Ganesha Manasa Puja

         गणेशमानसपूजा
विघ्नेशवीर्याणि विचित्रकानि
वन्दीजनैर्मागधकैः स्मृतानि।
श्रुत्वा समुत्थिष्ठ गजानन! त्वं
ब्राह्मे जगन्मङ्गलकं कुरुष्व ॥१॥
एवं मया प्रार्थितविघ्नराज-
श्चित्तेन चोत्थाय बहिर्गणेशं ।
तं निर्गतं वीक्ष्य नमन्ति देवा-
श्शंभ्वादयो योगिमुखास्तथाहम् ॥२॥
शौचादिकं ते परिकल्पयामि
हेरंब! वै  दन्तविशुद्धिमेवम्।
वस्त्रेण संप्रोक्ष्य मुखारविन्दं
देवं सभायां विनिवेशयामि ॥३॥
द्विजादिसर्वैरभिवन्दितं च
शुकादिभिर्मोदसुमोदकाद्यैः।
संभाष्य चालोक्य समुत्थितं तं
सुमण्डपं कल्प्य निवेशयामि ॥४॥
रत्नैः सुदीप्तैः प्रतिबिंबितं तं
पश्यामि चित्तेन विनायकं च।
तत्रासनं रत्नसुवर्णयुक्तं
सङ्कल्प्य देवं विनिवेशयामि ॥५॥
सिद्ध्या च बुद्ध्या सह विघ्नराज!
पाद्यं कुरु प्रेमभरेण सर्वैः ।
सुवासितं नीरमथो गृहाण
चित्तेन दत्तं च सुखोष्णभावम् ॥६॥
ततः सुवस्त्रेण गणेशपादौ
संप्रोक्ष्य दूर्वादिभिरर्चयामि।
चित्तेन भावप्रिय दीनबन्धो
मनो विलीनं कुरुते पदाब्जे॥७॥
कर्पूरकैलादिसुवासितं तु
सुकल्पितं तोयमथो गृहाण।
आचम्य तेनैव गजानन त्वं
कृपाकटाक्षेण विलोकयाशु ॥८॥
प्रवालमुक्ताफलहाटकाद्यै-
स्सुसंस्कृतं ह्यान्तरभावकेन।
अनर्घमर्घ्यं सफलं कुरुष्व
मया प्रदत्तं गणराज डुण्ढे ॥९॥
सौगन्ध्ययुक्तं मधुपर्कमाद्यं
संकल्पितं भावयुतं गृहाण।
पुनस्तथाचम्य विनायक! त्वं
भक्तांश्च भक्तेश सुरक्षयाशु॥१०॥
सुवासितं चंपकजातिकाद्यै-
स्तैलं मया कल्पितमेव डुण्ढे!।
गृहाण तेन प्रविमर्द्दयामि
सर्वाङ्गमेवं तव सेवनाय ॥११॥
ततः सुखोष्णेन जलेन चाह-
मनेकतीर्थाहृतकेन डुण्ढिम्।
चित्तेन शुद्धेन च स्नापयामि
स्नानं मया दत्तमथो गृहाण ॥१२॥
ततः पयःस्नानमचिन्त्यभाव!
गृहाण तोयस्य तथा गणेश।
पुनर्दधिस्नानमनामय त्वं
चित्तेन दत्तं च जलस्य चैव ॥१३॥
ततो घृतस्नानमपारवन्द्य!
सुतीर्थजं विघ्नहर! प्रसीद।
गृहाण चित्तेन सुकल्पितं तु
ततो मधुस्नानमथो जलस्य ॥१४॥
सुशर्करायुक्तमथो गृहाण
स्नानं मया कल्पितमेव डुण्ढे!।
ततो जलस्नानमघापहन्त्रे
विघ्नेश! मायाभ्रम वारयाशु ॥१५॥
सुयक्षपङ्कस्थमथो गृहाण
स्नानं परेशाधिपते! ततश्च।
कौमण्डलीसंभवजं कुरुष्व
विशुद्धमेवं परिकल्पितं तु॥१६॥

ततस्तु सूक्तैर्मनसा गणेशं
संपूज्य दूर्वादिभिरल्पभावैः।
अपारकैर्मण्डलभूतब्रह्म-
णस्पत्यकैस्तं ह्यभिषेचयामि ॥१७॥
ततः सुवस्त्रेण तु प्रोञ्छनं त्वं
गृहाण चित्तेन मया सुकल्पितम् ।
ततो विशुद्धेन जलेन डुण्ढे!
