SRI HANUMAT STOTRAM

                        श्रीहनूमत्स्तोत्रम्
सर्वारिष्टनिवारकं शुभकरं पिङ्गाक्षमक्षापहं
      सीतान्वेषणतत्परं कपिवरं कोटीन्दुसूर्यप्रभम्।
  लंकाद्वीपभयंकरं सकलदं सुग्रीवसम्मानितं
       देवेन्द्रादिसमस्तदेवविनुतं काकुत्स्थदूतं भजे ॥१॥
ख्यातः श्रीरामदूतः पवनतनुभवः पिङ्गलाक्षः शिखावन्
    सीताशोकापहारी दशमुखविजयी लक्ष्मणप्राणदाता।
आनेता भेषजाद्रेर्लवणजलनिधेः लङ्घने दीक्षितो यः
    वीरश्रीमान् हनूमान्मम मनसि वसन्कार्यसिद्धुं तनोतु॥२॥
मनोजवं मारुततुल्यवेगं
    जितेन्द्रियं बुद्धिवतां वरिष्ठम्।
वातत्मजं वानरयूथमुख्यं
    श्रीरामदूतं शिरसा नमामि ॥३॥
बुद्धिर्बलं यशोधैर्यं निर्भयत्वमरोगता।
अजाड्यं वाक्पटुत्वं च हनूमत्स्मरणाद्भवेत् ॥४॥
  

