HYMNS TO KRISHNA – SRI KRISHNA ASHTAKAM ( BY ADI SANKARACHARYA)

श्रीकृष्णाष्टकम्
         
(श्री शंकराचार्यकृतम्)
भजे व्रजैकमण्डनं समस्तपापखण्डनं
स्वभक्तचित्तरञ्जनं सदैव नन्दनन्दनम्
सुपिच्छगुच्छमस्तकं सुनादवेणुहस्तकं
अनंगरंगसागरं नमामि कृष्णनागरम्
॥ १ ॥
मनोजगर्वमोचनं विशाललोललोचनं
विधूतगोपशोचनं नमामि पद्मलोचनम्
करारविन्दभूधरं स्मितावलोकसुन्दरं
महेन्द्रमानदारणं नमामि कृष्णवारणम्
॥ २ ॥
कदम्बसूनकुण्डलं सुचारुगण्डमण्डलं
व्रजाङ्गनैकवल्लभं नमामि कृष्ण
दुर्लभम् ।
यशोदया समोदया सगोपया सनन्दया
युतं सुखैकदायकं नमामि गोपनायकम्
॥ ३ ॥
सदैव पादपङ्कजं मदीयमानसे निजं
दधानमुत्तमालकं नमामि नन्दबालकम्
समस्तदोषशोषणं समस्तलोकपोषणं
समस्तगोपमानसं नमामि नन्दलालसम्
॥ ४ ॥
भुवोभरावतारकं भवाब्धिकर्णधारकं
यशोमतीकिशोरकं नमामि चित्तचोरकम्
दृगन्तकान्तभङ्गिनं सदासदालसङ्गिनं
दिने दिने नवं नवं नमामि नन्दसंभवम्
॥ ५ ॥
गुणाकरं सुखाकरं कृपाकरं कृपापरं
सुरद्विषन्निकन्दनं नमामि गोपनन्दनम्
नवीनगोपनागरं नवीनकेलिलंपटं
नमामि मेघसुन्दरं तटित्प्रभालसत्पटम्
॥ ६ ॥
समस्तगोपनन्दनं हृदंबुजैकमोदनं
नमामि कुञ्जमध्यगं प्रसन्नभानुशोभनम्
निकामकामदायकं दृगन्तचारुसायकं
रसालवेणुगायकं नमामि कुञ्जनायकम्
॥ ७ ॥
विदग्धगोपिकामनोमनोज्ञतल्पशायिनं
नमामि कुञ्जकानने प्रवृद्धवह्निपायिनम्
यदा तदा यथा तथा तथैव कृष्णसत्कथा
मया सदैव गीयतां तथा कृपा विधीयताम्
॥ ८ ॥
प्रमाणिकाष्टकद्वयं जपत्यधीत्य
यः पुमान् ।
भवेत्स नन्दनन्दने भवे भवे
सुभक्तिमान् ॥ ९ ॥

              ***          
Click here for this hymn in Kannada Lipi



HYMNS TO KRISHNA – KRISHNA ASHTAKAM ( BY ADI SANKARACHARYA)