ह्याचान्तमेवं कुरु विघ्नराज! ॥१८॥
अग्नौ विशुद्धे तु गृहाण वस्त्रे
ह्यनर्घमौल्ये मनसा मया ते।
दत्ते परिच्छाद्य निजात्मदेहं
ताभ्यां मयूरेश जनांश्च पालय॥१९॥
आचम्य विघ्नेश पुनस्तथैव
चित्तेन दत्तं सुखमुत्तरीयम् ।
गृहाण भक्तप्रतिपालक त्वं
नमो तथा तारकसंयुतन्तु॥२०॥
यज्ञोपवीतं त्रिगुणस्वरूपं
सौवर्णमेवं ह्यहिनाथभूतम्।
भावेन दत्तं गणनाथ तत्त्वं
गृहाण भक्तोद्धृतिकारणाय ॥२१॥
आचाममेवं मनसा प्रदत्तं
कुरुष्व शुद्धेन जलेन डुण्ढे!
पुनश्च कौमण्डलकेन पाहि
विश्वं प्रभो खेलकरं सदा ते ॥२२॥
उद्यद्दिनेशाभमथो गृहाण
सिन्दूरकं ते मनसा प्रदत्तं।
सर्वांगसंलेपनमादराद्वै
कुरुष्व हेरंब! च तेन पूर्णम् ॥२३॥
सहस्रशीर्षं मनसा मया त्वं
दत्तं किरीटं तु सुवर्णजं वै।
अनेकरत्नैः खचितं गृहाण
ब्रह्मेश ते मस्तकशोभनाय ॥२४॥
विचित्ररत्नैः कनकेन डुण्ढे!
युतानि चित्तेन मया परेश!
दत्तानि नानापदकुण्डलानि
गृहाण शूर्पश्रुतिभूषणानि॥२५॥
शुण्डाविभूषार्थमनन्तखेलिन्
सुवर्णजं कञ्चुकमागृहाण।
रत्नैश्च युक्तं मनसा मया य-
द्दत्तं प्रभो! तत्सफलं कुरुष्व ॥२६॥
सुवर्णरत्नैश्चयुतानि डुण्ढे!
सदैकदन्ताभरणानि कल्प्य
गृहाण चूडाकृतये परेश!
दत्तानि दन्तस्य च शोभनार्थम् ॥२७॥
रत्नैः सुवर्णेन कृतानि तानि
गृहाण चत्वारि मया प्रकल्प्य।
संभूषय त्वं कटकानि नाथ!
चतुर्भुजेषु ह्यज! विघ्नहारिन् ॥२८॥
विचित्ररत्नैः खचितं सुवर्ण-
संभूतकं गृह्य मया प्रदत्तं
तथांगुलीष्वंगुलिकं गणेश
चित्तेन संशोभय तत् परेश ॥२९॥
विचित्ररत्नैः खचितानि डुण्ढे!
केयूरकाणि ह्यथ कल्पितानि।
सुवर्णजानि प्रमथाधिनाथ!
गृहाण दत्तानि तु बाहुषु त्वं ॥३०॥
प्रवालमुक्ताफलरत्नजैस्त्वं
सुवर्णसूत्रैश्च गृहाण कण्ठे।
चित्तेन दत्ता विविधाश्च माला
उरूदरे शोभय विघ्नराज! ॥३१॥
चन्द्रं ललाटे गणनाथ! पूर्णं
वृद्धिक्षयाभ्यां तु विहीनमाद्यम्।
संशोभय त्वं वरसंयुतं ते
भक्तप्रियत्वं प्रकटीकुरुष्व ॥३२॥
चिन्तामणिं चिन्तितदं परेश!
हृद्देशगं ज्योतिर्मयं कुरुष्व।
मणिं सदानन्दसुखप्रदं च
विघ्नेश! दीनार्थद! पालयस्व ॥३३॥
नाभौ फणीशं च सहस्रशीर्षं
संवेष्टनेनैव गणाधिनाथ!
