HYMNS TO SRIMATA – NAVARATNAMAALIKA

नवरत्नमालिका
    (श्रीशंकराचार्यकृतम्)
हारनूपरकिरीटकुण्डलविभूषितावयवशोभिनीं
कारणेशवरमौलिकोटिपरिकल्प्यमानपदपीठिकाम्
कालकालफणिपाशबाणधनुरङ्कुशामरुणमेखलां
फालभूतिलकलोचनां मनसि भावयामि
परदेवताम् ॥ १ ॥
गन्धसारघनसारचारुनवनागवल्लिरसवासिनीं
सान्ध्यरागमधुराधराभरणसुन्दराननशुचिस्मिताम्
मन्थरायतविलोचनाममलबालचन्द्रकृतशेखरीं
इन्दिरारमणसोदरीं मनसि भावयामि
परदेवताम् ॥ २ ॥
स्मेरचारुमुखमण्डलां विमलगण्डलम्बिमणिमण्डलां
हारदामपरिशोभमानकुचभारभीरुतनुमध्यमाम्
वीरगर्वहरनूपुरां विविधकारणेशवरपीठिकां
मारवैरिसहचारिणीं मनसि भावयामि
परदेवताम् ॥ ३ ॥
भूरिभारधरकुण्डलीन्द्रमणिबद्धभूवलयपीठिकां
वारिराशिमणिमेखलावलयवह्निमण्डलशरीरिणीम्
वारिसारवहकुण्डलां गगनशेखरीं
च परमात्मिकां
चारुचन्द्रविलोचनां मनसि भावयामि
परदेवताम् ॥ ४ ॥
कुण्डलत्रिविधकोणमण्डलविहारषड्दलसमुल्लसत्
पुण्डरीकमुखभेदिनीं तरुणचण्डभानुतडिदुज्ज्वलाम्
मण्डलेन्दुपरिवाहितामृततरङ्गिणीमरुणरूपिणीं
मण्डलान्तमणिदीपिकां मनसि भावयामि
परदेवताम् ॥ ५ ॥
वारणाननमयूरवाहमुखदाहवारणपयोधरां
चारणादिसुरसुन्दरीचिकुरशेखरीकृतपदांबुजाम्
कारणाधिपतिपञ्चकप्रकृतिकारणप्रथममातृकां
वारणान्तमुखपारणां मनसि भावयामि
परदेवताम् ॥ ६ ॥
पद्मकान्तिपदपाणिपल्लवपयोधराननसरोरुहां
पद्मरागमणिमेखलावलयनीविशोभितनितम्बिनीम्
पद्मसम्भवसदाशिवान्तमयपञ्चरत्नपदपीठिकां
पद्मिनीं प्रणवरूपिणीं मनसि
भावयामि परदेवताम् ॥ ७ ॥
आगमप्रणवपीठिकाममलवर्णमंगलशरीरिणीं
आगमावयवशोभिनीमखिलवेदसारकृतशेखरीम्
मूलमन्त्रमुखमण्डलां मुदितनादबिन्दुनवयौवनां
मातृकां त्रिपुरसुन्दरीं मनसि
भावयामि परदेवताम् ॥ ८ ॥
कालिकातिमिरकुन्तलान्तघनभृङ्गमङ्गलविराजिनीं
चूलिकाशिखरमालिकावलयमल्लिकासुरभिसौरभाम्
वालिकामधुरगण्डमण्डलमनोहराननसरोरुहाम्
कालिकामखिलनायिकां मनसि भावयामि
परदेवताम् ॥ ९ ॥
नित्यमेव नियमेन जल्पतां
भुक्तिमुक्तिफलदामभीष्टदाम्
शंकरेण रचितां सदा जपे
न्नामरत्ननवरत्नमालिकाम् ॥ १०