कृष्णाष्टकम्
        
(श्री शंकराचार्यकृतं)
श्रियाश्लिष्टो विष्णुः स्थिरचरवपुर्वेदविषयो
धियां साक्षी शुद्धो हरिरसुरहन्ताब्जनयनः
गदी शङ्खी चक्री विमलवनमाली
स्थिररुचिः 
शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः
॥ १ ॥
यतः सर्वं जातं वियदनिलमुख्यं
जगदिदं
स्थितौ निःशेषं योऽवति निजसुखांशेन
मधुहा  ।
लये सर्वं स्वस्मिन् हरति कलया
यस्तु स विभुः
शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः
॥ २ ॥
असूनायम्यादौ यमनियममुख्यैः
सुकरणैः
निरुध्येदं चित्तं हृदि विलयमानीय
सकलम् ।
यमीड्यं पश्यन्ति प्रवरमतयो
मायिनमसौ
शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः
॥ ३ ॥
पृथिव्यां तिष्ठन् यो यमयति
महीं वेद न धरा
यमित्यादौ वेदो वदति जगतामीशममलम्
नियन्तारं ध्येयं मुनिसुरनृणां
मोक्षदमसौ
शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः
॥ ४ ॥
महेन्द्रादिर्देवो जयति दितिजान्यस्य
बलतो
न कस्य स्वातन्त्र्यं क्वचिदपि
कृतौ यत्कृतिमृते ।
बलारातेर्गर्वं परिहरति योऽसौ
विजयिनः
शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः
॥ ५ ॥
विना यस्य ध्यानं व्रजति पशुतां
सूकरमुखाम्
विना यस्य ज्ञानं जनिमृतिभयं
याति जनता ।
विना यस्य स्मृत्या कृमिशतजनिं
याति स विभुः
शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः
॥ ६ ॥
नरातङ्कोत्तङ्कः शरणशरणो भ्रान्तिहरणो
घनश्यामो वामो व्रजशिशुवयस्योऽर्जुनसखः
स्वयंभूर्भूतानां जनक उचिताचारसुखदः
शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः
॥ ७ ॥
यदा धर्मग्लानिर्भवति जगतां
क्षोभणकरी
तदा लोकस्वामी प्रकटितवपुः
सेतुधृगजः ।
सतां धाता स्वच्छो निगमगणगीतो
व्रजपतिः
शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः  ॥ ८ ॥
इति हरिरखिलात्माराधितः शङ्करेण
श्रुतिविशदगुणोऽसौ मातृमोक्षार्थमाद्यः
यतिवरनिकटे श्रीयुक्त आविर्बभूव
स्वगुणवृत उदारः शङ्खचक्राब्जहस्तः
॥ ९ ॥
             ***

HYMNS TO GANESHA – SRI MOOSHIKAVAHANA STOTRAM

१०. मूषिकवाहनस्तोत्रम्

                         
मूषिकवाहन मोदकहस्त चामरकर्ण विलंबित सूत्र ।
वामनरूप महेश्वरपुत्र विघ्नविनायक पादनमस्ते ॥ १ ॥
देवदेवसुतं देवं जगद्विघ्नविनायकम् ।
हस्तिरूपं महाकायं सूर्यकोटिसमप्रभम् ॥ २ ॥
वामनं जटिलं कांतं ह्रस्वग्रीवं महोदरम् ।
ताम्रसिंदूरयुग्गण्डं विकटं प्रकटोत्कटम् ॥ ३ ॥
एकदंतं प्रलंबोष्ठं नागयज्ञोपवीतिनम् ।
त्र्यक्षं गजमुखं कृष्णं सुकृतं रक्तवाससम् ॥ ४ ॥
दंतपाणिं च वरदं ब्रह्मण्यं ब्रह्मचारिणम् ।
पुण्यं गणपतिं दिव्यं विघ्नराजं नमाम्यहम् ॥ ५ ॥
देवं गणपतिं नाथं विश्वस्याग्रे तु गामिनम् ।
देवानामधिकं श्रेष्ठं नायकं सुविनायकम् ॥ ६ ॥
नमामि भगवन्तं तमद्भुतं गणनायकम् ।
वक्रतुंड प्रचंडाय उग्रतुंडाय ते नमः ॥ ७ ॥
चंडाय गुरुचंडाय चंडचंडाय ते नमः ।
मत्तोन्मत्तप्रमत्ताय नित्यमत्ताय ते नमः ॥ ८ ॥
उमासुतं नमस्यामि गंगापुत्राय ते नमः ।
ओंकाराय वषट्कारस्वाहाकाराय ते नमः ॥ ९ ॥
मंत्रमूर्ते महायोगिन् जातवेदो नमोनमः ।
परशुपाशकहस्ताय गजहस्ताय ते नमः ॥ १० ॥
मेघाय मेघवर्णाय मेघेश्वर नमोनमः ।
घोराय घोररूपाय घोरघोराय ते नमः ॥ ११ ॥
पुराणपूर्वपूज्याय पुरुषाय नमोनमः ।
मदोत्कट नमस्तेऽस्तु नमस्ते चंडविक्रम ॥ १२ ॥
विनायक नमस्तेऽस्तु नमस्ते भक्तवत्सल ।
भक्तप्रियाय शांताय महातेजस्विने नमः ॥ १३ ॥
यज्ञाय यज्ञहोत्रे च यज्ञेशाय नमोनमः ।
नमस्ते भस्मशुक्लांग शुक्लमाल्यधराय च ॥ १५ ॥
मदक्लिन्नकपोलाय गणाधिपतये नमः ।
आखुवाहन देवेश एकदंताय ते नमः ॥ १६ ॥
शूर्पकर्णाय शूराय दीर्घदन्ताय ते नमः ।
विघ्नं हरतु देवेशः शिवपुत्रो विनायकः ॥ १७ ॥
एतन्मूषिकवाहस्य स्तोत्रं संध्याद्वयं पठेत् ।
विप्रो भवति वेदाढ्यः क्षत्रियो विजयी भवेत् ॥ १८ ॥
वैश्यस्तु धनमाप्नोति शूद्रः पापैः प्रमुच्यते।
गर्भिणी जनयेत् पुत्रं कन्या भर्तारमाप्नुयात् ॥ १९ ॥
प्रवासी लभते स्थानं बद्धो बंधात् प्रमुच्यते
इष्टसिद्धिमवाप्नोति पुनात्यासप्तमं कुलम्
सर्वमंगलमांगल्यं सर्वपापप्रणाशनं
सर्वकामप्रदं पुण्यं पठतां शृण्वतामपि                                        ***              