भक्तं सुभूषं कुरु भूषणेन
वरप्रदानं सफलं परेश! ॥३४॥
कटीतटे रत्नसुवर्णयुक्तां
काञ्चीं सुरत्नेन च धारयामि।
विघ्नेश! ज्योतिर्गणदीपनीं ते
प्रसीद भक्तं कुरु मां दयाब्धे ॥३५॥
हेरंब! ते रत्नसुवर्णयुक्ते
सुनूपुरे मञ्जरिके तथैव।
सुकिङ्किणीनादयुते सुबुद्ध्या
सुपादयोः शोभय मे प्रदत्ते ॥३६॥
इत्यादि नानाविधभूषणानि
तवेच्छया मानसकल्पितानि।
संभूषयाम्येव त्वदंगकेषु
विचित्रधातुप्रभवाणि डुण्ढे! ॥३७॥
सुचन्दनं रक्तममोघवीर्यं
सुघर्षितं ह्यष्टक गन्धमुख्यैः ।
युक्तं मया कल्पितमेकदन्त!
गृहाण ते त्वंगविलेपनार्थम् ॥३८॥
लिप्तेषु वैचित्र्यमथाष्टगन्धै-
रंगेषु तेऽहं प्रकरोमि चित्रम्।
प्रसीद चित्तेन विनायक त्वं
ततः सुरक्तं रविमेव फाले ॥३९॥
घृतेन वै कुङ्कुमकेन रक्तान्
सुतण्डुलांस्ते परिकल्पयामि।
फाले गणाध्यक्ष! गृहाण पाहि
भक्तान् सुभक्तप्रिय दीनबन्धो! ॥४०॥
गृहाण चंपकमालतीनि
जलपंकजानि स्थलपंकजानि।
चित्तेन दत्तानि च मल्लिकानि
पुष्पाणि नानाविधवृक्षजानि ॥४१॥
पुष्पोपरि त्वं मनसा गृहाण
हेरंब! मन्दारशमीदलानि ।
मया सुचित्तेन च कल्पितानि
ह्यपारकाणि प्रणवाकृते! ते ॥४२॥
दूर्वांकुरान् वै मनसा प्रदत्तां-
स्त्रिपंचपत्रैर्यतकांश्च स्निग्धान्।
गृहाण विघ्नेश्वर! संख्यया त्वं
हीनांश्च 
सर्वोपरि वक्रतुण्ड! ॥४३॥
दशांगभूतं मनसा मया ते
धूपं प्रदत्तं गणराज डुण्ढे! ।
गृहाण सौरभ्यकरं परेश!
सिध्या च बुध्या सह भक्तपाल! ॥४४॥
   
दीपं सुवर्त्यायुतमादरात्ते
दत्तं मया मानसकं गणेश!
गृहाण नानाविधजं घृतादि
तैलादिसंभूतममोघदृष्टे! ॥४५॥
भोज्यं तु लेह्यं गणराज! पेयं
चोष्यं च नानाविधषड्रसाढ्यम्।
गृहाण नैवेद्यमथो मया ते
सुकल्पितं पुष्टिपते महात्मन् ॥४६॥
सुवासितं भोजनमध्यभागे
जलं मया दत्तमथो गृहाण।
कमण्डलुस्थं मनसा गणेश!
पिबस्व विश्वादिक तृप्तिकारिन् ॥४७॥
ततः करोद्वर्तनकं गृहाण
सौगन्ध्ययुक्तं मुखमार्जनाय।
सुवासितेनैव सुतीर्थजेन
सुकल्पितं नाथ गृहाण डुण्ढे!॥४८॥
पुनस्तथाचम्य सुवासितञ्च
दत्तं मया तीर्थजलं पिबस्व।
प्रकल्प्य विघ्नेश! ततः परं ते
संप्रोञ्छनं हस्तमुखे करोमि ॥४९॥
द्राक्षादिरंभाफलचूतकानि
खर्जूरकार्कन्धुकदाडिमानि।
सुस्वादुयुक्तानि मया प्रकल्प्य
गृहाण दत्तानि फलानि डुण्ढे! ॥५०॥
पुनर्जलेनैव करादिकं ते
संक्षालयेऽहं मनसा गणेश!।
सुवासितं तोयमथो पिबस्व
मया प्रदत्तं मनसा परेश! ॥५१॥
अष्टांगयुक्तं गणनाथ! दत्तं
तांबूलकं ते मनसा मया वै।
गृहाण विघ्नेश्वर! भावयुक्तं
सदा सकृत्तुण्डविशोधनार्थं ॥५२॥
ततो मया कल्पितके गणेश!
