GANGASHTAKAM-4

                                        गङ्गाष्टकम्-४
          (महर्षि वाल्मीकिविरचितम्)
मातः शैलसुतासपत्नि वसुधाशृङ्गारहारावलि
स्वर्गारोहणवैजयन्ति भवतीं भागीरथि प्रार्थये ।
त्वत्तीरे वसतः त्वदंबु पिबतस्त्वद्वीचिषु प्रेङ्खत-
स्त्वन्नाम स्मरतस्त्वदर्पितदृशः स्यान्मे शरीरव्ययः॥१॥
त्वत्तीरे तरुकॊटरान्तरगतो गङ्गे विहङ्गो वरं
त्वन्नीरे नरकान्तकारिणि वरं मत्स्योऽथवा कच्छपः।
नैवान्यत्र मदान्धसिन्धुरघटासङ्घट्टघण्टारण-
त्कारत्रस्तसमस्तवैरिवनितालब्धस्तुतिर्भूपतिः ॥२॥
उक्षा पक्षी तुरग उरगः कोऽपि वा वारणो वा
वारीणः स्यां जननमरणक्लेशदुःखासहिष्णु: ।
न त्वन्यत्र प्रविरलरणत्कङ्कणक्वाणमिश्रं
वारस्त्रीभिश्चमरमरुता वीजितो भूमिपालः ॥३॥
काकैर्निष्कुषितं श्वभिः कवलितं गोमायुभिर्लुण्ठितं
स्रोतोभिश्चलितं तटांबुलुलितं  वीचीभिरान्दोलितम्।
दिव्यस्त्रीकरचारुचामरमरुत्संवीज्यमानः कदा
द्रक्ष्येऽहं परमेश्वरि त्रिपथगे भागीरथि स्वं वपुः ॥४॥
अभिनवबिसवल्ली पादपद्मस्य विष्णो-
र्मदनमथन्मौलेर्मालतीपुष्पमाला   ।
जयति जयपताका काप्यसौ मोक्षलक्ष्म्याः
क्षपितकलिकलङ्का जाह्नवी नः पुनातु ॥५॥
एतत्तालतमालसालसरलव्यालोलवल्लीलता-
च्छन्नं सूर्यकरप्रतापरहितं शंखेन्दुकुन्दोज्ज्वलम्।
गन्धर्वामरसिद्धकिन्नरवधूत्तुङ्गस्तनास्फालितं
स्नानाय प्रतिवासरं भवतु मे गाङ्गं जलं निर्मलम्॥६॥
गाङ्गं वारि मनोहारि मुरारिचरणच्युतम्।
त्रिपुरारिशिरश्चारी पापहारि पुनातु माम् ॥७॥
पापहारि दुरितारि तरङ्गधारी
शैलप्रचारि गिरिराजगुहाविदारि।
झङ्कारकारि हरिपादरजोऽपहारि
गाङ्गं पुनातु सततं शुभकारि वारि ॥८॥
गङ्गाष्टकम् पठति यः प्रयतः प्रभाते
वाल्मीकिना विरचितं शुभदं मनुष्यः।
प्रक्षाल्य गात्रकलिकल्मषपङ्कमाशु
मोक्षं लभेत्पतति नैव नरो भवाब्धौ ॥९॥