HYMNS TO SRIMATA – DEVI BHUJANGA STOTRAM

      देवीभुजङ्गस्तोत्रम्

     (श्री शंकराचार्यकृतम्)
विरिञ्च्यादिभिः पञ्चभिर्लोकपालैः
समूढे महानन्दपीठे निषण्णम् ।
धनुर्बाणपाशाङ्कुशप्रोतहस्तं
महस्त्रैपुरं शंकराद्वैतमव्यात् ॥ १ ॥
यदन्नादिभिः पञ्चभिः कोशजालैः
शिरः पक्षपुच्छात्मकैरन्तरन्तः ।
निगूढे महायोगपीठे निषण्णं
पुरारेरथान्तःपुरं नौमि नित्यम् ॥ २ ॥
विनोदाय चैतन्यमेकं विभज्य
द्विधा देवि जीवः शिवश्चेति नाम्ना ।
शिवस्यापि जीवत्वमापादयन्ती
पुनर्जीवमेनं शिवं वा करोषि ॥ ३ ॥
समाकुञ्च्य मूलं हृदि न्यस्य वायुं
मनो भ्रूबिलं प्रापयित्वा निवृत्ताः ।
ततः सच्चिदानन्दरूपे पदे ते
भवत्यंब जीवाः शिवत्वेन केचित् ॥ ४ ॥
शरीरेऽतिकष्टे रिपौ पुत्रवर्गे
सदाभीतिमूले कलत्रे धने वा ।
न कश्चिद्विरज्यत्यहो देवि चित्रं
कथं त्वत् कटाक्षं विना तत्वबोधः ॥ ५ ॥
शरीरे धनेऽपत्यवर्गे कलत्रे
विरक्तस्य सद्देशिकादिष्टबुद्धेः ।
यदाकस्मिकं ज्योतिरानन्दरूपं
समाधौ भवेत्तत्त्वमस्यम्ब सत्यम् ॥ ६ ॥
मृषान्यो मृषान्यः परो मिश्रमेनं
परः प्राकृतं चापरो बुद्धिमात्रम् ।
प्रपञ्चं मिमीते मुनीनां गणोऽयं
तदेतत्त्वमेवेति न त्वां जहीमः ॥ ७ ॥
कीर्तिः प्रतिष्ठा च विद्या च शान्ति-
स्तथा शान्त्यतीतेति पञ्चीकृताभिः ।
कलाभिः परैः पञ्चविंशात्मिकाभि-
स्त्वमेकैव सेव्या शिवाभिन्नरूपा ॥ ८ ॥
अगाधेऽत्र संसारपङ्के निमग्नं
कलत्रादिभारेण खिन्नं नितान्तम् ।
महामोहपाशौघबद्धं चिरान्मां
समुद्धर्तुमम्ब त्वमेकैव शक्ता ॥ ९ ॥
गणेशैर्ग्रहैरम्ब नक्षत्रपङ्क्त्या
तथा योगिनीराशिपीठैरभिन्नम् ।
महाकालमात्मानमामृश्य लोकं
विधत्से कृतिं वा स्थितिं वा महेशि ॥ १०॥
लसत्तारहारामतिस्वच्छचेलां
वहन्तीं करे पुस्तकं चाक्षमालाम् ।
शरच्चन्द्रकोटिप्रभाभासुरां त्वां
सकृद्भावयन् भारतीवल्लभः स्यात् ॥ ११ ॥
समुद्यत्सहस्रार्कबिम्बाभवक्त्रां
स्वभासैव सिन्दूरिताजाण्डकोटिम् ।
धनुर्बाणपाशाङ्कुशान् धारयन्तीं
स्मरन्तः स्मरं चापि सम्मोहयेयुः ॥ १२ ॥
मणिस्यूतताटङ्कशोणास्यबिम्बां
तडित्पीतवस्त्रां त्वगुल्लासिभूषाम् ।
सदा भावयन् तप्तहेमप्रभां त्वां
