NARAYANA STOTRAM

        नारायणस्तोत्रम्


नारायण नारायण जय गोविन्द हरे।
नारायण नारायण जय गोपाल हरे॥

करुणापारावार! वरुणालयगंभीर! – नारायण! 1
घननीरदसंकाश! कृतकलिकल्मषनाशन! –  नारायण! २
यमुनातीरविहार! धृतकौस्तुभमणिहार! – नारायण! ३
पीताम्बरपरिधान! सुरकल्याणनिधान!
– नारायण! ४
मञ्जुलगुञ्जाभूष! मायामानुषवेष! – नारायण! ५
राधाधरमधुरसिक! रजनिकरकुलतिलक! – नारायण! ६
मुरलीगानविनोद! वेदस्तुतिभूपाद! – नारायण! ७
बर्हिनिबर्हापीड! नटनाटकफणिक्रीड! – नारायण! ८
वारिजभूषाभरण! वारिजपुत्रीरमण! – नारायण! ९
जलरुहसन्निभनेत्र! जगदारंभकसूत्र! – नारायण! १०
पातकरजनीसंहार! करुणालय मामुद्धर – नारायण ११
अघबकक्षय कंसारे! केशव कृष्ण मुरारे! – नारायण! १२
हाटकनिभपीताम्बर! 
अभयं कुरु मे मावर! – नारायण! १३
दशरथराजकुमार! दानवमदसंहार! – नारायण! १४
गोवर्धनगिरिरमण! गोपीमानसहरण! – नारायण! १५
सरयूतीरविहार! सज्जनऋषिमन्दार! – नारायण! १६
विश्वामित्रमखत्र! विविधपरासुचरित्र! – नारायण! १७
ध्वजवज्राङ्कुशपाद!
धरणिसुतासहमोद! – नारायण! १८
जनकसुताप्रतिपाल! जयजयसंसृतिलील!
– नारायण! १९
दशरथवाग्धृतिभार! दण्डकवनसञ्चार!
– नारायण! २०
मुष्टिकचाणूरसंहार!
मुनिमानसविहार! – नारायण! २१
बालिविनिग्रहशौर्य!
वरसुग्रीवहितार्य! – नारायण! २२
मां मुरलीधरधीवर! पालय
पालय श्रीवर! – नारायण! २३
जलनिधिबन्धनधीर! रावणकण्ठविदार!
– नारायण! २४
ताटीमददलनाढ्य! नटगुणविधगानाढ्य!
– नारायण! २५
गौतमपत्नीपूजन! करुणाघनावलोकन!
– नारायण! २६
संभ्रमसीताहार! साकेतपुरविहार!
– नारायण! २७
अचलोद्धृतिचञ्चत्कर!
भक्तानुग्रहतत्पर! – नारायण २८
नैगमगानविनोद! रक्षःसुतप्रह्लाद!
– नारायण २९



HYMNS TO KRISHNA – GOVINDA DAMODARA STOTRAM

गोविन्ददामोदरस्तोत्रम्
 अग्रे कुरूणामथ पाण्डवानां दुःशासनेनाहृतवस्त्रकेशा ।
कृष्णा तदाक्रोशदनन्यनाथा गोविन्द
दामोदर माधवेति ॥ १ ॥
श्री कृष्ण विष्णो मधुकैटभारे
भक्तानुकम्पिन् भगवन् मुरारे ।
त्रायस्व मां केशव लोकनाथ गोविन्द
दामोदर माधवेति ॥ २ ॥
विक्रेतुकामाखिलगोपकन्या मुरारिपादार्पितचित्तवृत्तिः
दध्यादिकं मोहवशादवोचद् गोविन्द
दामोदर माधवेति ॥ ३ ॥
उलूखले संभृततण्डुलांश्च संघट्टयन्त्यो
मुसलैः प्रमुग्धाः ।
गायन्ति गोप्यो जनितानुरागा
गोविन्द दामोदर माधवेति ॥ ४ ॥
काचित्करांभोजपुटे निषण्णं
क्रीडाशुकं किंशुकरक्ततुण्डं ।
अध्यापयामास सरोरुहाक्षी गोविन्द
दामोदर माधवेति ॥ ५ ॥
गृहे गृहे गोपवधू समूहः प्रतिक्षणं
पिन्ञ्जरसारिकाणां ।
स्खलद्गिरं वाचयितुं प्रवृत्तो
गोविन्द दामोदर माधवेति ॥ ६ ॥
पर्यङ्किकाभाजमलं कुमारं प्रस्वापयन्त्योऽखिलगोपकन्याः
जगुः प्रबन्धं स्वरतालबन्धं
गोविन्द दामोदर माधवेति ॥ ७ ॥
रामानुजं वीक्षणकेलिलोलं गोपी
गृहीत्वा नवनीतगोलं ।
आबालकं बालकमाजुहाव गोविन्द
दामोदर माधवेति ॥ ८ ॥
विचित्रवर्णाभरणाभिरामेऽभिधेहि
वक्त्रांबुजराजहंसि ।
सदा मदीये रसनेऽग्ररङ्गे गोविन्द
दामोदर माधवेति ॥ ९ ॥
अङ्काधिरूढं शिशुगोपगूढं स्तनंधयन्तं
कमलैककान्तं ।
संबोधयामास मुदा यशोदा गोविन्द
दामोदर माधवेति ॥ १० ॥
क्रीडन्तमन्तर्व्रजमात्मजं
स्वं समं वयस्यैः पशुपालबालैः ।
प्रेम्णा यशोदा प्रजुहाव कृष्णं
गोविन्द दामोदर माधवेति ॥ ११ ॥
यशोदया गाढमुलूखलेन गोकण्ठपाशेन
निबध्यमानः ।
रुरोद मन्दं नवनीतभोजी गोविन्द
दामोदर माधवेति ॥ १२ ॥
निजाङ्गणे कङ्कणकेलिलोलं गोपी
गृहीत्वा नवनीतगोलं ।
आमर्दयत्पाणितलेन नेत्रे गोविन्द
दामोदर माधवेति ॥ १३ ॥
गृहे गृहे गोपवधूकदम्बाः सर्वे
मिलित्वा समवाययोगे ।
पुण्यानि नामानि पठन्ति नित्यं
गोविन्द दामोदर माधवेति ॥ १४ ॥
 
