GARGA SAMHITA ON BHAKTI -2

गर्गसंहिता
विज्ञानखण्डः – चतुर्थोऽध्यायः
भक्तिमाहात्म्यम् –
श्रीव्यास उवाच –
खे वायौ सलिले वह्नौ मह्यां ज्योतिर्गणेषु च ॥
श्रीकृष्णदेवं पश्यन्तो हर्षिताश्च पुनः पुनः ॥१॥

श्रीकृष्णो राधिकानाथः कोटिकन्दर्पमोहनः ॥
तन्नेत्रगोचरो याति ब्रुवञ्छ्रीनन्दनन्दनः ॥२॥

सदानन्दं च ते दृष्ट्वा प्रहसन्ति प्रहर्षिताः ॥
क्वचिद्वदन्ति धावन्ति नन्दन्ति च क्वचित्तथा ॥३॥

क्वचिद्गायन्ति नृत्यन्ति क्वचित्तूष्णीं भवन्ति च ॥
कृष्णचन्द्रस्वरूपास्ते कृतार्था वैष्णवोत्तमाः ॥४॥

तेषां दर्शनमात्रेण नरो याति कृतार्थताम् ॥
न कालो न यमस्तेषां दण्डं दातुं न च क्षमः ॥५॥

गदा कौमोदकी वामे दक्षीणे च सुदर्शनम् ॥
अग्रे शार्ङ्गधनुः पश्चात्पाञ्चजन्यो घनस्वनः ॥६॥

नन्दकश्च महाखड्गः शतचन्द्रेषवः शिताः ॥
एतान्यायुधमुख्यानि तांश्च रक्षन्त्यहर्निशम् ॥७॥ 

तथोपरि महापद्मं छायां कर्तुं पुनः पुनः ॥
गरुडः पक्षवातेन श्रमहर्ता सतामपि ॥८॥

यत्र यत्र गताः सन्तस्तत्र तत्र स्वयं हरिः ॥
तीर्थीकुर्वन् भूमिभागं श्रीमत्पादाब्जरेणुभिः ॥९॥

क्षणं यत्र स्थिताः सन्तस्तत्र तीर्थानि सन्ति हि ॥
तत्र कोऽपि मृतः पापी याति विष्णोः परं पदम् ॥१०॥

दूरात्संप्रेक्ष्य कृष्णेष्टा नाधयो व्याधयस्तथा ॥
भूतप्रेतपिशाचाश्च पलायन्ते दिशो दश ॥११॥

नद्यो नदाः पर्वताश्च समुद्राश्च तथापरे ॥
मार्गं ददुश्च साधुभ्योऽनपेक्षेभ्यः समन्ततः ॥१२॥

साधूनां ज्ञाननिष्ठानां विरक्तानां महात्मनाम् ॥
अजातशत्रूणां तेषां दुर्लभं पुण्यवर्जितैः ॥१३॥

यस्मिन्कुले कृष्णभक्तो जायते ब्रह्मलक्षणम् ॥
तत्कुलं विमलं विद्धि मलीमसमपि स्वतः ॥१४॥

राजन् श्रीकृष्णभक्तस्तु पितॄन्दश कुलोद्भवान् ॥
प्रियापक्षेऽपि दश च मातृपक्षे तथा दश ॥१५॥

पुरुषानुद्धरेद्राजन्निरयात्पापबन्धनात् ॥
साधुसम्बन्धिनश्चान्ये भृत्या दासाः सुहृज्जनाः ॥१६॥

शत्रवो भारवाहश्च तद्गृहे पक्षिणस्तथा ॥
पिपीलिकाश्च मशकास्तथा कीटपतङ्गकाः ॥१७॥ 

अब्रह्मण्येऽकृष्णसारे सौवीरे कीकटे तथा ॥
म्लेच्छदेशेऽपि देवेश भक्तो लोकान्पुनाति हि ॥१८॥

साङ्ख्ययोगं विना राजंस्तीर्थधर्ममखैर्विना ॥
साधुसंसर्गिनस्तेऽपि प्रयान्ति हरिमन्दिरे ॥१९॥

इत्थं श्रीकृष्णभक्तानां माहात्म्यं कथितं मया ॥
चतुःपदार्थदं नॄणां किं भूयः श्रोतुमिच्छसि ॥२०॥

उग्रसेन उवाच –

परिपूर्णतमे साक्षाच्छ्रीकृष्णे परमात्मनि ॥
दन्तवक्त्रस्य दुष्टस्य ज्योतिर्लीनं बभूव ह ॥२१॥

अहो महदिदं चित्रं सायूज्यं महतामपि ॥   
योग्यं स्याद्विप्रमुख्येन्द्र कथं चान्येन शत्रुणा ॥२२॥

श्रीव्यास उवाच –

ममाहमिति वैषम्यं भूतानां त्रिगुणात्मनाम् ॥
क्रोधाद्यैर्वर्तते राजन्न हरौ परमात्मनि ॥२३॥

हरौ केनापि भावेन मनो लग्नं करोति यः ॥
याति तद्रूपतां सोऽपि भृङ्गिणः कीटको यथा ॥२४॥

स्नेहं कामं भयं क्रोधमैक्यं सौहृदमेव च ॥
कृत्वा तन्मयतां यान्ति साङ्ख्ययोगं विना जनाः ॥२५॥

स्नेहान्नन्दयशोदाद्या वसुदेवादयोऽपरे ॥
कालाद्गोप्यो हरिं प्राप्ता न तु ब्रह्मतया नृप ॥२६॥

तद्रूपगुणमाधुर्यभावसंलग्नमानसाः ॥
भयात्कंसस्तव सुतस्तत्सायूज्यं जगाम ह ॥२७॥

क्रोधादयं दन्तवक्त्रः शिशुपालादयोऽपरे ॥
ऐक्याच्च यादवा यूयं सौहृदाच्च वयं तथा ॥२८॥

तस्मात्केनाप्युपायेन मनः कृष्णे निवेशयेत् ॥
अहर्निशं हि स्मरणं भवेच्छत्रोर्न कर्हिचित् ॥२९॥

शत्रुभावं हरौ तस्मात्कुर्वन्ति दनुजादयः ॥३०॥
इति श्रीगर्गसंहितायां विज्ञानखण्डे श्रीव्यासोग्रसेनसंवादे
भक्तिमाहात्म्यं नाम चतुर्थोऽध्यायः ॥४॥
===========================
“niShkAma
bhakti from Gagra Samhita” contributed by Vishwas R. Bhide and proofread
by PSA Easswaran” 

Author Socials Follow me

2 Comments on GARGA SAMHITA ON BHAKTI -2

  1. please translate all contents in english

    1. We will try to put translation here. But, please don't rely on that and try to learn Sanskrit from the resources which are elsewhere mentioned on this website.
      I hope it will benefit you more and make able to read Sanskrit and understand it directly.
      – moderator.