HYMNS TO GANESHA – GANESHA PANCHARATNA STOTRAM

२.  गणेशपंचरत्नस्तोत्रम्

       (शंकराचार्यविरचितम्)   
मुदाकरात्तमोदकं सदाविमुक्तिसाधकं
कलाधरावतंसकं विलासिलोकरक्षकम् ।
अनायकैकनायकं विनाशितेभदैत्यकं
नताशुभाशुनाशकं नमामि तं विनायकम् ॥ १ ॥
नतेतरातिभीकरं नवोदितार्कभास्वरं
नमत्सुरारिनिर्जरं नताधिकापदुद्धरम् ।
सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं
महेश्वरं तमाश्रये परात्परं निरन्तरम् ॥ २ ॥
समस्त लोकशंकरं निरस्तदैत्यकुंजरं
दरेतरोदरं वरं वरेभवक्त्रमक्षरम् ।
कृपाकरं क्षमाकरं मुदाकरं यशस्करं
मनस्करं नमस्कृतां नमस्करोमि भास्वरम् ॥ ३ ॥
अकिंचनार्तिमार्जनं चिरंतनोक्तिभाजनं
पुरारिपूर्वनन्दनं सुरारिगर्वचर्वणम् ।
प्रपंचनाशभीषणं धनंजयादिभूषणं
कपोलदानवारणं भजे पुराणवारणम् ॥ ४ ॥
नितान्तकान्तदन्तकान्तिमन्तकान्तकात्मजं
अचिन्त्यरूपमन्तहीनमन्तराय कृन्तनम् ।
हृदन्तरे निरन्तरं वसन्तमेव योगिनां
तमेकदन्तमेव तं विचिन्तयामि सन्ततम् ॥ ५ ॥
महागणेश पंचरत्नमादरेण योऽन्वहं
प्रजल्पति प्रभातके हृदि स्मरन् गणेश्वरं ।
अरोगतामदोषतां सुसाहितीं सुपुत्रतां
समाहितायुरष्टभूतिमभ्युपैति सोऽचिरत् ॥ ६ ॥
           ***

click here for an audio rendering of this stotram


HYMNS TO GANESHA – GANAPATI STOTRAM

१ . गणपतिस्तोत्रम्   
  
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥ १ ॥
गजाननं भूतगणादिसेवितं
कपित्थजम्बूफलसारभक्षितम् ।
उमासुतं शोकविनाशकारणं
नमामि विघ्नेश्वरपादपंकजम् ॥ २ ॥
अगजाननपद्मार्कं गजाननमहर्निशम् ।
अनेकदं तं भक्तानां एकदन्तमुपास्महे ॥ ३ ॥
श्रीकान्तो मातुलो यस्य जननी सर्वमंगला ।
जनकश्शंकरोदेवः तं वन्दे कुंजराननम् ॥ ४ ॥
वक्रतुंड महाकाय कोटिसूर्यसमप्रभ ।
अविघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥ ५ ॥