मन्दारमूले वदनाभिरामं बिम्बाधरापूरित
वेणुनादं ।
गोगोपगोपीजनमध्यसंस्थं गोविन्द
दामोदर माधवेति ॥ १५ ॥
उत्थाय गोप्योऽपररात्रभागे
स्मृत्वा यशोदासुतबालकेलिम् ।
गायन्ति प्रोच्चैर्दधि मन्थयन्त्यो
गोविन्द दामोदर माधवेति ॥ १६ ॥
जग्धोऽथ दत्तो नवनीतपिण्डो
गृहे यशोदा विचिक्त्सयन्ती ।
उवाच सत्यं वद हे मुरारे गोविन्द
दामोदर माधवेति ॥ १७ ॥
अभ्यर्च्य गेहं युवतिः प्रवृद्धप्रेमप्रवाहा
दधि निर्ममन्थ ।
गायन्ति गोप्योऽथ सखीसमेता
गोविन्द दामोदर माधवेति ॥ १८ ॥
क्वचित् प्रभाते दधिपूर्णपात्रे
निक्षिप्य मन्थं युवती मुकुन्दं ।
आलोक्य गानं विविधं करोति गोविन्द
दामोदर माधवेति ॥ १९ ॥
क्रीडापरं भोजनमज्जनार्थं हितैषिणी
स्त्री तनुजं यशोदा ।
आजूहवत् प्रेमपरिप्लुताक्षी
गोविन्द दामोदर माधवेति ॥ २० ॥
सुखं शयानं निलये च विष्णुं
देवर्षिमुख्या मुनयः प्रपन्नाः ।
तेनाच्युते तन्मयतां व्रजन्ति
गोविन्द दामोदर माधवेति ॥ २१ ॥
विहाय निद्रामरुणोदये च विधाय
कृत्यानि च विप्रमुख्याः ।
वेदावसाने प्रपठन्ति नित्यं
गोविन्द दामोदर माधवेति ॥ २२ ॥
वृन्दावने गोपगणाश्च गोप्यो
विलोक्य गोविन्द वियोगखिन्नाम् ।
राधां जगुः साश्रुविलोचनाभ्यां
गोविन्द दामोदर माधवेति ॥ २३ ॥
प्रभातसञ्चारगता नु गावस्तद्रक्षणार्थं
तनयं यशोदा ।
प्राबोधयत् पाणितलेन मन्दं
गोविन्द दामोदर माधवेति ॥ २४ ॥
प्रवालशोभा इव दीर्घकेशा वाताम्बुपर्णाशनपूतदेहाः
मूले तरूणां मुनयः पठन्ति गोविन्द
दामोदर माधवेति ॥ २५ ॥
एवं बृवाणा विरहातुरा भृशं
व्रजस्त्रियः कृष्णविषक्तमानसाः ।
विसृज्ज्य लज्जां रुरुदुः स्म
सुस्वरं गोविन्द दामोदर माधवेति ॥ २६ ॥
गोपी कदाचिन्मणिपिञ्जरस्थं
शुकं वचो वाचयितुं प्रवृत्ता ।
आनन्दकन्द व्रजचन्द्रकृष्ण
गोविन्द दामोदर माधवेति ॥ २७ ॥
गोवत्सबालैः शिशुकाकपक्षं बध्नन्तमम्भोजदलायताक्षम्
उवाच माता चिबुकं गृहीत्वा
गोविन्द दामोदर माधवेति ॥ २८ ॥
प्रभातकाले वरवल्लवौघा गोरक्षणार्थं
धृतवेत्रदण्डाः ।
आकारयामासुरनन्तमाद्यं गोविन्द
दामोदर माधवेति ॥ २९ ॥
लाशये कालियमर्दनाय यदा कदम्बादपतन्मुरारिः
गोपाङ्गनाश्चुक्रुशुरेत्य गोपा
गोविन्द दामोदर माधवेति ॥ ३० ॥
अक्रूरमासाद्य यदा मुकुन्दश्चापोत्सवार्थं
मथुरां प्रविष्टः ।
तदा स पौरैर्जयतीत्यभाषि गोविन्द
दामोदर माधवेति ॥ ३१ ॥
कंसस्य दूतेन यदैव नीतौ वृन्दावनान्ताद्वसुदेवसूनू ।
रुरोद गोपी भवनस्य मध्ये गोविन्द
दामोदर माधवेति ॥ ३२ ॥
सरोवरे कालियनागबद्धं शिशुं
यशोदातनयं निशम्य ।
चक्रुर्लुठन्त्यः पथि गोपबाला
गोविन्द दामोदर माधवेति ॥ ३३ ॥
अक्रूरयाने यदुवंशनाथं संगच्छमानं
मथुरां निरीक्ष्य ।
ऊचुर्वियोगात् किल गोपबाला
गोविन्द दामोदर माधवेति ॥ ३४ ॥
चक्रन्द गोपी नलिनीवनान्ते
कृष्णेन हीना कुसुमे शयाना ।
प्रफुल्लनीलोत्पललोचनाभ्यां
गोविन्द दामोदर माधवेति ॥ ३५ ॥
मातापितृभ्यां परिवार्यमाणा
गेहं प्रविष्टा विललाप गोपी ।
आगत्य मां पालय विश्वनाथ गोविन्द
दामोदर माधवेति ॥ ३६ ॥
वृन्दावनस्थं हरिमाशु बुद्ध्वा
गोपी गता कापि वनं निशायाम् ।
तत्राप्यदृष्ट्वातिभयादवोचद्गोविन्द दामोदर माधवेति ॥ ३७ ॥
सुखं शयाना निलये निजेऽपि नामानि
विष्णोः प्रवदन्ति मर्त्याः ।
ते निश्चितं तन्मयतां व्रजन्ति
गोविन्द दामोदर माधवेति ॥ ३८ ॥
सा नीरजाक्षीमवलोक्य राधां
रुरोद गोविन्दवियोगखिन्नाम् ।
सखी प्रफुल्लोत्पललोचनाभ्यां
गोविन्द दामोदर माधवेति ॥ ३९ ॥
जिह्वे रसज्ञे मधुरप्रिया त्वं
सत्यं हितं त्वां परमं वदामि ।
आवर्णयेथा मधुराक्षराणि गोविन्द
दामोदर माधवेति ॥ ४० ॥
आत्यन्तिकव्याधिहरं जनानां
चिकित्सकं वेदविदो वदन्ति ।
संसारतापत्रयनाशबीजं गोविन्द
दामोदर माधवेति ॥ ४१ ॥
ताताज्ञया गच्छति रामचन्द्रे
सलक्ष्मणेऽरण्यचये ससीते ।
चक्रन्द रामस्य निजा जनित्री
गोविन्द दामोदर माधवेति ॥ ४२ ॥
एकाकिनी दण्डककाननान्तात् सा
नीयमाना दशकन्धरेण ।
सीता तदाऽऽक्रन्ददनन्यनाथा गोविन्द
दामोदर माधवेति ॥ ४३ ॥
रामाद्वियुक्ता जनकात्मजा सा
विचिन्तयन्ती हृदि रामरूपम् ।
रुरोद सीता रघुनाथ पाहि गोविन्द
दामोदर माधवेति ॥ ४४ ॥
प्रसीद विष्णो रघुवंशनाथ सुरासुराणां
सुखदुःखहेतो ।
रुरोद सीता तु समुद्रमध्ये
गोविन्द दामोदर माधवेति ॥ ४५ ॥
अन्तर्जले ग्राहगृहीतपादो विसृष्टविक्लिष्ट
समस्तबन्धुः ।
तदा गजेन्द्रो नितरां जगाद
गोविन्द दामोदर माधवेति ॥ ४६ ॥
हंसध्वजः शङ्खयुतो ददर्श पुत्रं
कटाहे प्रपतन्तमेनं ।
पुण्यानि नामानि हरेर्जपन्तं
गोविन्द दामोदर माधवेति ॥ ४७ ॥
दुर्वाससो वाक्यमुपेत्य कृष्णा
साचाब्रवीत् काननवासिनीशम् ।
अन्तःप्रविष्टं मनसाऽऽजुहाव गोविन्द
दामोदर माधवेति ॥ ४८ ॥
ध्येयः सदा योगिभिरप्रमेयश्चिन्ताहरश्चिन्तितपारिजातः
कस्तूरिकाकल्पितनीलवर्णो गोविन्द
दामोदर माधवेति ॥ ४९ ॥
संसारकूपे पतितोऽत्यगाधे मोहान्धपूर्णे
विषयाभितप्ते ।
करावलंबं मम देहि विष्णो गोविन्द
दामोदर माधवेति ॥ ५० ॥
त्वामेव याचे मम देहि जिह्वे
समागते दण्डधरे कृतान्ते ।
वक्तव्यमेवं मधुरं सुभक्त्या
गोविन्द दामोदर माधवेति ॥ ५१ ॥
भजस्व मन्त्रं भवबन्धमुक्त्यै
जिह्वे रसज्ञे सुलभं मनोज्ञं ।
द्वैपायनाद्यैर्मुनिभिः प्रजप्तं
गोविन्द दामोदर माधवेति ॥ ५२ ॥
गोपाल वंशीधर रूपसिन्धो लोकेश
नारायण दीनबन्धो ।
उच्चस्वरैस्त्वं वद सर्वदैव
गोविन्द दामोदर माधवेति ॥ ५३ ॥
जिह्वे सदैवं भज सुन्दराणि
नामानि कृष्णस्य मनोहराणि ।
समस्तभक्तार्तिविनाशनानि गोविन्द
दामोदर माधवेति ॥ ५४ ॥
गोविन्द गोविन्द हरे मुरारे
गोविन्द गोविन्द मुकुन्द कृष्ण ।
गोविन्द गोविन्द रथाङ्गपाणे
गोविन्द दामोदर माधवेति ॥ ५५ ॥
सुखावसाने त्विदमेव सारं दुःखावसाने
त्विदमेव गेयं ।
देहावसाने त्विदमेव जाप्यं
गोविन्द दामोदर माधवेति ॥ ५६ ॥
दुर्वारवाक्यं परिगृह्य कृष्णा
मृगीव भीता तु कथं कथञ्चित् ।
सभां प्रविष्टा मनसाऽऽजुहाव गोविन्द
दामोदर माधवेति ॥ ५७ ॥
 
