतात्मनां सुसेव्यं
परहितनिरतात्मनां सुसेव्यं
सततमहं
दक्षिणामूर्तिमीडे॥७॥
दक्षिणामूर्तिमीडे॥७॥
स्मितधवलविकासिताननाब्जं
श्रुतिसुलभं वृषभाधिरूढगात्रम्।
सितजलजसुशोभदेहकान्तिं
सततमहं दक्षिणामूर्तिमीडे॥८॥
वृषभकृतमिदमिष्टसिद्धिदं
गुरुवरदेवसन्निधौ
पठेद्यः।
पठेद्यः।
सकलदुरितदुःखवर्गहानिं
व्रजति चिरं ज्ञानवान्
शंभुलोकम्॥९॥
शंभुलोकम्॥९॥