GANESHA MAHIMA STOTRAM

गणेशमहिमस्तोत्रम्
अनिर्वाच्यं रूपं स्तवननिकरो यत्र गलित-
  स्तथा वक्ष्ये स्तोत्रं प्रथमपुरुषस्यात्र महतः।
यतो जातं विश्वं स्थितमपि च सदा यत्र विलयः
   स कीदृग्गीर्वाणः सुनिगमनुतः श्रीगणपतिः ॥१॥
गणेशं गाणेशाः शिवमिति च शैवाश्च विबुधाः
   रविं सौरा विष्णुं प्रथमपुरुषं विष्णुभजकाः
वदन्त्येकं शाक्ता जगदुदयमूलां परशिवां
   न जाने किं तस्मै नम इति परं ब्रह्म सकलम् ॥२॥
तथेशं योगज्ञा गणपतिमिमं कर्म निखिलं
   स मीमांसा वेदान्तिन इति परं ब्रह्म सकलम्।
अजां सांख्यो ब्रूते सकलगुणरूपां च सततं
   प्रकर्तारं न्याय्यास्त्वथ जगति बौद्धा धियमिति ॥३॥
कथं ज्ञेयो बुद्धेः परतर इयं बाह्यसरणि-
  र्यथा धीर्यस्य स्यात्स च तदनुरूपो गणपतिः।
महत्कृत्यं तस्य स्वयमपि महान् सूक्ष्ममणुव-
  द्ध्वनिर्ज्योतिर्बिन्दुर्गगनसदृशः किञ्च सदसत् ॥४॥
अनेकास्योऽपाराक्षिकरचरणोऽनन्तहृदय-
  स्तथा नानारूपो विविधवदनः श्रीगणपतिः ।
अनन्ताह्वः शक्त्या विविधगुणकर्मैकसमये
  त्वसंख्यातानन्ताभिमतफलदोऽनेकविषये ॥५॥
न यस्यान्तो मध्यो न च भवति चादिः सुमहतो-
  प्यलिप्तः कृत्वेत्थं सकलमपि खं वत्स च पृथक्।
स्मृतः संस्मर्तॄणां सकलहृदयस्थः प्रियंकरो
   नमस्तस्मै देवाय सकलसुवन्द्याय महते ॥६॥
गणेशाद्यं बीजं दहनवनितापल्लवयुतं
  मनुश्चैकार्णोयं प्रणवसहितोभीष्टफलदः।
स बिन्दुश्चांगाद्यां गणक ऋषिछन्दोस्य च निचृत्
  स देवः प्राग्बीजं विपदधि च शक्तिर्जपकृताम् ॥७॥
गकारो हेरंबः सगुण इति पुनर्निर्गुणमयो
  द्विधाप्येको जातः प्रकृतिपुरुषौ ब्रह्म हि गणः ।
सचेशश्चोत्पत्तिस्थितिलयकरोऽयं प्रथमको
   यतो भूतं भव्यं भवति पतिरीशे गणपतिः॥८॥
गकारः कण्ठोर्ध्वं गजमुखसदृशो मर्त्यसदृशो
  णकारः कण्ठाधो जठरसदृशाकार इति च ।
अधोभागः कट्यां चरण इति हीशोस्य च तनु-
  र्विभातीत्थं नाम त्रिभुवनसमं भूर्भुवःसुवः ॥९॥
गणेशेति त्र्यर्णात्मकमपि वरं नाम सुखदं
   सकृत्प्रोच्चैरुच्चारितमिति नृभिः पावनकरम्।
गणेशस्यैकस्य प्रतिजपकरस्यास्य सुकृतं
   न विज्ञातो नाम्नः सकलमहिमा कीदृशविधः ॥१०॥ 
गणेशेत्याह्वां यः प्रवदति मुहुस्तस्यपुरतः
  प्रपश्यंस्तद्वक्त्रं स्वयमपि गणस्तिष्ठति तदा।
स्वरूपस्य ज्ञानन्त्वमुक इति नाम्नाऽस्य भवति
  प्रबोधः सुप्तस्य त्वखिलमिह सामर्थ्यममुना ॥११॥
गणेशो विश्वेस्मिन् स्थित इह च विश्वं गणपतौ
  गणेशो यत्रास्ते धृतिमतिरमैश्वर्यमखिलम्।
समुक्तं नामैकं गणपतिपदं मंगलमयं
   तदेकास्ये दृष्टे सकलविबुधास्येक्षणसमम्॥१२॥
बहुक्लेशैर्व्याप्तः स्मृत उत गणेशे च हृदये  
   क्षणात् क्लेशान्मुक्तो भवति सहसा त्वभ्रचयवत्।
वने विद्यारम्भे युधि रिपुभये कुत्र गमने
    प्रवेशे प्राणान्ते गणपतिपदं चाशु विशति ॥१३॥
गणाध्यक्षः ज्येष्ठः कपिल अपरो मंगलनिधि-
  र्दयालुर्हेरम्बो वरद इति चिन्तामणिरजः ।
वरानीशो डुण्ढिर्गजवदननारः शिवसुतो
   मयूरेशो गौरीतनय इति नामानि पठति ॥१४॥
महेशोऽयं विष्णुः सकविरविरिन्दुः कमलजः
  क्षितिस्तोयं वह्निः श्वसन इति खं त्वद्रिरुदधिः ।
कुजस्तारः शुक्रो पुरुरुडुबुधोऽगुश्च धनदो
   यमः पाशी काव्यः शनिरखिलरूपो गणपतिः ॥१५॥
मुखं वह्निः पादौ हरिरपि विधाता प्रजननं
    रविर्नेत्रे चन्द्रो हृदयमपि कामोस्य मदनः।
करौ शक्रः कट्यामवनिरुदरं भानि दशनं
     गणेशस्यासन्वै क्रतुमयवपुश्चैव सकलम् ॥१६॥
अनर्घ्यालङ्कारैररुणवसनैर्भूषिततनुः
   करीन्द्रास्यः सिंहासनमुपगतो भाति बुधराट्।
स्मितास्या तन्मध्येप्युदितरविबिम्बोपमरुचि
   स्थिता सिद्धिर्वामे मतिरितरे चामरकरा ॥१७॥
समन्तात्तस्यासन् प्रवरमुनिसिद्धास्सुरगणाः
   प्रशंसन्त्यग्रे विविधनुतिभिः साञ्जलिपुटाः।
बिडौजाद्यैर्ब्रह्मादिभिरनुवृतो भक्तनिकरै-
   र्गणाक्रीडामोदप्रमुदविकटाद्यैस्सहचरैः ॥१८॥
वशित्वाद्यष्टाष्टा दशदिगखिलोल्लोलमनुवाग्-
   धृतिः पाद्मः खड्गोऽञ्जनरसबलाः सिद्धय इमाः।
सदा पृष्ठे तिष्ठन्त्यनिमिषदृशस्तन्मुखलया
    गणेशं सेवन्तेप्यतिनिकटसूपायनकराः ॥१९॥  
   