श्रियो नाशयत्यम्ब चाञ्चल्यभावम् ॥ १३ ॥
महामन्त्रराजान्तबीजं पराख्यं
स्वतो न्यस्तबिन्दुं स्वयं न्यस्त हार्दम् ।
भवद्वक्त्रवक्षोजगुह्याभिधानं
स्वरूपं सकृद्भावयेत्सत्वमेव ॥ १४ ॥
तथान्ये विकल्पेषु निर्विण्णचित्ताः
तदेवं समाधाय बिन्दुत्रयं ते ।
परानन्दसंधानसिन्धौ निमग्नाः
पुनर्गर्भरन्ध्रं न पश्यन्ति धीराः ॥ १५ ॥
त्वदुन्मेषलीलानुबन्धाधिकारान्
विरिञ्च्यादिकांस्त्वद्गुणाम्भोधिबिन्दून् ।
भजन्तस्तितीर्षन्ति संसारसिन्धुं
शिवे तावकानां सुसम्भावनेयम् ॥ १६ ॥
कदा वा भवत्पादपोतेन तूर्णं
भवाम्भोधिमुत्तीर्य पूर्णान्तरङ्गः ।
निमज्जन्तमेनं दुराशाविषाब्धौ
समालोक्य लोकं कथं पर्युदास्से ॥ १७ ॥
कदा वा हृषीकाणि साम्यं भजेयुः
कदा वा न शत्रुर्न मित्रं भवानि ।
कदा वा दुराशा विषूची विलोपः
कदा वा मनो मे समूलं विनश्येत् ॥ १८ ॥
नमोवाकमाशास्महे देवि युष्मत्-
पदाम्भोजयुग्माय तिग्माय गौरि ।
विरिञ्च्यादिभास्वत्किरीटप्रतोली-
प्रदीपप्रतानप्रभाभास्वराय ॥ १९ ॥
कचे चन्द्ररेखं कुचे तारहारं
करे स्वादु चापं शरे षट्पदौघम् ।
स्मरामि स्मरारेरभिप्रायमेकं
मदाघूर्णनेत्रं मदीयं निधानम् ॥ २० ॥
शरेष्वेव नासा धनुष्वेव जिह्वा
जपापाटले लोचने ते स्वरूपे ।
त्वगेषा भवच्चन्द्रखण्डे श्रवो मे
गुणे ते मनोवृतिरम्ब त्वयि स्यात् ॥ २१ ॥
जगत्कर्मधीरान् वचोधूतकीरान्
कुचन्यस्तहारान् कृपासिन्धुपूरान् ।
भवाम्भोदिपारान् महापापदूरान्
भजे वेदसारान् शिवप्रेमदारान् ॥ २२ ॥
सुधासिन्धुसारे चिदानन्दनीरे
समुत्फुल्लनीपे सुरत्नान्तरीपे ।
मणिव्यूहसाले स्थिते हैमशाले
मनोजारिवामे निषण्णं मनो मे ॥ २३ ॥
दृगन्ते विलोला सुगन्धीषुमाला
प्रपञ्चेन्द्रजाला विपत्सिन्धुकूला ।
मुनिस्वान्तशाला नमल्लोकपाला
हृदि प्रेमलोलाऽमृतस्वादुलीला ॥ २४ ॥
जगज्जालमेतत्त्वयैवाम्ब सृष्टं
त्वमेवाददासीन्द्रियैरर्थजालम् ।
त्वमेकैव कर्त्री त्वमेकैव भोक्त्री
न मे पुण्यपापे न मे बन्धमोक्षौ ॥ २५ ॥
इति प्रेमभारेण किञ्चिन्मयोक्तं
न बुद्ध्वैव तत्त्वं मदीयं त्वदीयम् ।
विनोदाय बालस्य मौर्ख्यं हि मातः
तदेतत् प्रलापस्तुतिं मे गृहाण ॥ २६ ॥
             ***