महासने रत्नसुवर्णयुक्ते ।
मन्दारकूर्पासकयुक्तवस्त्रै-
रनर्घ्यसंछादितके प्रसीद ॥५३॥
ततस्त्वदीयं चरणं परेश!
संपूजयामि मनसा यथावत्।
नानोपचारैः परमप्रियैस्तु
त्वत्प्रीतिकामोऽहमनाथबन्धो॥५४॥
गृहाण लंबोदर! दक्षिणां ते
ह्यसंख्यभूतां मनसा प्रदत्ताम्।
सौवर्णमुद्रादिकमुख्य भावां
पाहि प्रभो विश्वमिदं गणेश!॥५५॥
राजोपचारान् विविधान् गृहाण
हस्त्यश्वछत्रादिकमादराद्वै।
चित्तेन दत्तान् गणनाथ! डुण्ढे!
ह्यपारसंख्यान् स्थिरजंगमांस्ते ॥५६॥
दानाय नानाविधरूपकांस्ते
गृहाण दत्तान् मनसा मया वै।
पदार्थभूतां स्थिरजंगमांश्च
हेरंब!  मां तारय मोहभावात्॥५७॥
मन्दारपुष्पाणि शमीदलानि
दुर्वांकुरांस्ते मनसा ददामि।
हेरंब! लंबोदर दीनपाल! 
गृहाण भक्तं कुरु मां पदे ते ॥५८॥
ततो हरिद्रामहिरंगुलालं
सिन्दूरकं ते परिकल्पयामि।
सुवासितं वस्तु सुवासभूतै-
र्गृहाण ब्रह्मेश्वर शोभनार्थम्॥५९॥
ततश्शुकाद्याश्शिवविष्णुमुख्या
इन्द्रादयश्शेषमुखास्तथान्ये।
मुनीन्द्रकाः सेवकभावयुक्ताः
सभाशिवस्थं प्रणमन्ति डुण्ढे!॥६०॥
वामांगके शक्तियुता गणेशं
सिद्धिस्तु नानाविधसिद्धिभिस्तं।
अत्यन्तभावेन सुसेवते तु
मायास्वरूपं परमार्थभूता॥६१॥
गणेश्वरं दक्षिणभागसंस्था
बुद्धिः कलाभिश्च सुबोधिकाभिः।
विद्याभिरेवं भजते परेशं
मायासु सांख्यप्रदचित्तरूपा ॥६२॥
प्रमोदमोदादयः पृष्ठभागे
गणेश्वरं भावयुता भजन्ते।
भक्तेश्वरा मुद्गलशंभुमुख्याः
शुकादयस्तं स्म पुरे भजन्ते॥६३॥
गन्धर्वमुख्या मधुरं जगुश्च
गणेशगीतं विविधस्वरूपं।
नृत्यं कलायुक्तमथो पुरस्ता-
च्चक्रुस्तथाह्यप्सरसो विचित्रम्॥६४॥
इत्यादि नानाविधभावयुक्तैः
संसेवितं विघ्नपतिं भजामि।
चित्तेन ध्यात्वा तु निरञ्जनं वै
करोमि नानाविधदीपयुक्तम् ॥६५॥
चतुर्भुजं पाशधरं गणेशं
धृतांकुशं दन्तयुतं तमेवम्।
त्रिनेत्रयुक्तं त्वभयंकरं तं
महोदरं चैकरदं गजास्यम् ॥६६॥
सर्पोपवीतं गजकर्णधारं
विभूतिभिः सेवितपादपद्मम्।
ध्याये गणेशं विविधप्रकारैः
सुपूजितं शक्तियुतं परेशम्  ॥६७॥
ततो जपं वै मनसा करोमि
स्वमूलमन्त्रस्य विधानयुक्तम्।
असंख्यभूतं गणराजहस्ते
समर्पयाम्येव गृहाण डुण्ढे! ॥६८॥
आरात्रिकां कर्पुरकादिभूता-
मपारदीपां प्रकरोमि पूर्णाम्।
चित्तेन लंबोदर्! तां गृहाण-
ह्यज्ञानध्वान्ताघहरां निजानाम् ॥६९॥
वेदेषु वैघ्नेश्वरकैः सुमन्त्रैः
सम्मन्त्रितं पुष्पदलं प्रभूतं
गृहाण चित्तेन मया प्रदत्त-
मपारवृत्त्या त्वथ मन्त्रपुष्पम् ॥७०॥
अपारवृत्त्या स्तुतिमेकदन्त!