श्रीकृष्ण राधावर गोकुलेश गोपाल
गोवर्धननाथ विष्णो ।
जिह्वे पिबस्वामृतमेतदेव गोविन्द
दामोदर माधवेति ॥ ५८ ॥
श्रीनाथ विश्वेश्वर विश्वमूर्ते
श्रीदेवकीनन्दन दैत्यशत्रो ।
जिह्वे पिबस्वामृतमेतदेव गोविन्द
दामोदर माधवेति ॥ ५९ ॥
गोपीपते कंसरिपो मुकुन्द लक्ष्मीपते
केशव वासुदेव ।
जिह्वे पिबस्वामृतमेतदेव गोविन्द
दामोदर माधवेति ॥ ६० ॥
गोपीजनाह्लादकर व्रजेश गोचारणारण्यकृतप्रवेश
जिह्वे पिबस्वामृतमेतदेव गोविन्द
दामोदर माधवेति ॥ ६१ ॥
प्राणेश विश्वंभर कैटभारे वैकुण्ठ
नरायण चक्रपाणे ।
जिह्वे पिबस्वामृतमेतदेव गोविन्द
दामोदर माधवेति ॥ ६२ ॥
हरे मुरारे मधुसूदनाद्य श्रीराम
सीतावर रावणारे ।
जिह्वे पिबस्वामृतमेतदेव गोविन्द
दामोदर माधवेति ॥ ६३ ॥
श्रीयादवेन्द्राद्रिधराम्बुजाक्ष
गोगोपगोपीसुखदानदक्ष ।
जिह्वे पिबस्वामृतमेतदेव गोविन्द
दामोदर माधवेति ॥ ६४ ॥
धराभरोत्तारणगोपवेष विहारलीलाकृतबन्धुशेष
जिह्वे पिबस्वामृतमेतदेव गोविन्द
दामोदर माधवेति ॥ ६५ ॥
बकीबकाघासुरधेनुकारे केशीतृणावर्तविघातदक्ष
जिह्वे पिबस्वामृतमेतदेव गोविन्द
दामोदर माधवेति ॥ ६६ ॥
श्रीजानकीजीवन रामचन्द्र निशाचरारे
भरताग्रजेश ।
जिह्वे पिबस्वामृतमेतदेव गोविन्द
दामोदर माधवेति ॥ ६७ ॥
नारायणानन्त हरे नृसिंह प्रह्लादबाधाहर
हे कृपालो ।
जिह्वे पिबस्वामृतमेतदेव गोविन्द
दामोदर माधवेति ॥ ६८ ॥
लीलामनुष्याकृतिरामरूप प्रतापदासीकृतसर्वभूप
जिह्वे पिबस्वामृतमेतदेव गोविन्द
दामोदर माधवेति ॥ ६९ ॥
श्रीकृष्ण गोविन्द हरे मुरारे
हे नाथ नारायण वासुदेव ।
जिह्वे पिबस्वामृतमेतदेव गोविन्द
दामोदर माधवेति ॥ ७० ॥