HYMNS TO GANESHA – SRI GANESHASHTAKAM

९. श्रीगणेशाष्टकम्

       (पाद्मपुराणांतर्गतम् )
गणपति परिवारं चारुकेयूरहारं
गिरिधरवरसारं योगिनीचक्रचारम् ।
भवभयपरिहारं दुःखदारिद्‌र्य दूरं
गणपतिमभिवंदे वक्रतुण्डावतारम् ॥ १ ॥
अखिलमलविनाशं पाणिनाध्वस्तपाशं
कनकगिरिनिकाशं सूर्यकोटिप्रकाशम् ।
भवभयगिरिनाशं मालतीतीरवासं
गणपतिमभिवन्दे मानसे राजहंसम् ॥ २ ॥
विविधमणिमयूखैः शोभमानं विदूरैः
कनकरचित चित्रं कंठदेशे विचित्रम् ।
दधति विमल हारं सर्वदा यत्नसारं
गणपतिमभिवन्दे वक्रतुण्डावतारम् ॥ ३ ॥
दुरितगजममंदं वारुणीं चैव वेदं
विदितमखिलनादं नृत्यमानंदकंदम् ।
दधति शशिसुवक्त्रं चांकुशं यो विशेषं
गणपतिमभिवन्दे सर्वदानंदकंदम् ॥ ४ ॥
त्रिणयनयुतफाले शोभमाने विशाले
मकुटमणिसुडोले मौक्तिकानां च जाले ।
धवलकुसुममाले यस्य शीर्ष्णः सताले
गणपतिमभिवन्दे सर्वदाचक्रपाणिम् ॥ ५ ॥
वपुषि महति रूपं पीठमादौ सुदीपं
तदुपरि रसकोणं यस्यचोर्ध्वं त्रिकोणम् ।
गजमितदलपद्मं संस्थितं चारुछद्मं
गणपतिमभिवन्दे कल्पवृक्षस्य बृंदे ॥ ६ ॥
वरदविशदहस्तं दक्षिणं यस्य हस्तं
सदयमभयदं तं चिंतये चित्तसंस्थम् ।
शबलकुटिलशुण्डं चैकतुण्डं द्वितुण्डं
गणपतिमभिवन्दे सर्वदा वक्रतुण्डम् ॥ ७ ॥
कल्पद्रुमाधःस्थितकामधेनुं
चिंतामणिं दक्षिणपाणिशुण्डम् ।
बिभ्राणमत्यद्भुत चित्तरूपं
यः पूजयेत् तस्य समस्तसिद्धिः ॥ ८ ॥