HYMNS TO HANUMAN – VEERAVIMSATI KAVYAM HANUMATSTOTRAM

वीरविंशतिकाव्यं श्रीहनुमत्स्तोत्रम्
       
(उमापति कविविरचितम्)
लांगूलमृष्टवियदम्बुधिमध्यमार्ग-
मुत्प्लुत्य यान्तममरेन्द्रमुदो
निदानम् ।
आस्फालितस्वकभुजस्फुटिताद्रिकाण्डं
द्राङ्मैथिलीनयननन्दनमद्य वन्दे
॥ १ ॥
मध्येनिशाचरमहाभयदुर्विषह्यं
घोराद्भुतव्रतमिदं यददश्चचार
पत्ये तदस्य बहुधापरिणामदूतं
सीतापुरस्कृततनुं हनुमन्तमीडे
॥ २ ॥
यः पादपङ्कजयुगं रघुनाथपत्न्या
नैराश्यरूषितविरक्तमपि स्वरागैः
प्रागेव रागि विदधे बहु वन्दमानो
वन्देऽञ्जनाजनुषमेव विशेषतुष्ट्यै
॥ ३ ॥
ताञ्जानकीविरहवेदनहेतुभूतान्
द्रागाकलय्य सदशोकवनीयवृक्षान्
लङ्कालकानिव घनानुदपाटयद्य-
स्तं हेमसुन्दरकपिं प्रणमामि
पुष्ट्यै ॥ ४ ॥
घोषप्रतिध्वनितशैलगुहासहस्र-
संभ्रान्तनादितवलन्मृगनाथयूथम्
अक्षक्षयक्षणविलक्षितराक्षसेन्द्र-
मिन्द्रं कपीन्द्रपृतनावलयस्य
वन्दे ॥ ५ ॥
हेलाविलङ्घितमहार्णवमप्यमन्दं
घूर्णद्गदाविहतिविक्षतराक्षसेषु
स्वम्मोदवारिधिमपारमिवेक्षमाणं
वन्देऽहमक्षयकुमारकमारकेशम्
॥ ६ ॥
जम्भारिजित्प्रसभलम्बितपाशबन्धं
ब्रह्मानुरोधमिव तत्क्षणमुद्वहन्तम्
रौद्रावतारमपि रावणदीर्घदृष्टि-
सङ्कोचकारणमुदारहरिं भजामि
॥ ७ ॥
दर्पोन्नमन्निशिचरेश्वरमूर्धचञ्च-
त्कोटीरचुम्बि निजबिम्बमुदीक्ष्य
हृष्टम् ।
पश्यन्तमात्मभुजयन्त्रणपिष्यमाण-
तत्कायशोणितनिपातमपेक्षि वक्षः
॥ ८ ॥
अक्षप्रभृत्यमरविक्रमवीरनाश-
क्रोधादिव द्रुतमुदञ्चितचन्द्रहासाम्
निद्रापिताभ्रघनगर्जनघोरघोषैः
संस्थम्भयन्तमभिनौमि दशास्यमूर्तिम्
॥ ९ ॥
आशंस्यमानविजयं रघुनाथधाम
शंसन्तमात्मकृतभूरिपराक्रमेण
दौत्ये समागमसमन्वयमादिशन्तं
वन्दे हरेः क्षितिभृतः पृतनाप्रधानम्
॥ १० ॥
यस्यौचितीं समुपदिष्टवतोऽधिपुच्छं
दम्भान्धितां धियमपेक्ष्य विवर्धमानः
नक्तञ्चराधिपतिरोषहिरण्यरेता
लङ्कां दिधक्षुरपतत्तमहं वृणोमि
॥ ११ ॥
क्रन्दन्निशाचरकुलां ज्वलनावलीढैः
साक्षाद्गृहैरिव बहिः परिदेवमानाम्
स्तब्धस्वपुच्छतटलग्नकृपीटयोनि-
दन्दह्यमाननगरीं परिगाहमानाम्
॥ १२ ॥
मूर्तैर्गृहासुभिरिव द्युपुरं
व्रजद्भि-
र्व्योम्नि क्षणं परिगतं पतगैर्ज्वलद्भिः
पीताम्बरं दधतुमुच्छ्रितदीप्ति
पुच्छं
सेनां वहद्विहगराजमिवाहमीडे
॥ १३ ॥
स्थम्भीभवत्स्वगुरुवालधिलग्नवह्नि-
ज्वालोल्ललद्ध्वजपटामिव देवतुष्ट्यै
वन्दे यथोपरि पुरो दिवि दर्शयन्त-
मद्यैव रामविजयाजिकवैजयन्तीम्
॥ १४ ॥
रक्षक्षयैकचितकक्षकपूश्चितौ
यः
सीताशुचो निजविलोकनतो मृतायाः
दाहं व्यधादिव तदन्त्यविधेयभूतं
लाङ्गूलदत्तदहनेन मुदे स नोऽस्तु
॥ १५ ॥
आशुद्धये रघुपतिप्रणयैकसाक्ष्ये
वैदेहराजदुहितुः सरिदीश्वराय
न्यासं ददानमिव पावकमापतन्त-
मब्धौ प्रभञ्जनतनूजनुषं भजामि
॥ १६ ॥
रक्षस्स्वतृप्तिरुडशान्तिविशेषशोण-
मक्षक्षयक्षणविधानुमितात्मदाक्ष्यम्
भास्वत्प्रभातरविभानुभरावभासं
लङ्काभयङ्करममुं भगवन्तमीडे
॥ १७ ॥
तीर्त्वोदधिं जनकजार्पितमाप्य
चूडा-
रत्नं रिपोरपि पुरं परमस्य
दग्ध्वा ।
श्रीरामहर्षगलदश्र्वभिषिच्यमानं
तं ब्रह्मचारिवरवानरमाश्रयेऽहम्
॥ १८ ॥
यः प्राणवायुजनितो गिरिशस्य
शान्तः
शिष्योऽपि गौतमगुरुर्मुनिशंकरात्मा
हृद्यो हरस्य हरिवद्धरितां
गतोऽपि
धीधैर्यशास्त्रविभवेऽतुलमाश्रये
तं ॥ १९ ॥
स्कन्धेऽधिवाह्य जगदुत्तरगीतिरीत्या
यः पार्वतीश्वरमतोषयदाशुतोषम्
तस्मादवाप च वरानपरानवाप्यान्
तं वानरं परमवैष्णवमीशमीडे
॥ २० ॥
उमापतेः कविपतेः स्तुतिर्बाल्यविजृम्भिता
हनूमतस्तुष्टयेऽस्तु वीरविंशतिकाभिधा
॥ २१ ॥
               ***
  


HYMNS TO HANUMAN – SRI HANUMAT BHUJANGA STOTRAM

श्रीहनुमत्भुजङ्गस्तोत्रम्

श्रीशंकराचार्यकृतम्

स्फुरद्विद्‌युदुल्लासवालाग्रघण्टा –
झणत्कारनादप्रवृद्धाट्टहासम् ।
भजे वायुसूनुं भजे रामदूतं
भजे वज्रदेहं भजे भक्तबन्धुम् ॥ १ ॥
 

प्रपन्नानुरागं प्रभाकाञ्चनाङ्गं
जगद्गीतशौर्यं तुषाराद्रिशौर्यम् ।
तृणीभूतहेतिं रणोद्यद्विभूतिं
भजे वायुपुत्रं पवित्रात् पवित्रम् ॥ २ ॥