वक्तुं समर्थोऽपि न वक्ति कश्चिदहो
जनानां व्यसनाभिमुख्यम् ।
जिह्वे पिबस्वामृतमेतदेव गोविन्द
दामोदर माधवेति ॥ ७१ ॥
                     
Go to Table of Contents/Master index of Postsprramamurthy1931.blogspot.in/krishna01

HYMNS TO SRIMATA – SRI BHAVANI ASHTAKAM

२. श्रीभवान्यष्टकम्
न तातो न माता न बन्धुर्न दाता
न पुत्रो न पुत्री न भृत्यो न भर्ता ।
न जाया न विद्या न वृत्तिर्ममैव
गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥ १ ॥
भवाब्धावपारे महादुःखभीरुः
पपात प्रकामी प्रलोभी प्रमत्तः ।
कुसंसारपाशप्रबद्धः सदाहम्
गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥ २ ॥
न जानामि दानं न च ध्यानयोगं
न जानामि तन्त्रं न च स्तोत्रमन्त्रम् ।
न जानामि पूजां न च न्यासयोगं
गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥ ३ ॥
न जानामि पुण्यं न जानामि तीर्थं
न जानामि मुक्तिं लयं वा कदाचित् ।
न जानामि भक्तिं व्रतं वापि मातः
गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥ ४ ॥
कुकर्मी कुसङ्गी कुबुद्धिः कुदासः
कुलाचारहीनः कदाचारलीनः ।
कुदृष्टिः कुवाक्यप्रबन्धः सदाहं
गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥ ५ ॥
प्रजेशं रमेशं महेशं सुरेशं
दिनेशं निशीथेश्वरं वा कदाचित् ।
न जानामि चान्यत् सदाहं शरण्ये
गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥ ६ ॥
विवादे विषादे प्रमादे प्रवासे
जले चानले पर्वते शत्रुमध्ये ।
अरण्ये शरण्ये सदा मां प्रपाहि
गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥ ७ ॥
अनाथो दरिद्रो जरारोगयुक्तो
महाक्षीणदीनः सदा जाड्यवक्त्रः ।
विपत्तौ प्रविष्टः प्रणष्टः सदाहं
गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥ ८ ॥

***
Click here for an audio rendering of this stotra


HYMNS TO SRIMATA – SRI LALITA PANCHARATNA STOTRAM

१. श्रीललितापञ्चरत्नम्
  ( श्री शंकराचार्यकृतम्)
प्रातः स्मरामि ललितावदनारविन्दं
बिम्बाधरं पृथुलमौक्तिकशोभिनासम् ।
आकर्णदीर्घनयनं मणिकुण्डलाढ्यं
मन्दस्मितं मृगमदोज्ज्वलभालदेशम् ॥ १ ॥
प्रातर्भजामि ललिताभुजकल्पवल्लीं
रत्नाङ्गुलीयलसदङ्गुळिपल्लवाढ्याम् ।
माणिक्यहेमवलयाङ्गदशोभमानां
पुण्ड्रेक्षुचापकुसुमेषुसृणीदधानाम् ॥ २ ॥
प्रातर्नमामि ललिताचरणारविन्दं
भक्तेष्टदाननिरतं भवसिन्धुपोतम् ।
पद्मासनादि सुरनायकपूजनीयं
पद्माङ्कुशध्वजसुदर्शनलाञ्छनाढ्यम् ॥ ३ ॥
प्रातः स्तुवे परशिवां ललितां भवानीं
त्रय्यन्तवेद्यविभवां करुणानवद्याम् ।
विश्वस्य सृष्टिविलयस्थितिहेतुभूतां
विश्वेश्वरीं निगमवाङ्मनसातिदूराम् ॥ ४ ॥
प्रातर्वदामि ललिते तव पुण्यनाम
कामेश्वरीति कमलेति महेश्वरीति ।
श्रीशांभवीति जगतां जननी परेति
वाग्देवतेति वचसा त्रिपुरेश्वरीति ॥ ५ ॥
यः श्लोकपञ्चकमिदं ललिताम्बिकायाः
सौभाग्यदं सुललितं पठति प्रभाते ।
तस्मै ददाति ललिता झटिति प्रसन्ना
विद्यां श्रियं विमलसौख्यमनन्तकीर्तिम् ॥ ६ ॥