गृहाण चित्तेन कृतां गणेश!।
युक्तां श्रुतिस्मार्त्तभवैः पुराणैः
स्तवैः परेशाधिपते मया ते ॥७१॥
प्रदक्षिणा मानसकल्पितास्ता
गृहाण लंबोदर भावयुक्ताः।
संख्याविहीना विविधस्वरूपा
भक्तान् सदा रक्ष भवार्णवाद्वै ॥७२॥
नतिं ततो विघ्नपते गृहाण
साष्टांगकाद्यां विविधस्वरूपाम्।
संख्याविहीनां मनसा कृतां ते
सिद्ध्या च बुद्ध्या परिपालयाशु॥७३॥
न्यूनातिरिक्ता तु मया कृतं चे-
त्तदर्थमन्ते मनसा गृहाण।
दूर्वांकुरान् विघ्नपते प्रदत्तान्
संपूर्णमेवं कुरु पूजनं मे ॥७४॥
क्षमस्व विघ्नाधिपते मदीयान्
सदापराधान् विविधस्वरूपान्।
भक्तिं मदीयां सफलां कुरुष्व
संप्रार्थयामि मनसा गणेश ॥७५॥
ततः प्रसन्नेन गजाननेन
दत्तं प्रसादं शिरसाभिवन्द्य।
स्वमस्तके तं परिधारयामि
चित्तेन विघ्नेश्वरमानतोऽस्मि ॥७६॥
उत्थाय विघ्नेश्वर एवमस्माद्-
गतस्ततस्त्वन्तरधात्स्वशक्त्या ।
शिवादयस्तं प्रणिपत्य सर्वे
गताः सुचित्तेन च चिन्तयामि ॥७७॥
सर्वान् नमस्कृत्य ततोऽहमेव
भजामि चित्तेन गणाधिपं तं।
स्वस्थानमागत्य महानुभावै-
र्भक्तैर्गणेशस्य च खेलयामि ॥७८॥
  
एवं त्रिकालेषु गणाधिपं तं
चित्तेन नित्यं परिपूजयामि।
तेनैव तुष्टः प्रददातु भावं
विघ्नेश्वरो भक्तिमयं तु मह्यम् ॥७९॥
गणेशपादोदकपानकञ्च
उच्छिष्टगन्धस्य सुलेपनं तु।
निर्माल्य सन्धारणकं सुभोज्यं
लंबोदरस्यास्तु हि भुक्तशेषम् ॥८०॥
यं यं करोम्येव तदेव दीक्षा
गणेश्वरस्यास्तु सदा गणेश!।
प्रसीद नित्यं तव पादभक्तं
कुरुष्व मां ब्रह्मपते दयालो ॥८१॥
ततस्तु शय्यां परिकल्पयामि
मन्दारकूर्पासकवस्त्रयुक्ताम्।
सुवासपुष्पादिभिरर्चितां ते
गृहाण निद्रां कुरु विघ्नराज ॥८२॥
सिद्ध्या च बुद्ध्या सहितं गणेशं
सुनिद्रितं वीक्ष्य तथाहमेव ।
गत्वा स्ववासं च करोमि निद्रां
ध्यात्वा हृदि ब्रह्मपतिं तदीयः ॥८३॥
एतादृशं सौख्यममोघशक्तं
देहि प्रभो मानसजं गणेश!।
मह्यं च तेनैव कृतार्थरूपो
भवामि भक्तीरसलालसोऽहम् ॥८४॥
य एतां मानसीपूजां
करिष्यति नरोत्तमः।
पठिष्यति सदा सोऽपि
गाणपत्यो भविष्यति ॥८५॥
श्रावयिष्यति यो मर्त्यः
श्रोष्यते भावसंयुतः।
संक्रमेण महीपाल
ब्रह्मभूतो भविष्यति ॥८६॥
यं यमिच्छति तं तं वै
सफलं तस्य जायते।
अन्ते स्वानन्दगः सोऽपि
योगिवन्द्यो भविष्यति ॥८७॥

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.