भजे रामरम्भावनीनित्यवासं
भजे बालभानुप्रभाचारुहासम् ।
भजे चन्द्रिकाकुन्दमन्दारभासं
भजे सन्ततं रामभूपालदासम् ॥ ३ ॥

भजे लक्ष्मणप्राणरक्षातिदक्षं
भजे तोषितानेकगीर्वाणपक्षम् ।
भजे घोरसंग्रामसीमाहताक्षं
भजे रामनामातिसंप्राप्तरक्षम् ॥ ४ ॥

मृगाधीशनाथं क्षितिक्षिप्तपादं
घनाक्रान्तजङ्घं कटिस्थोडुसङ्घम् ।
वियद्व्याप्तकेशं भुजाश्लेषिताशं
जयश्रीसमेतं भजे रामदूतम् ॥ ५ ॥

चलद्वालघातभ्रमच्चक्रवालं
कठोराट्टहासप्रभिन्नाब्धिकाण्डम् ।
महासिंहनादाद्विशीर्णत्रिलोकं
भजे चाञ्जनेयं प्रभुं वज्रकायम् ॥ ६ ॥

रणे भीषणे मेघनादे सनादे
सरोषं समारोप्यसौमित्रिमंसे ।
घनानां खगानां सुराणां च मार्गे
नटन्तं ज्वलन्तं हनूमन्तमीडे ॥ ७ ॥

नखध्वस्तजंभारिदम्भोलिधारं
भुजाग्रेण निर्धूतकालोग्रदण्डम् ।
पदाघातभीताहिजाताऽधिवासं
रणक्षोणिदक्षं भजे पिङ्गलाक्षम् ॥ ८ ॥

महाभूतपीडां महोत्पातपीडां
महाव्याधिपीडां महाधिप्रपीडाम् ।
हरत्याशु ते पादपद्मानुरक्तिः
नमस्ते कपिश्रेष्ठ रामप्रियाय ॥ ९ ॥

सुधासिन्धुमुल्लङ्घ्य सान्द्रे निशीथे
सुधा चौषधीस्ताः प्रगुप्तप्रभावाः ।
क्षणे द्रोणशैलस्य पृष्ठे प्ररूढाः
त्वया वायुसूनो किलानीय दत्ताः ॥ १० ॥

समुद्रं तरङ्गादिरौद्रं विनिद्रो
विलङ्घ्योडुसङ्घं स्तुतो मर्त्यसंघैः ।
निरातङ्कमाविश्य लङ्कां विशङ्को
भवानेव सीतावियोगापहारी ॥ ११ ॥

नमस्ते महासत्वबाहाय नित्यं
नमस्ते महावज्रदेहाय तुभ्यम् ।
नमस्ते पराभूतसूर्याय तुभ्यं
नमस्ते कृतामर्त्यकार्याय तुभ्यम् ॥ १२ ॥

नमस्ते सदा ब्रह्मचर्याय तुभ्यं
नमस्ते सदा वायुपुत्राय तुभ्यम् ।
नमस्ते सदा पिङ्गलाक्षाय तुभ्यं
नमस्ते सदा रामभक्ताय तुभ्यम् ॥ १३ ॥

हनूमत्भुजङ्गप्रयातं प्रभाते
प्रदोषे दिवा चार्द्धरात्रेऽपि मर्त्यः ।
पठन् भक्तियुक्तः प्रमुक्ताघजालः
नराः सर्वदा रामभक्तिं प्रयान्ति ॥ १४ ॥