              ***

HYMNS TO SRIMATA – BHAVANI BHUJANGAM

भवानीभुजङ्गम्
 
षडाधारपङ्केरुहान्तर्विराजत्
सुषुम्नान्तरालेऽतितेजोल्लसन्तीम् ।
सुधामण्डलं द्रावयन्तीं पिबन्तीं
सुधामूर्तिमीडे चिदानन्दरूपाम् ॥ १ ॥
ज्वलत्कोटिबालार्कभासारुणांगीं
सलावण्यशृंगारशोभाभिरामाम् ।
महापद्मकिञ्जल्कमध्येविराजत्
त्रिकोणे निषण्णां भजे श्रीभवानीम् ॥ २ ॥
क्वणत्किङ्किणीनूपुरोद्भासिरत्न-
प्रभालीढलाक्षार्द्रपादाब्जयुग्मम् ।
अजेशाच्युताद्यैः सुरैः सेव्यमानं
महादेवि मन्मूर्ध्नि ते भावयामि ॥ ३ ॥
सुशोणाम्बराबद्धनीवीविराज-
न्महारत्नकाञ्चीकलापं नितम्बम् ।
स्फुरद्दक्षिणावर्तनाभिं च तिस्रो
वलीरम्ब ते रोमराजीं भजेऽहम् ॥ ४ ॥
लसद्वृत्तमुत्तुङ्गमाणिक्यकुंभो-
पमश्री स्तनद्वन्द्वमम्बाम्बुजाक्षि ।
भजे दुग्धपूर्णाभिरामं तवेदं
महाहारदीप्तं सदा प्रस्नुतास्यम् ॥ ५ ॥
शिरीषप्रसूनोल्लसद्बाहुदण्डै-
र्ज्वलद्बाणकोदण्डपाशाङ्कुशैश्च ।
चलत्कङ्कणोदारकेयूरभूषो-
ज्ज्वलद्भिर्लसन्तीं भजे श्रीभवानीम् ॥ ६ ॥
शरत्पूर्णचन्द्रप्रभापूर्णबिम्बा-
धरस्मेरवक्त्रारविन्दां सुशान्ताम् ।
सुरत्नावलीहारताटङ्कशोभां
महासुप्रसन्नां भजे श्रीभवानीम् ॥ ७ ॥
सुनासापुटं सुन्दरभ्रूललाटं
तवौष्ठश्रियं दानदक्षं कटाक्षम् ।
ललाटे लसद्गन्धकस्तूरिभूषं
स्फुरच्छ्रीमुखाम्भोजमीड्येऽहमम्ब ॥ ८ ॥
चलत्कुन्तलान्तर्भ्रमद्भृङ्गवृन्दं
घनस्निग्द्धधम्मिल्लभूषोज्ज्वलं ते ।
स्फुरन्मौलिमाणिक्यबद्धेन्दुरेखा-
विलासोल्लसद्दिव्यमूर्धानमीडे ॥ ९ ॥
इति श्रीभवानी स्वरूपं तवेदं
प्रपञ्चात्परं चातिसूक्ष्मं प्रसन्नम् ।
स्फुरत्वम्ब डिंभस्य मे हृत्सरोजे
सदा वाङ्मयं सर्वतेजोमयं च ॥ १० ॥
गणेशाभिमुख्याखिलैः शक्तिवृन्दैर्-
वृतां वै स्फुरच्चक्रराजोल्लसन्तीम् ।
परां राजराजेश्वरि त्रैपुरि त्वां
शिवाङ्कोपरिस्थां शिवां भावयामि ॥ ११ ॥
त्वमर्कस्त्वमिन्दुस्त्वमग्निस्त्वमाप-
स्त्वमाकाशभूवायवस्त्वं महत्त्वम् ।
त्वदन्यो न कश्चित्प्रपञ्चेऽस्ति सर्वं
त्वामानन्दसंवित्स्वरूपां भजेऽहम् ॥ १२ ॥
श्रुतीनामगम्ये सुवेदागमज्ञा
महिम्नो न जानन्ति पारं तवाम्ब ।
स्तुतिं कर्तुमिच्छामि ते त्वं भवानि
क्षमस्वेदमत्र प्रमुग्द्धः किलाहम् ॥ १३ ॥
गुरुस्त्वं शिवस्त्वं च शक्तिस्त्वमेव
त्वमेवासि माता पिता च त्वमेव ।
त्वमेवासि विद्या त्वमेवासि बन्धुर्-
गतिर्मे मतिर्देवि सर्वं त्वमेव ॥ १४ ॥
इतीमां महच्छ्रीभवानीभुजंग-
स्तुतिं यः पठेद्भक्तियुक्तश्च तस्मै ।
स्वकीयं पदं शाश्वतं वेदसारं
श्रियं चाष्टसिद्धिं भवानी ददाति ॥ १५ ॥
भवानी भवानी भवानी त्रिवार-
मुदारं मुदा सर्वदा ये जपन्ति ।
न शोकं न मोहं न पापं न भीतिः
कदाचित् कथंचित् कुतश्चिज्जनानाम् ॥ १६ ॥

                   ***

 Click here for sri Ramachander’s English translation

Click here for an audio rendering of this stotram

HYMNS TO SRIMATA – SRI AMBASHTAKAM

     ८. श्री अम्बाष्टकम्
       ( श्री शंकराचार्यकृतम्)
 चाञ्चल्यारुणलोचनाञ्चितकृपां चन्द्रार्धचूडामणिं
चारुस्मेरमुखां चराचरजगत्संरक्षणे तत्पराम् ।
चञ्चच्चम्पकनासिकाग्रविलसन्मुक्तामणीरञ्जितां
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ १ ॥
कस्तूरीतिलकाञ्चितेन्दुविलसत्प्रोद्भासिफालस्थलीं
कर्पूरद्रवमिश्रचूर्णखदिरामोदोल्लसद्वीटिकाम् ।
लोलापाङ्गतरङ्गितैरधिकृपासारैर्नतानन्दिनीं
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ २ ॥
राजन्मत्तमरालमन्दगमनां राजीवपत्रेक्षणां
राजीवप्रभवादिदेवमकुटाराजत्पदांभोरुहाम् ।
राजीवायतपत्रमण्डितकुचां राजाधिराजेश्वरीं
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ३ ॥
षट्कोणाङ्गणदीपिकां शिवसतीं षड्वैरिवर्गापाहां
षट्चक्रान्तरसंस्थितां वरसुतां षड्योगिनीवेष्टिताम् ।
षट्चक्राञ्चितपादुकाञ्चितपदां षड्भावगां षोडशीं
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ४ ॥
श्रीनाथाकृतिपालितत्रिभुवनां श्रीचक्रसञ्चारिणीं
ज्ञानासक्तमनोजयौवनलसत् गन्धर्वकन्यावृताम् ।
दीनानामतिवेलभाग्यकलनीं दिव्याम्बरालङ्कृतां
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ५ ॥
लावण्याधिकभूषिताङ्गलतिकां लाक्षारसद्राविणीं
सेवायातसमस्तदेववनितां सीमन्तभूषान्विताम् ।
भावोल्लासवशीकृतप्रियतमां भण्डासुरच्छेदिनीम्
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ६ ॥
धन्यां सोमविभावनीयचरितां धाराधरश्यामलां
मान्याराधनमेदिनीं सुमनसां मुक्तिप्रदानव्रताम् ।
कन्यापूजनसुप्रसन्नहृदयां काञ्चीलसन्मध्यमां
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ७ ॥
कर्पूरागरुकुङ्कुमाङ्कितकुचां कर्पूरवर्णस्थितां
कृष्टोत्कृष्टसुकृष्टकर्मदहनां कामेश्वरीं कामिनीम् ।
कामाक्षीं करुणारसार्द्रहृदयां कल्पान्तरस्थायिनीं
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ८ ॥
गायत्रीं गरुडध्वजां गगनगां गान्धर्वगानप्रियां
गंभीरां गजगामिनीं गिरिसुतां गन्धाक्षतालंकृताम् ।
गंगागौतमगर्गसन्नुतपदां गां गौतमीं गोमतीं
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ९ ॥