GANGASHTAKAM -3

       
गङ्गाष्टकम्-३   
  (महाकवि कालिदासकृतम्)
नमस्तेऽस्तु गङ्गे त्वदंगप्रसंगा-
द्भुजंगास्तुरंगाः कुरंगाः प्लवंगाः ।
अनंगारिरंगाः ससंगाः शिवांगा
भुजंगाधिपांगीकृतांगा भवन्ति ॥१॥
नमो जह्नुकन्ये न मन्ये त्वदन्यै-
र्निसर्गेन्दुचिह्नादिभिर्लोकभर्तुः।
अतोऽहं नतोऽहं सदा गौरतोये
वसिष्ठादिभिर्गीयमानाभिधेये ॥२॥
त्वदामज्जनात् सज्जनो दुर्ज्जनो वा
विमानैस्समानः समानैर्हिमानैः ।
समायाति तस्मिन् पुरारातिलोके
पुरद्वारसंरुद्धदिक्पाललोके ।३॥
स्वरावासदंभोलिदंभोपि रंभा-
परीरंभसंभावनाधीरचेताः।
समाकाङ्क्षते त्वत्तटे वृक्षवाटी-
कुटीरे वसन्नेतुमायुर्द्दिनानि ॥४॥
त्रिलोकस्य भर्तुर्ज्जटाजूटबन्धात्
स्वसीमन्तभागे मनाक् प्रस्खलन्तः।
भवान्या रुषा प्रौढसापत्निभावात्
करेणाहतास्त्वत्तरङ्गा जयन्ति ॥५॥
जलोन्मज्जदैरावतोद्दामकुंभ-
स्फुरत्प्रस्खलत्सान्द्रसिन्दूररागे।
क्वचित् पद्मिनीरेणुभंगप्रसंगे
मनः खेलतां जह्नुकन्यातरङ्गे
॥६॥
भवत्तीरवानीरवातोत्थधूली-
लवस्पर्शतस्तत्क्षणात्क्षीणपापः।
जनोऽयं जगत्पावने त्वत्प्रसादात्
पदे पौरुहूतेऽपि धत्तेऽवहेलाम् ॥७॥
त्रिसन्ध्यानमल्लेखकोटीरनाना-
विधानेकरत्नांशुबिंबप्रभाभिः।
स्फुरत्पादपीठे हठेनाष्टमूर्ते-
र्जटाजूटवासे नताः स्मो
पदं ते ॥८॥
इदं यः पठेदष्टकं जह्नुपुत्र्या-
स्त्रिकालं कृतं कालिदासेन रम्यम्।
समायास्यतीन्द्रादिभिर्गीयमानं
पदं शैशवं शैशवं नो लभेत् सः ॥९॥

Label: Ganga 

GANGASHTAKAM -1

         गङ्गाष्टकम्    
   (महाकवि
कालिदासकृतम्)
कत्यक्षीणि करोटयः कति कति द्वीपिद्विपानां त्वचः
काकोलः कति पन्नगाः कति सुधाधाम्नश्च
खण्डाः कति  ।
किञ्च त्वं च कति त्रिलोकजननि त्वद्वारिपूरोदरे
मज्जज्जन्तुकदंबकं समुदयत्येकैकमादाय यत् ॥१॥
देवि त्वत्पुलिनाङ्गणेस्थितिजुषां निर्मानिनां ज्ञानिनां
स्वल्पाहारनिबद्धशुद्धवपुषां  तार्णं गृहं श्रेयसे ।
नान्यत्र
क्षितिमण्डलेश्वरशतैः संरक्षितो  भूपतेः
प्रासादो ललनागणैरधिगतो भोगीन्द्रभोगोन्नतः ॥२॥
तत्तत्तीर्थगतैः कदर्थनशतैः किंतैरनर्थाश्रितैः
ज्योतिष्टोममुखैः किमीशविमुखैः यज्ञैरवज्ञादृतैः।
सूते केशववासवादिविबुधागाराभिरामां श्रियं
गङ्गे देवि! भवत्तटॆ यदि कुटीवास प्रयासं विना ॥३॥
गङ्गातीरमुपेत्य शीतलशिलामालंब्य हेमाचलीं
यैराकर्णि कुतूहलाकुलतया कल्लोलकोलाहलः।
ते शृण्वन्ति सुपर्वपर्वतशिलासिंहासनाध्यासनाः
संगीतागमशुद्धसिद्धरमणीमञ्जीरधीरध्वनिम् ॥४॥
दूरंगच्छ सकच्छगं च भवतो नालोकयामो मुखं
रे पाराक वराक साकमितरैर्नाकप्रदैर्गम्यताम् ।
सद्यःप्रोद्यदमन्दमारुतरजः प्राप्तं कपोलस्थले
गंगांभः कणिकाविमुक्तिगणिकासंगाय संभाव्यते ॥५॥
विष्णोः संगतिकारीणी हरजटाजूटाटवीचारिणी
प्रायश्चित्तनिवारणी जलकणैः पुण्यौघविस्तारिणी
भूभृत्कन्दरदारिणी निजजले मज्जज्जनोत्तारिणी
श्रेयः स्वर्गविहारिणी विजयते गङ्गा मनोहारिणी ॥६॥
वाचालं विकलं खलं श्रितमलं कामाकुलं व्याकुलं
चण्डालं तरलं निपीतगरलं दोषाविलञ्चाविलं ।
कुंभीपाकगतं तमन्तककरादाकृष्य कस्तारये-
न्मातर्ज्जह्नुनरेन्द्रनन्दिनि तव स्वल्पोदबिन्दुं विना ॥७॥ 
श्लेष्मश्लेष्मचयानिले मृतबिले शंकाकुले व्याकुले
कण्ठे घर्घरघोषनादमलिने काये च संमीलति।
यां ध्यायन्नपि भारभंगुरतरां प्राप्नोति मुक्तिं नरः
सा नश्चेतसि जान्हवी निवसतां संसारसन्तापहृत् ॥८॥  