HYMNS TO HANUMAN – APADUDHARANA HANUMATSTOTRAM

आपदुद्धरणहनुमत्स्तोत्रम्
         
(विभीषणकृतम्)
वामे करे वैरिभिदं वहन्तं
शैलं परे शृङ्घलहारिटङ्कम् ।
दधानमच्छच्छवि यज्ञसूत्रं
भजे ज्वलत्कुण्डलमाञ्जनेयम् ॥ १ ॥
सुपीतकौपीनमुदञ्चितांगुलिं
समुज्ज्वलन् मौञ्ज्यजिनोपवीतिनम् ।
सकुण्डलं लम्बशिखासमावृतं
तमाञ्जनेयं शरणं प्रपद्ये ॥ २ ॥
आपन्नाखिललोकार्तिहारिणे श्रीहनूमते ।
अकस्मादागतोत्पातनाशनाय नमोऽस्तु ते ॥ ३ ॥
सीतावियुक्तश्रीरामशोकदुःखभयापह ।
तापत्रितयसंहारिन् आञ्जनेय नमोऽस्तु ते ॥ ४ ॥
आधिव्याधिमहामारीग्रहपीडापहारिणे ।
प्राणापहर्त्रे दैत्यानां रामप्राणात्मने नमः ॥ ५ ॥
संसारसागरावर्तौ कर्तव्यभ्रान्तचेतसाम् ।
शरणागतमर्त्यानां शरण्याय नमोऽस्तु ते ॥ ६ ॥
राजद्वारि बिलद्वारि प्रवेशे भूतसङ्कुले ।
गजसिंहमहाव्याघ्र चोरभीषणकानने ॥ ७ ॥
शरणाय शरण्याय वातात्मज नमोऽस्तु ते ।
नमः प्लवगसैन्यानां प्राणभूतात्मने नमः ॥ ८ ॥
रामेष्टं करुणापूर्णं हनूमन्तं भयापहम् ।
शत्रुनाशकरं भीमं सर्वाभीष्टफलप्रदम् ॥ ९ ॥
प्रदोषे वा प्रभाते वा ये स्मरन्त्यञ्जनासुतम् ।
अर्थसिद्धिं यशः कीर्तिं प्राप्नुवन्ति न संशयः ॥ १० ॥
कारागृहे प्रयाणे च संग्रामे देशविप्लवे ।
ये स्मरन्ति हनूमन्तं तेषां नास्ति विपद्सदा ॥ ११ ॥
वज्रदेहाय कालाग्निरुद्रायामिततेजसे ।
ब्रह्मास्त्रस्थंभनायास्मै नमः श्री रुद्रमूर्तये ॥ १२ ॥
जप्त्वा स्तोत्रमिदं मन्त्रं प्रतिवारं पठेन्नरः ।
राजस्थाने सभास्थाने प्राप्तवादे जपेत् ध्रुवम् ॥ १३ ॥
विभीषणकृतं स्तोत्रं यः पठेत् प्रयतो नरः ।
सर्वापद्भ्यो विमुच्येत नात्र कार्या विचारणा ॥ १४ ॥
मर्कटेश महोत्साह सर्वशोकविनाशक ।
शत्रून् संहर मां रक्ष श्रियं दासाय देहि मे ॥ १५ ॥
         
      


HYMNS TO HANUMAN – SRI HANUMATSTOTRAM

श्रीहनुमत्स्तोत्रम्
अक्षादिराक्षसहरं दशकण्ठदर्प-
निर्मूलनं रघुवराङ्घ्रिसरोजभक्तम्
सीताविषह्यदुःखनिवारकं तं
वायोः सुतं गिलितभानुमहं नमामि
॥ १ ॥
मां पश्य पश्य हनुमन् निजदृष्टिपातैः
मां रक्ष रक्ष परितो रिपुदुःखवर्गात्
वश्यां कुरु त्रिजगतीं वसुधाधिपानां
मे देहि देहि महतीं वसुधां
श्रियं च ॥ २ ॥
आपद्भ्यो रक्ष सर्वत्र आञ्जनेय
नमोऽस्तु ते ।
बन्धनं छिन्धि मे नित्यं कपिवीर
नमोऽस्तु ते ॥ ३ ॥
दुष्टरोगान् हन हन रामदूत नमोऽस्तु
ते ।
उच्चाटय रिपून् सर्वान् मोहनं
कुरु भूभुजाम् ॥ ४ ॥
विद्वेषिणो मारय त्वं त्रिमूर्त्यात्मक
सर्वदा ।
सञ्जीवपर्वतोद्धार मनोदुःखं
निवारय ॥ ५ ॥
घोरानुपद्रवान् सर्वान् नाशयाक्षासुरान्तक
एवं स्तुत्वा हनूमन्तं नरः
श्रद्धासमन्वितः ॥ ६ ॥
पुत्रपौत्रादिसहितः सर्वसौख्यमवाप्नुयात्
। ७ ।