                      ***

HYMNS TO SRIMATA -KALYANAVRISHTI STAVAM

कल्याणवृष्टिस्तवः
     (श्री शंकराचार्यकृतं) 
 
कल्याणवृष्टिभिरिवामृतपूरिताभिः
लक्ष्मीस्वयंवरण मंगलदीपिकाभिः ।
सेवाभिरम्ब तव पादसरोजमूले
नाकारि किं मनसि भाग्यवतां जनानाम् ॥ १ ॥
एतावदेव जननि स्पृहणीयमास्ते
त्वद्वन्दनेषु सलिलस्थगिते च नेत्रे ।
सान्निध्यमुद्यदरुणायुतसोदरस्य
त्वद्विग्रहस्य परया सुधयाऽऽप्लुतस्य ॥ २ ॥
ईशत्वनामकलुषाः कति वा न सन्ति
ब्रह्मादयः प्रतिभवं प्रलयाभिभूताः ।
एकः स एव जननि स्थिरसिद्धिरास्ते
यः पादयोस्तव सकृत्प्रणतिं करोति ॥ ३ ॥
लब्ध्वा सकृत् त्रिपुरसुन्दरि तावकीनं
कारुण्यकन्दलितकान्तिभरं कटाक्षम् ।
कन्दर्पकोटिसुभगास्त्वयि भक्तिभाजः
सम्मोहयन्ति तरुणीर्भुवनत्रयेऽपि ॥ ४ ॥
ह्रींकारमेव तव नाम गृणन्ति वेदाः
मातस्त्रिकोणनिलये त्रिपुरे त्रिनेत्रे ।
त्वत्संस्मृतौ यमभटाभिभवं विहाय
दीव्यन्ति नन्दनवने सह लोकपालैः ॥ ५ ॥
हन्तुः पुरमधिगलं परिपीयमानः
क्रूरः कथं न भविता गरलस्य वेगः ।
नाश्वासनाय यदि मातरिदं तवार्धं
देहस्य शश्वदमृताप्लुतशीतलस्य ॥ ६ ॥
सर्वज्ञतां सदसि वाक्पटुतां प्रसूते
देवि त्वदङ्घ्रिसरसीरुहयोः प्रणामः ।
किं च स्फुरन्मकुटमुज्ज्वलमातपत्रं
द्वे चामरे च महतीं वसुधां ददाति ॥ ७ ॥
कल्पद्रुमैरभिमतप्रतिपादनेषु
कारुण्यवारिधिभिरम्ब भवत्कटाक्षैः ।
आलोकय त्रिपुरसुन्दरि ममनाथम्
त्वय्येव भक्तिभरितं त्वयि बद्धतृष्णम् ॥ ८ ॥
हन्तेतरेष्वपि मनांसि निधाय चान्ये
भक्तिं वहन्ति किल पामरदैवतेषु ।
त्वामेव देवि मनसा समनुस्मरामि
त्वामॆव नौमि शरणं जननि त्वमेव ॥ ९ ॥
लक्ष्येषु सत्स्वपि कटाक्षनिरीक्षणानां
आलोकय त्रिपुरसुन्दरि मां कदाचित् ।
नूनं मया तु सदृशः करुणैकपात्रं
जातो जनिष्यति जनो न च जायते  वा ॥ १० ॥
ह्रीं ह्रीमिति प्रतिदिनं जपतां तवाख्यां
किं नाम दुर्लभमिह त्रिपुराधिवासे ।
मालाकिरीटमदवारणमाननीया
तान् सेवते वसुमती स्वयमेव लक्ष्मीः ॥ ११ ॥
संपत्कराणि सकलेन्द्रियनन्दनानि
साम्राज्यदाननिरतानि सरोरुहाक्षि ।
त्वद्वन्दनानि दुरिताहरणोद्यतानि
मामेव मातरनिशं कलयन्तु नान्यम् ॥ १२ ॥
कल्पोपसंहृतिषु कल्पितताण्डवस्य
देवस्य खन्डपरशोः परभैरवस्य ।
पाशाङ्कुशैक्षवशरासनपुष्पबाणा
सा साक्षिणी विजयते तव मूर्तिरेका ॥ १३ ॥
लग्नं सदा भवतु मातरिदं तवार्धं
तेजः परं बहुलकुङ्कुमपङ्कशोणम् ।
भास्वत्किरीटममृतांशुकलावतंसं
मधे त्रिकोणनिलयं परमामृतार्द्रम् ॥ १४ ॥
ह्रींकारमेव तव नाम तदेव रूपं
त्वन्नाम दुर्लभमिह  त्रिपुरे गृणन्ति ।
त्वत्तेजसा परिणतं वियदादिभूतं
सौख्यं तनोति सरसीरुहसंभवादेः ॥ १५ ॥
ह्रींकारत्रयसंपुटेन महता मन्त्रेण संदीपितं
स्तोत्रं यः प्रतिवासरं तव पुरो मातर्जपेन्मन्त्रवित् ।
तस्य क्षोणिभुजॊ भवन्ति वशगा लक्ष्मीश्चिरस्थायिनी