HYMNS TO GANESHA – SRI SHODASHA MAHAGANAPATI STUTIMALA

८. श्रीषोडशमहागणपतिस्तुतिमाला

बालस्तरुणभक्तौ च वीरश्शक्तिध्वजस्तथा ।  
सिद्धिरुच्छिष्टविघ्नेशः क्षिप्राहेरंबनायकः ॥ १ ॥
लक्ष्मीगणो महाविघ्नो विजयः कल्पहस्तकः ।
ऊर्ध्वविघ्नेशपर्यन्ताः षोडशैते गणाधिपाः ॥ २ ॥
धर्ममर्थं च कामं च लभते यत्प्रसादतः ।
स्तोत्रं तद्विघ्नराजस्य कथ्यते षोडशात्मकम् ॥ ३ ॥
करस्थकदलीचूतपनसेक्षुकमोदकम् ।
बालसूर्यप्रभं देवं वन्दे बालगणाधिपम् ॥ ४ ॥
पाशांकुशापूपकपित्थजंबू-
फलं तिलान् वेणुमपि स्वहस्तैः ।
धत्ते सदा यस्तरुणारुणाभः
पायात् स युष्मान् तरुणो गणेशः ॥ ५ ॥
नालिकेराम्रकदलीगुडपायसधारिणम् ।
शरच्चंद्राभवपुषं भजे भक्तगणाधिपम् ॥ ६ ॥
वेतालशक्तिशरकार्मुकचर्मखड्ग-
खट्वांगमुद्गरगदांकुशनागपाशान् ।
शूलं च कुन्तपरशुध्वजमुद्वहन्तं
वीरं गणेशमरुणं सततं स्मरामि ॥ ७ ॥
आलिंग्य देवीं हरितां निषण्णं
परस्परस्पृष्टकटीनिवेशम् ।
संध्यारुणं पाशसृणीवहन्तं
भयापहं शक्तिगणेशमीडे ॥ ८ ॥
यः पुस्तकाक्षगुणदण्डकमण्डलुश्री-
निर्वर्त्यमान करभूषणमिन्दुवर्णम्
स्तंबेरमाननचतुष्टयशोभमानं
नित्यं स्मरेत् ध्वजगणाधिपतिं स धन्यः ॥ ९ ॥
पक्वचूतफलकल्पमंजरीं
इक्षुदण्डतिलमोदकैस्सह ।
उद्वहन् परशुहस्त ते नमः
श्रीसमृद्धियुत देव पिंगल ॥ १० ॥
नीलाब्जं दाडिमी वीणा शालीगुंजाक्षसूत्रकम् ।
दधदुच्छिष्टनामाऽयं गणेशः पातु मोक्षदः ॥ ११ ॥
पाशांकुशस्वदन्ताम्रफलवानाखुवाहनः ।
विघ्नं निहन्तु नस्सर्वं रक्तवर्णो विनायकः ॥ १२ ॥
दन्तकल्पलतापाश रत्नकुंभांकुशोज्वलम् ।
बंधूककमनीयाभं ध्यायेत् क्षिप्रगणाधिपम् ॥ १३ ॥
अभयवरदहस्तः पाशदन्ताक्षमालाः
सृणिपरशुदधानो मुद्गरं मोदकं च ।
फलमधिगतसिंहः पंचमातंगवक्त्रो
गणपतिरतिगौरः पातु हेरंबनामा ॥ १४ ॥
 
बिभ्राणश्शुकबीजपूरकमलं माणिक्यकुंभांकुशौ
पाशंकल्पलतां च खड्गविलसद्ज्योतिस्सुधानिर्मलः ।
श्यामेनात्तसरोरुहेणसहितो देवीद्वयेनान्तिके
गौरांगो वरदानहस्तकमलो लक्ष्मीगणेशोऽवतात् ॥ १५ ॥
कल्हारांबुज बीजपूरकगदा दंतेक्षुबाणैस्समं
बिभ्राणो मणिकुंभचापकलमान् पाशं च चक्रान्वितम् ।
गौरांग्या रुचिरारविंदकरया देव्या सदा संयुतः
शोणांगः शुभमातनोतु भगवान् नित्यं गणेशो महान् ॥ १६ ॥
शंखेक्षुचापकुसुमेषुकुठारपाश-
चक्रांकुशैः कलममंजरिकागदाद्यैः ।
पाणिस्थितैः परिसमाहित भूषणश्रीः
विघ्नेश्वरो विजयते तपनीयगौरः ॥ १७ ॥
पाशांकुशापूपकुठारदंत-
चंचत्कराकॢप्तवरांगुलीयकम् ।
पीतप्रभं कल्पतरोरधस्थं
भजामि नृत्तैकपदं गणेशम् ॥ १८ ॥
कल्हारशालिकमलेक्षुकचापबाण
दंतप्ररोहकगदी कनकोज्वलांगः।
आलिंगनोद्यतकरो हरितांगयष्ट्या
देव्या दिशत्वभयं ऊर्ध्वगणेश्वरो मे ॥ १९ ॥
इति विरचितं गणेशमूर्ति-
ध्यानपरं स्तवमागमार्थसारम् ।
पठति सततं गणेशभक्त्या
त्रिजगति तस्य न किंचिदप्यलभ्यम् ॥ २० ॥