GANGASHTAKAM (ANANDATIRTHAKRUTAM)

        आनन्दतीर्थकृत गंगाष्टकम्
यदवधि तवतीरं पातकी नैति गंगे
तदवधि मलजालैर्नैवमुक्तः कलौ स्यात्।
तव जलकणिकाऽलं पापिनां पापशुद्ध्यै
पतितपरमदीनांस्त्वंहि पासि प्रपन्नान् ॥१॥
तव शिवजललेशं वायुनीतं समेत्य
सपदि निरयजालं शून्यतामेतिगङ्गे।
शमलगिरिसमूहाः प्रस्फुटन्ति प्रचण्डा-
स्त्वयि सखि विशतां नः पापशंका कुतः स्यात् ॥२॥
तव शिवजलजालं निःसृतं यर्हि गङ्गे
सकलभुवनजालं पूतपूतं तदाभूत्।
यमभटकलिवार्ता देवि लुप्ता यमोपि
व्यतिकृत वरदेहाः पूर्णकामाः सकामाः॥३॥
मधुमधुवनपूगै रत्नपूगैर्निपूगै-
र्मधुमधुवनपूगैर्देवपूगैः सपूगैः
पुरहरपरमांगे भासि मायेव गंगे
शमयसि विषतापं देवदेवस्य वन्द्ये ॥४॥
चलितशशिकलाभैरुत्तरंगैस्तरंगै-
रमितनदनदीनामंगसंगैरसंगैः।
विहरसि जगदण्डे खण्डयन्ती गिरीन्द्रान्
रमयसि निजकान्तं सागरं कान्तकान्ते ॥५॥
तव वरमहिमानं चित्तवाचाममानं
हरिहरविधिशक्रा नापि गंगे
विदन्ति।
श्रुतिकुलमभिधत्ते शङ्कितं ते गुणान्तं
गुणगणसुविलापैर्नेति नेतीति सत्यम् ॥६॥
तवनुतिनतिनामान्यप्यघं पावयन्ति
ददति परमशान्तिं दिव्यभोगान् जनानां।
इति पतितशरण्ये त्वां प्रपन्नोऽस्मि मातः
ललिततरतरंगे चांग गंगे प्रसीद ॥७॥
शुभतरकृतयोगाद्विश्वनाथप्रसादात्
भवहरवरविद्यां प्राप्य काश्यां हि गंगे।
भगवति तव तीरे नीरसारं निपीय
मुदितहृदयकञ्जे नन्दसूनुं
भजेऽहम् ॥८॥

GANGA STUTI

          गंगास्तुति
नमःशिवायै गंगायै शिवदायै नमोनमः।
नमस्ते रुद्ररूपिण्यै शांकर्यै ते नमोनमः।।१॥
नमस्ते विश्वरूपिण्यै ब्रह्ममूर्त्यै नमोनमः।
सर्ववेदस्वरूपिण्यै नमो भेषजमूर्तये ॥२॥
सर्वस्य सर्वव्याधीनां भिषक्श्रेष्ठ्यै नमोस्तु ते।
स्थाणुजंगमसंभूत विषहन्त्र्यै नमोनमः ॥३॥
भोगोपभोगदायिन्यै भोगवत्यै नमो नमः।
मन्दाकिन्यै नमस्तेस्तु स्वर्गदायै नमोनमः॥४॥
नमस्त्रैलोक्यभूषायै जगद्धात्र्यै नमो नमः
नमस्त्रिशुक्लसंस्थायै तेजोवत्यै नमोनमः ॥५॥
नन्दायै लिंगधारिण्यै नारायण्यै नमोनमः
नमस्ते विश्वमुख्यायै रेवत्यै ते नमोनमः ॥६॥
बृहत्यै ते नमस्तेऽस्तु लोकधात्र्यै नमोनमः।
नमस्ते विश्वमित्रायै नन्दिन्यै ते नमोनमः॥७॥
पृथ्व्यै शिवामृतायै च सुवृषायै नमोनमः ।
शान्तायै च वरिष्ठायै वरदायै नमो नमः ॥८॥
उस्रायै सुखदोग्ध्र्यै च सञ्जीवन्यै नमोनमः।
ब्रह्मिष्ठायै ब्रह्मदायै दुरितघ्न्यै नमोनमः ॥९॥
प्रणतार्तिप्रभञ्जिन्यै जगन्मात्रे नमोस्तु ते।
सर्वापत्प्रतिपक्षायै मंगलायै नमो नमः ॥१०॥
  