वाणी निर्मलसूक्तिभारभरिता जागर्ति दीर्घं वयः ॥ १६ ॥                ***

HYMNS TO SRIMATA – TRIPURASUNDARI ASHTAKAM

६.  त्रिपुरसुन्दर्यष्टकम्
        (श्री शंकराचार्यकृतं)
कदम्बवनचारिणीं मुनिकदम्बकादम्बिनीं 
नितम्बजितभूधरां सुरनितम्बिनीसेविताम् ।
नवाम्बुरुहलोचनामभिनवाम्बुदश्यामलां
त्रिलोचनकुटुम्बिनीं त्रिपुरसुन्दरीमाश्रये ॥ १ ॥
कदम्बवनवासिनीं कनकवल्ल्कीधारिणीं
महार्हमणिहारिणीं मुखसमुल्लसद्वारुणीम् ।
दयाविभवकारिणीं विशदरोचनाचारिणीं
त्रिलोचनकुटुम्बिनीं त्रिपुरसुन्दरीमाश्रये ॥ २ ॥
कदम्बवनशालया कुचभरोल्लसन्मालया
कुचोपमितशैलया गुरुकृपालसद्वेलया ।
मदारुणकपोलया मधुरगीतवाचालया
कयापि घननीलया कवचिता वयं लीलया ॥ ३ ॥
कदम्बवनमध्यगां कनकमण्डलोपस्थितां
षडम्बुरुहवासिनीं सततसिद्धसौदामिनीम् ।
विडम्बितजपारुचिं विकचचन्द्रचूडामणिं
त्रिलोचनकुटुम्बिनीं त्रिपुरसुन्दरीमाश्रये ॥ ४ ॥
कुचाञ्चितविपञ्चिकां कुटिलकुन्तलालंकृतां
कुशेशयनिवासिनीं  कुटिलचित्तविद्वेषिणीम् ।
मदारुणविलोचनां मनसिजारिसम्मोहिनीं
मतङ्गमुनिकन्यकां मधुरभाषिणीमाश्रये ॥ ५ ॥
स्मरेत्प्रथमपुष्पिणीं  रुधिरबिन्दुनीलाम्बरां
गृहीतमधुपात्रिकां मदविघूर्णनेत्राञ्चलाम् ।
घनस्तनभरोन्नतां गलितचूलिकां श्यामलां
त्रिलोचनकुटुम्बिनीं  त्रिपुरसुन्दरीमाश्रये ॥ ६ ॥
सकुङ्कुमविलेपनामलकचुम्बिकस्तूरिकां
समन्दहसितेक्षणां सशरचापपाशाङ्कुशाम् ।
अशेषजनमोहिनीमरुणमाल्यभूषांबरां
जपाकुसुमभासुरां जपविधौ स्मराम्यम्बिकाम् ॥ ७ ॥
पुरन्दरपुरन्ध्रिकाचिकुरबन्धसैरन्ध्रिकां
पितामहपतिव्रतापटुपटीरचर्चारताम् ।
मुकुन्दरमणीमणीलसदलङ्क्रियाकारिणीं
भजामि भुवनाम्बिकां सुरवधूटिकाचेटिकाम् ॥ ८ ॥

      

               ***

HYMNS TO SRIMATA – DEVI APARADHA KSHAMAPANA STOTRAM

५. देव्यपराधक्षमापनस्तोत्रम्
            (श्री शंकराचार्यकृतं)
न मन्त्रं नो यन्त्रं तदपि च न जाने स्तुतिमहो
न चाह्वानं ध्यानं तदपि च न जाने स्तुतिकथाः ।
न जाने मुद्रास्ते तदपि न जाने विलपनं
परं जाने मातस्त्वदनुसरणं क्लेशहरणम् ॥ १ ॥
विधेरज्ञानेन द्रविणविरहेणालसतया
विधेयाशक्यत्वात्तव चरणयोर्या च्युतिरभूत् ।
तदेतत्क्षन्तव्यं जननि सकलोद्धारिणि शिवे
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥ २ ॥
पृथिव्यां पुत्रास्ते जननि बहवस्सन्ति सरलाः
परं तेषां मधे विरलतरलोऽहं तव सुतः ।
मदीयोऽयं त्यागः समुचितमिदं नो तव शिवे
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥ ३ ॥
जगन्मातर्मातस्तवचरणसेवा न रचिता
न वा दत्तं दॆवि द्रविणमपि भूयस्तव मया ।
तथापि त्वं स्नेहं मयि निरुपमं यत्प्रकुरुषे
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥ ४ ॥
परित्यक्ता देवाः विविधविधिसेवाकुलतया
मया पञ्चाशीतेरधिकमपनीते तु वयसि ।
इदानीं चेन्मातस्तव यदि कृपा नापि भविता
निरालम्बॊ लम्बोदरजननि कं यामि शरणम् ॥ ५ ॥
श्वपाको जल्पाको भवति मधुपाकोपमगिरा
निरातङ्को रङ्को विहरति चिरं कोटिकनकैः ।
तवापर्णॆ कर्णे विशति मनुवर्णे फलमिदं
जनः को जानीते जननि जपनीयं जपविधौ ॥ ६ ॥
चिताभस्मालेपो गरलमशनं दिक्पटधरो
जटाधारी कण्ठे भुजगपतिहारी पशुपतिः ।
कपाली भूतेशो भजति जगदीशैकपदवीं
भवानि त्वत्पाणिग्रहणपरिपाटीफलमिदम् ॥ ७ ॥
न मोक्षस्याकाङ्क्षा भवविभववाञ्छापि च न मे
न विज्ञानापेक्षा शशिमुखि सुखेच्छापि न पुनः ।
अतस्त्वां संयाचे जननि जननं यातु मम वै
मृडानी रुद्राणी शिव शिव भवानीति जपतः ॥ ८ ॥
नाराधितासि विधिना विविधोपचारैः
किं रूक्षचिन्तनपरैर्न कृतं वचोभिः ।
श्यामे त्वमेव यदि किञ्चन मय्यनाथे
धत्से कृपामुचितमम्ब परं तवैव ॥ ९ ॥
आपत्सुमग्नः स्मरणं त्वदीयं
करोमि दुर्गे करुणार्णवेशि ।
नैतच्छठत्वं मम भावयेथाः
क्षुधातृषार्ताः जननीं स्मरन्ति ॥ १० ॥
जगदंब विचित्रमत्र किं परिपूर्णा करुणास्ति चेन्मयि ।
अपराधपरम्परावृतं नहि माता समुपेक्षते सुतम् ॥ ११ ॥
मत्समः पातकी नास्ति पापघ्नी त्वत्समा न हि ।
एवं ज्ञात्वा महादेवि यथा योग्यं तथा कुरु ॥ १२ ॥

              

HYMNS TO SRIMATA – ANANDALAHARI

         ४. आनन्दलहरी
    (श्री शंकराचार्यकृतं)
भवानि स्तोतुं त्वां प्रभवति चतुर्भिर्न वदनैः
प्रजानामीशानः त्रिपुरमथनः पञ्चभिरपि ।
न षड्भिः सेनानीः दशशतमुखैरप्यहिपतिः  
तदान्येषां केषां कथय कथमस्मिन्नवसरः ॥ १ ॥
घृतक्षीरद्राक्षामधुमधुरिमा कैरपिपदैः
विशिष्यानाख्येयो भवति रसनामात्रविषयः ।
तथा ते सौन्दर्यं परमशिवदृङ्मात्रविषयः
कथङ्कारं ब्रूमः सकलनिगमागोचरगुणे ॥ २ ॥
 