HYMNS TO HANUMAN – SHRI ANJANEYA STOTRAM

श्री आञ्जनेयस्तोत्रम्
      
(उमामहेश्वरसंवादात्मकम्)
शृणु देवि प्रवक्ष्यामि स्तोत्रं
सर्वभयापहम् ।
सर्वकामप्रदं नॄणां हनूमत्स्तोत्रमुत्तमम्
॥ १ ॥
तप्तकाञ्चनसंकाशं नानारत्नविभूषितम्
उद्यत्बालार्कवदनं त्रिनेत्रं
कुण्डलोज्ज्वलम् ॥ २ ॥
मौञ्जीकौपीनसंयुक्तं हेमयज्ञोपवीतिनम्
पिङ्गलाक्षं महाकायं टङ्कशैलेन्द्रधारिणम्
॥ ३ ॥
शिखानिक्षिप्तवालाग्रं मेरुशैलाग्रसंस्थितम्
मूर्तित्रयात्मकं पीनं महावीरं
महाहनुम् ॥ ४ ॥
हनुमन्तं वायुपुत्रं नमामि
ब्रह्मचारिणम् ।
त्रिमूर्त्यात्मकमात्मस्थं
जपाकुसुमसन्निभम् ॥ ५ ॥
नानाभूषणसंयुक्तं आञ्जनेयं
नमाम्यहम् ।
पञ्चाक्षरस्थितं देवं नीलनीरदसन्निभम्
॥ ६ ॥
पूजितं सर्वदेवैश्च राक्षसान्तं
नमाम्यहम् ।
अचलद्युतिसङ्काशं सर्वालङ्कारभूषितम्
॥ ७ ॥
षडक्षरस्थितं देवं नमामि कपिनायकम्
तप्तस्वर्णमयं देवं हरिद्राभं
सुरार्चितम् ॥ ८ ॥
सुन्दरांसाब्जनयनं त्रिनेत्रं
तं नमाम्यहम् ।
अष्टाक्षराधिपं देवं हीरवर्णसमुज्ज्वलम्
॥ ९ ॥
नमामि जनतावन्द्यं लङ्काप्रासादभञ्जनम्
अतसीपुष्पसङ्काशं दशवर्णात्मकं
विभुम् ॥ १० ॥
जटाधरं चतुर्बाहुं नमामि कपिनायकम्
द्वादशाक्षरमन्त्रस्य नायकं
कुन्तधारिणम् ॥ ११ ॥
अङ्कुशं च दधानं तं कपिवीरं
नमाम्यहम् ।
त्रयोदशाक्षरयुतं सीतादुःखनिवारणम्
॥ १२ ॥
पीतवर्णं लसत्कायं भजे सुग्रीवमन्त्रिणम्
मालामन्त्रात्मकं देवं चित्रवर्णं
चतुर्भुजम् ॥ १३ ॥
पाशाङ्कुशाभयकरं धृतटङ्कं नमाम्यहम्
सुरासुरगणैः सर्वैः संस्तुतं
प्रणमाम्यहम् ॥ १४ ॥
एवं ध्यायन्नरो नित्यं सर्वपापैः
प्रमुच्यते ।
प्राप्नोति चिन्तितं कार्यं
शीघ्रमेव न संशयः ॥ १५ ॥

                 

HYMNS TO HANUMAN – SRI HANUMATPANCHARATNA STOTRAM

श्रीहनुमत्पञ्चरत्नस्तोत्रम्

(श्रीशङ्कराचार्यकृतम्)

 

वीताखिलविषयेच्छं
जातानन्दाश्रुपुलकमत्यच्छम् ।
सीतापतिदूताख्यं
वातात्मजमद्य भावये हृद्यम् ॥ १ ॥

 

तरुणारुणमुखकमलं
करुणारसपूरपूरितापाङ्गम् ।
सञ्जीवनमाशासे
मञ्जुलमहिमानमञ्जनाभाग्यम् ॥ २ ॥

 

शम्बरवैरिशरातिग-
मम्बुजदलविपुललोचनोदारम् ।
कम्बुगलमनिलदिष्टं
बिम्बज्वलितोष्ठमेकमालम्बे ॥ ३ ॥

 

दूरीकृतसीतार्तिः
प्रकटीकृतरामवैभवस्फूर्तिः ।
दारितदशमुखकीर्तिः
पुरतो मम भातु हनुमतो मूर्तिः ॥ ४ ॥

 

वानरनिकराध्यक्षं
दानवकुलकुमुदरविकरसदृशम् ।
दीनजनावनदीक्षं
पवनतपःपाकपुञ्जमद्राक्षम् ॥ ५ ॥

 

एतत् पवनसुतस्य
स्तोत्रं यः पठति पञ्चरत्नाख्यम् ।
चिरमिह निखिलान् भोगान्
भुक्त्वा श्रीरामभक्तिमान् भवति ॥ ६ ॥