शरणागतदीनार्तपरित्राणपरायणे।
सर्वस्यार्तिहरे देवि नारायणि नमोस्तु ते ॥११॥
निर्लेपायै दुःखहन्त्र्यै दक्षायै ते नमोनमः।
परात्परतरे तुभ्यं नमस्ते मोक्षदे सदा ॥१२॥
गंगे ममाग्रतो भूया गंगे मे देवि पृष्ठतः
गंगे मे पार्श्वयोरेहि त्वयि गंगेऽस्तु मे स्थितिः ॥१३॥
आदौ त्वमन्ते मध्ये च सर्वं त्वं गां गते शिवे
त्वमेव मूलप्रकृतिस्त्वं हि नारायणः परः ॥१४॥
गंगे त्वं परमात्मा च शिवस्तुभ्यं नमः शिवे
य इदं पठति स्तोत्रं भक्त्या नित्यं नरोपि यः ।
शृणुयाच्छ्रद्धया युक्तः कायवाक्चित्तसंभवैः
दशधा संस्थितैर्दोषैः सर्वैरेव प्रमुच्यते ॥१५॥

GANGASHTAKAM (SRI SANKARACHARYAKRUTAM)

                                 गंगाष्टकम्

       (श्री
शंकराचार्यविरचितम्)
 भगवति तव तीरे नीरमात्राशनॊऽहं
विगतविषयतृष्णः
कृष्णमाराधयामि।
सकलकलुषभङ्गे
स्वर्गसोपानसङ्गे
तरलतरतरङ्गे
देवि गङ्गे प्रसीद॥१॥
               भगवति
भवलीलामौलिमाले तवांभः
               कणमणुपरिमाणं
प्राणिनो ये स्पृशन्ति ।
       अमरनगरनारीचामरग्राहिणीनां
       विगतकलिकलंकातंकमंके लुठन्ति  ॥२॥
       ब्रह्माण्डं खण्डयन्ती हरशिरसि जटावल्लिमुल्लासयन्ती
       स्वर्लोकादापतन्ती कनकगिरिगुहागण्डशैलात्स्खलन्ती
       क्षोणीपृष्ठे लुठन्ती दुरितचयचमू निर्भरं भर्त्सयन्ती
       पाथोधिं पूरयन्ती सुरनगरसरित्पावनी नः पुनातु ॥३॥
        मज्जन्मातंगकुंभच्युतमदमदिरामोदमत्तालिजालं
        स्नानैः सिद्धांगनानां कुचयुगविगलत्कुङ्कुमासंगपिङ्गम् ।
        सायं प्रातर्मुनीनां कुशकुसुमचयैश्छन्नतीरस्थनीरं
        पायान्नो गांगमंभः करिकरमकराक्रान्तरंहस्तरंगम् ॥४॥
        आदावादिपितामह्स्य नियमव्यापारपात्रे जलं
        पश्चात् पन्नगशायिनो भगवतः पादोदकं पावनम्।
        भूयः शंभुजटाविभूषणमणिर्जह्नोर्महर्षेरियं
        कन्या कल्मषनाशिनी भगवती भागीरथी पातु माम् ॥५॥
        शैलेन्द्रादवतारिणी निजजले मज्जज्जनोत्तारिणी
        पारावारविहारिणी भवभयश्रेणीसमुत्सारिणी  ।
        शेषांगैरनुकारिणी हरशिरोवल्लीदलाकारिणी
        काशीप्रान्तविहारिणी विजयते गंगा मनोहारिणी ॥६॥
       कुतो वीची वीचीस्तव यदि गता लोचनपथं
       त्वमापीता पीतांबरपुरनिवासं वितरसि।
       त्वदुत्संगे पतति यदि कायस्तनुभृतां
       तदा मातः शान्तक्रतवपदलाभोऽप्यति लघुः ॥७॥
       भगवति तव तीरे नीरमात्राशनोऽहं
       विगतविषयतृष्णः कृष्णमाराधयामि ।
       सकलकलुषभंगे स्वर्गसोपानसंगे
       तरलतरतरंगे देवि गंगे प्रसीद ॥८॥
       मातर्जाह्नवि शंभुसंगमिलिते मौलौ निधायाञ्जलिं
       त्वत्तीरे वपुषोऽवसानसमये नारायणांघ्रिद्वयम् ।
       सानन्दं स्मरतो भविष्यति मम प्राणप्रयाणोत्सवे
       भूयाद्भक्तिरविच्युता हरिहराद्वैतात्मिका शाश्वती ॥९॥
       गंगाष्टकमिदं पुण्यं यः पठेत् प्रयतो नरः

       सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ॥१०॥