मुखे ते ताम्बूलं नयनयुगले कज्जलकला
ललाटे काश्मीरं विलसति गले मौक्तिकलता ।
स्फुरत् काञ्ची शाटी पृथुकटितटॆ हाटकमयी
भजामि त्वां गौरीं नगपतिकिशोरीमविरतं ॥ ३ ॥
विराजन्मन्दारद्रुमकुसुमहारस्तनतटी
नदद्वीणानादश्रवणविलसत्कुण्डलगुणा ।
नताङ्गी मातङ्गी रुचिरगतिभङ्गी भगवती
सती शंभॊरंभॊरुहचटुलचक्षुर्विजयते ॥ ४ ॥
नवीनार्कभ्राजन्मणिकनकभूषापरिकरैः
वृताङ्गी सारङ्गी रुचिरनयनाङ्गीकृतशिवा ।
तडित्पीता पीताम्बरललितमञ्जीरसुभगा
ममापर्णा पूर्णा निरवधिसुखैरस्तु सुमुखी ॥ ५ ॥
हिमाद्रे संभूता सुललितकरैः पल्लवयुता
सुपुष्पा मुक्ताभिर्भ्रमरकलिताचालकभरैः ।
कृतस्थाणुस्थाना कुचफलनता सूक्तिसरसा
रुजां हन्त्री गन्त्री विलसति चिदानन्दलतिका ॥ ६ ॥
सपर्णामाकीर्णां कतिपयगुणैः सादरमिह
श्रयन्त्यन्ये वल्लीं मम तु मतिरेवं विलसति ।
अपर्णैका सेव्या जगति सकलैर्यत्परिवृतः
पुराणोऽपि स्थाणुः फलति किल कैवल्यपदवीम् ॥ ७ ॥
विधात्री धर्माणां त्वमसि सकलाम्नायजननी
त्वमर्थानां मूलं धनदनमनीयाङ्घ्रिकमले ।
त्वमादिः कामानां जननि कृतकन्दर्पविजये
सतां मुक्तेर्बीजं त्वमसि परब्रह्ममहिषी ॥ ८ ॥
प्रभूता भक्तिस्ते यदपि न ममालोलमनसः
त्वया तु श्रीमत्या सदयमवलोक्योऽहमधुना ।
पयोदः पानीयं दिशति मधुरं चातकमुखे
भृशं शङ्कॆ कैर्वा विधिभिरनुनीता मम मतिः ॥ ९ ॥
कृपापाङ्गालोकं वितर तरसा साधुचरिते
न ते युक्तोपेक्षा मयि शरणदीक्षामुपगते ।
न चेदिष्टं दद्यादनुपदमहॊ कल्पलतिका
विशेषः सामान्यैः कथमितरवल्लीपरिकरैः ॥ १० ॥
महान्तं विश्वासं तवचरणपङ्केरुहयुगे
निधायान्यन्नैवाश्रितमिह मया दैवतमुमे ।
तथापि त्वच्चेतो यदि मयि न जायेत सदयं
निरालम्बो लम्बोदरजननि कं यामि शरणम् ॥ ११ ॥
अयः स्पर्शे लग्नं सपदि लभते हेमपदवीं
यथा रथ्यापाथः शुचि भवति गङ्गौघमिलितं ।
तथा तत्तत्पापैरतिमलिनमन्तर्मम यदि
त्वयि प्रेम्णासक्तं कथमिव न जायेत विमलम् ॥ १२ ॥
त्वदन्यस्मादिच्छाविषयफललाभे न नियमः
त्वमर्थानामिच्छाधिकमपि समर्था वितरणे ।
इति प्राहुः प्राञ्चः कमलभवनाद्यास्त्वयि मनः
त्वदासक्तं नक्तंदिवमुचितमीशानि कुरु तत् ॥ १३ ॥
स्फुरन्नानारत्नस्फटिकमयभित्तिप्रतिफल-
त्त्वदाकारं चञ्चच्छशधरकलासौधशिखरम् ।
मुकुन्दब्रह्मेन्द्रप्रभृतिपरिवारं विजयते
तवागारं रम्यं त्रिभुवनमहाराजगृहिणि ॥ १४ ॥
निवासः कैलासे विधिशतमखाद्याः स्तुतिकराः
कुटुंबं त्रैलोक्यं कृतकरपुटः सिद्धिनिकरः । 
महेशः प्राणेशस्तदवनिधराधीशतनये
न ते सौभाग्यस्य क्वचिदपि मनागस्ति तुलना ॥ १५ ॥
वृषो वृद्धो यानं विषमशनमाशानिवसनं
श्मशानं क्रीडाभूर्भुजगनिवहो भूषणविधिः ।
समग्रा सामग्री जगति विदितैवं स्मररिपोः
यदेतस्यैश्वर्यं तव जननि सौभाग्यमहिमा ॥ १६ ॥
अशेषब्रह्माण्डप्रलयविधिनैसर्गिकमतिः
श्मशानेष्वासीनः कृतभसितलेपः पशुपतिः ।
दधौ कण्ठे हालाहलमखिलभूगोलकृपया
भवत्याः संगत्याः फलमिति च कल्याणि कलये ॥ १७ ॥
त्वदीयं सौंदर्यं निरतिशयमालोक्य परया
भियैवासीद्गङ्गा जलमयतनुः शैलतनये ।
तदेतस्यास्तस्माद्वदनकमलं वीक्ष्य कृपया
प्रतिष्ठामातन्वन्निजशिरसि वासेन गिरिशः ॥ १८ ॥
विशालश्रीखण्डद्रवमृगमदाकीर्णघुसृण-
प्रसूनव्यामिश्रं भगवति तवाभ्यङ्गसलिलम् ।
समादाय स्रष्टा चलितपदपांसून्निजकरैः
समाधत्तॆ सृष्टिं विबुधपुरपङ्केरुहदृशाम् ॥ १९ ॥
वसन्ते सानन्दे कुसुमितलताभिः परिवृते
स्फुरन्नानापद्मे सरसि कलहंसालिसुभगे ।
सखीभिः खेलन्तीं मलयपवनान्दोलितजले
स्मरेद्यस्त्वां तस्य ज्वरजनितपीडापसरति ॥ २० ॥
               ***

           
     ***