HYMNS TO GANESHA – SANGKATANASHA GANESHAASHTAKAM

७. संकटनाशगणेशाष्टकम्

        (नारदपुराणांतर्गतं)
प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् ।
भक्तावासं स्मरेन्नित्यं आयुःकामार्थ सिद्धये ॥ १ ॥
प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् ।
तृतीयं कृष्णपिंगाक्षं गजवक्त्रं चतुर्थकम् ॥ २ ॥
लंबोदरं पञ्चमं च षष्ठं विकटमेव च ।
सप्तमं विघ्नराजं च धूम्रवर्णं तथाऽष्टमम् ॥ ३ ॥
नवमं फालचन्द्रं च दशमं तु विनायकम् ।
एकादशं गणपतिं द्वादशं तु गजाननम् ॥ ४ ॥
द्वादशैतानि नामानि त्रिसंध्यं यः पठेन्नरः।
न च विघ्नभयं तस्य सर्वसिद्धिकरं परम् ॥ ५ ॥
विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ।
पुत्रार्थी लभते पुत्रान् मोक्षार्थी मोक्षमाप्नुयात् ॥ ६ ॥
जपेत् गणपतिस्तोत्रं षण्मासात् स फलं भजेत् ।
संवत्सरेण सिद्धिं च लभते नात्र संशयः ॥ ७ ॥
अष्टानां ब्राह्मणानां च लिखित्वा यः समर्पयेत् ।
तस्य विद्या भवेत् सर्वा गणेशस्य प्रसादतः ॥ ८ ॥
                 ***

HYMNS TO GANESHA – SHRI GANAPATI SHODASHANAMA STOTRAM

६. श्रीगणपतिषोडशनामस्तोत्रम्

सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः ।
लम्बोदरश्च विकटो विघ्नराजो विनायकः ॥ १ ॥
धूमकेतुर्गणाध्यक्षः फालचंद्रो गजाननः ।
वक्रतुण्डः शूर्पकर्णो हेरंबः स्कंदपूर्वजः ॥ २ ॥
षोडशैतानि नामानि यः पठेत् शृणुयादपि ।
विद्यारंभे विवाहे च प्रवेशे निर्गमे तथा
संग्रामे सर्वकार्ये च विघ्नस्तस्य न जायते ॥ ३ ॥

HYMNS TO GANESHA – SRI MAHAGANESHA PANCHARATNA STOTRAM

५. श्रीमहागणेशपंचरत्नस्तोत्रम्

सरागलोकदुर्लभं विरागिलोकपूजितं
सुरासुरैर्नमस्कृतं जरापमृत्युनाशकम् ।
गिरागुरुं श्रियाहरिं जयन्ति यत्पदार्चकाः
नमामि तं गणाधिपं कृपापयःपयोनिधिम् ॥ १ ॥
गिरीन्द्रजामुखांबुज-प्रमोददान-भास्करं
करीन्द्रवक्त्र-मानताघसंघ-वारणोद्यतम् ।
सरीसृपेश-बद्धकुक्षि-माश्रयामि संततं
शरीरकान्ति-निर्जिताब्जबन्धु-बालसंततिम् ॥ २ ॥
शुकादिमौनिवन्दितं गकारवाच्यमक्षरं
प्रकाममिष्टदायिनं सकामनम्रपंक्तये ।
चकासतं चतुर्भुजैः विकासपद्म पूजितं
प्रकाशितात्मतत्वकं नमाम्यहं गणाधिपम् ॥ ३ ॥
नराधिपत्वदायकं स्वरादिलोकदायकं
ज्वरादिरोगवारकं निराकृतासुरव्रजम् ।
करांबुजोल्लसत्सृणिं विकारशून्यमानसैः
हृदा सदा विभावितं मुदा नमामि विघ्नपम् ॥ ४ ॥
श्रमापनोदनक्षमं समाहितान्तरात्मनां
सुमादिभिस्सदार्चितं क्षमानिधिं गणाधिपम् ।
रमाधवादिपूजितं यमान्तकात्मसंभवं
शमादिषड्गुणप्रदं नमामि तं विभूतये ॥ ५ ॥
गणाधिपस्य पंचकं नृणामभीष्टदायकं
प्रणामपूर्वकं जनाः पठन्ति ये मुदायुताः ।
भवन्ति ते विदांपुरः प्रगीतवैभवा जवात्
चिरायुषोऽधिकश्रियस्सुसूनवो न संशयः ॥ ६ ॥
              ***