 मृगाङ्कास्या रंभाप्रभृति गणिका यस्य
पुरतः
    सुसंगीतं कुर्वन्त्यतिकुतुकगन्धर्वसहिताः
मुदः पारो नात्रेत्यनुपमपदे द्योर्विगलिता
    स्थिरं जातं चित्तं चरणमवलोक्यास्य
विमलम् ॥२०॥
हरेणायं ध्यातस्त्रिपुरमथने चासुरवधे
   गणेशः पार्वत्या बलिविजयकालेपि हरिणा।
विधात्रा संसृष्टावुरगपतिना क्षोणिधरणे
   नरैः सिद्धौ मुक्तौ त्रिभुवनजये पुष्पधनुषा
॥२१॥
अयं सुप्रासादे सुर इव निजानन्दभुवने
  महान् श्रीमानाद्यो लघुतरगृहे रङ्कसदृशः।
शिवद्वारे द्वाःस्थो नृप इव सदा भूपतिगृहे
  स्थितो भूत्वोमाङ्के शिशुगणपतिर्लालनपरः
॥२२॥
अमुष्मिन् सन्तुष्टे गजवदन एवापि विबुधे
  ततस्ते सन्तुष्टास्त्रिभुवनगताः स्युर्बुधगणाः।
दयालुर्हेरंबो न भवति यस्मिंश्च पुरुषे
   वृथा सर्वं तस्य प्रजननमतः सान्द्रतमसि
॥२३॥
वरेण्योभ्रूशुण्डिर्भृगुगुरुकुजा मुद्गलमुखा
  ह्यपारास्तद्भक्ता जपहवनपूजास्तुतिपराः।
गणेशोयं भक्तप्रिय इति सर्वत्र गतयो
   विभक्तिर्यत्रास्ते स्वयमपि सदा तिष्ठति गणः ॥२४॥
मृदः काश्चिद्धातोश्छदविलिखिता वापि दृषदः
   स्मृता व्याजा मूर्तिः पथि यदि बहिर्येन
सहसा।
अशुद्धोऽद्धा द्रष्टा प्रवदति तदाह्वां गणपतेः
    श्रुता शुद्धो मर्त्यो भवति दुरिताद्विस्मय
इति ॥२५॥
बहिर्द्वारस्याध्वं गजवदनवर्ष्मेन्धनमयं
   प्रशस्तं वा कृत्वा विविधकुशलैस्तत्र
निहितं ।
प्रभावात्तन्मूर्त्या भवति सदनं मंगलमयं
   विलोक्यानन्दस्तां भवति जगतो विस्मय
इति ॥२६॥
सिते भाद्रे मासे प्रतिशरदि  मध्याह्नसमये
  मृदो मूर्तिं कृत्वा गणपतितिथौ डुण्ढिसदृशीम्।
समर्चन्नुत्साहः प्रभवति महान् सर्वसदने
  विलोक्यानन्दस्तां प्रभवति नृणां विस्मय
इति ॥२७॥
तथाह्येकःश्लोको वरयति महिम्नो गणपतेः
   कथं स श्लोकेस्मिन् स्तुत इति भये
संप्रति तते।
स्मृतं नामास्यैकं सकृदिदमनन्ताह्वयसमं
    यतो यस्यैकस्य स्तवनसदृशं नान्यदपरम्
॥२८॥
गजवदनविभो यद्वर्णितं वैभवं ते
   त्विह जनुषि ममेत्थं चारु तद्दर्शयाशु।
त्वमसि च करुणायास्सागरः कृत्स्नदाता-
   प्यपि तव भृतकोऽहं सर्वदा चिन्तकोऽस्मि
॥२९॥
सुस्तोत्रं प्रपठतु नित्यमेतदेव
  स्वानन्दं प्रतिगमनेप्ययं सुमार्गः।
सञ्चिन्त्यं स्वमनसि तत्पदारविन्दं
   स्थाप्याग्रे स्तवनफलं नतिः करिष्ये
॥३०॥
गणेशदेवस्य महात्म्यमेत-
  द्यः श्रावयेद्वापि पठेच्च तस्य।
क्लेशा लयं यान्ति लभेच्च शीघ्रं
   स्त्रीपुत्रविद्यार्थगृहं च मुक्तिम् ॥३१॥
 ॥इति श्रीपुष्पदन्तविरचितं श्रीगणेशमहिमस्तोत्रं
संपूर्णम्॥   
  
   

Author Socials Follow me