HYMNS TO GANESHA – GANANAYAKA ASHTAKAM

४. गणनायकाष्टकम्

एकदन्तं महाकायं तप्तकांचनसन्निभम् ।
लंबोदरं विशालाक्षं वन्देऽहं गणनायकम् ॥ १ ॥
मौञ्जीकृष्णाजिनधरं नागयज्ञोपवीतिनम् ।
बालेन्दुविलसन्मौलिं वन्देऽहं गणनायकम् ॥ २ ॥
अम्बिकाहृदयानन्दं मातृभिः परिपालितम् ।
भक्तप्रियं मदोन्मत्तं वन्देऽहं गणनायकम् ॥ ३ ॥
चित्ररत्नविचित्रांगं चित्रमालाविभूषितम् ।
चित्ररूपधरं देवं वन्देऽहं गणनायकम् ॥ ४ ॥
गजवक्त्रं सुरश्रेष्ठं कर्णचामरभूषितम् ।
पाशांकुशधरं देवं वन्देऽहं गणनायकम् ॥ ५ ॥
मूषिकोत्तममारुह्य देवासुरमहाहवे ।
योद्धुकामं महावीर्यं वन्देऽहं गणनायकम् ॥ ६ ॥
यक्षकिन्नरगन्धर्व सिद्धविद्याधरैस्सदा ।
स्तूयमानं महात्मानं वन्देऽहं गणनायकम् ॥ ७ ॥
सर्वविघ्नकरं देवं सर्वविघ्नविवर्जितम् ।
सर्वसिद्धिप्रदातारं वन्देऽहं गणनायकम् ॥ ८ ॥
गणाष्टकमिदं पुण्यं भक्तितो यः पठेन्नरः ।
विमुक्तस्सर्वपापेभ्यो रुद्रलोकं स गच्छति ॥ ९ ॥
            ***

HYMNS TO GANESHA – GANESHA BHUJANGAM

      ३. गणेशभुजंगम्
  (श्री शंकराचार्यकृतम्)
रणत्क्षुद्रघण्टा निनादाभिरामं
चलत्ताण्डवोद्दण्डवत् पद्मतालम् ।
लसत्तुन्दिलांगोपरि व्यालहारं
गणाधीशमीशानसूनुं तमीडे ॥ १ ॥
ध्वनिध्वंसवीणालयोल्लासि वक्त्रं
स्फुरच्छुण्डदण्डोल्लसद् बीजपूरम् ।
गलद्दर्प सौगन्ध्य लोलालिमालं
गणाधीशमीशानसूनुं तमीडे ॥ २ ॥
प्रकाशज्जपारक्तरत्नप्रसून-
प्रवालप्रभातारुणज्योतिरेकम् ।
प्रलंबोदरं वक्रतुण्डैकदंतं
गणाधीशमीशानसूनुं तमीडे ॥ ३ ॥
विचित्रस्फुरद्रत्नमालाकिरीटं
किरीटोल्लसच्चंद्ररेखाविभूषम् ।
विभूषैकभूषं भवध्वंसहेतुं
गणाधीशमीशानसूनुं तमीडे ॥ ४ ॥
उदञ्चद्भुजावल्लरीदृश्यमूलो-
च्चलद्भ्रूलताविभ्रमभ्राजदक्षम् ।
मरुत्सुंदरीचामरैस्सेव्यमानं
गणाधीशमीशानसूनुं तमीडे ॥ ५ ॥
स्फुरन्निष्ठुरालोलपिंगाक्षितारं
कृपाकोमलोदारलीलावतारम् ।
कलाबिंदुगं गीयते योगिवर्यैः
गणाधीशमीशानसूनुं तमीडे ॥ ६ ॥
 
यमेकाक्षरं निर्मलं निर्विकल्पं
गुणातीतमानन्दमाकारशून्यम् ।
परंपारमोंकारमाम्नायगर्भं
वदन्ति प्रगल्भं पुराणं तमीडे ॥ ७ ॥
चिदानन्द सान्द्राय शान्ताय तुभ्यं
नमो विश्वकर्त्रे च हर्त्रे च तुभ्यम् ।
नमोऽनन्तलीलाय कैवल्यभासे
नमोविश्वबीज प्रसीदेशसूनो ॥ ८ ॥
इमं सुस्तवं प्रातरुत्थाय भक्त्या
पठेद्यस्तु मर्त्यो लभेत्सर्वकामान्
गणेशप्रसादेन सिद्ध्यन्ति वाचो
गणेशे विभौ दुर्लभं किं प्रसन्ने ॥ ९ ॥