HYMNS TO SRIMATA – GAURI DASAKAM

गौरीदशकम्
    (श्री शङ्कराचार्यकृतम्)
 लीलालब्धस्थापितलुप्ताखिललोकां
 लोकातीतैर्योगिभिरन्तश्चिरमृग्याम् ।
 बालादित्यश्रेणिसमानद्युतिपुञ्जां
 गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ १ ॥
अशापाशक्लेशविनाशं विदधानां
पादांभोजध्यानपराणां पुरुषाणाम् ।
ईशामीशार्धाङ्गहरां तामभिरामां
गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ २ ॥
नानाकारैश्शक्तिकदम्बैर्भुवनानि
व्याप्य स्वैरं क्रीडति येयं स्वयमेका ।
कल्याणीं तां कल्पलतामानतिभाजां
गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ ३ ॥
मूलाधारादुत्थितरीत्या विधिरन्ध्रं
सौरं चान्द्रं व्याप्य विहारज्वलितांगीम् ।
येयं सूक्ष्मात् सूक्ष्मतनुस्तां सुखरूपां
गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ ४ ॥
यस्यामोतं प्रोतमशेषं मणिमाला-
सूत्रे यद्वत् क्वापि चरं चाप्यचरं च ।
तामध्यात्मज्ञानपदव्या गमनीयां
गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ ५ ॥
प्रत्याहारध्यानसमाधिस्थितिभाजां
नित्यं चित्ते निर्वृतिकाष्ठां कलयन्तीम् ।
सत्यज्ञानानन्दमयीं तां तनुमध्यां
गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ ६ ॥
चन्द्रापीडानन्दितमन्दस्मितवक्त्रां
चन्द्रापीडालंकृतनीलालकभाराम् ।
इन्द्रोपेन्द्रार्चितपादांबुजयुग्मां
गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ ७ ॥
आदिक्षान्तामक्षरमूर्त्या विलसन्तीं
भूते भूते भूतकदम्बप्रसवित्रीम् ।
शब्दब्रह्मानन्दमयीं तां तडिदाभां
गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ ८ ॥
यस्याः कुक्षौ लीनमखण्डं जगदण्डं
भूयो भूयः प्रादुरभूदुत्थितमेव ।
पत्या सार्धं राजतशैले विहरन्तीं
गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ ९ ॥
नित्यः शुद्धो निष्कल एको जगदीशः
साक्षी यस्याः सर्गविधौ संहरेण च ।
विश्वत्राणक्रीडनलोलां शिवपत्नीं
गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ १० ॥
प्रातःकालॆ भावविशुद्धिं विदधानो
भक्त्या नित्यं जल्पति गौरीदशकं यः ।
वाचां सिद्धिं संपदमुच्चैश्शिवभक्तिं
तस्यावश्यं पर्वतपुत्री विदधाति ॥ ११ ॥

HYMNS TO SRIMATA – SRIMANTRAMATRUKA PUSHPAMALA STAVA

श्रीमंत्रमातृकापुष्पमालास्तवः
           (श्रीशंकराचार्यकृतं)
 
कल्लोलोल्लसितामृताब्धिलहरीमध्येविराजन्मणि-
द्वीपे कल्पकवाटिका परिवृते कादम्बवाट्युज्ज्वले ।
रत्नस्तंभसहस्रनिर्मितसभामध्ये विमानोत्तमे
चिन्तारत्नविनिर्मितं जननि ते सिंहासनं भावये ॥ १ ॥

 एणाङ्कानलभानुमण्डललसत् श्रीचक्रमध्ये स्थितां
बालार्कद्युतिभासुरां करतलैः पाशाङ्कुशौ बिभ्रतीम् ।
चापं बाणमपि प्रसन्नवदनां कौसुम्भवस्त्रान्वितां
तां त्वां चन्द्रकलावतंसमकुटां चारुस्मितां भावये ॥ २ ॥
ईशानादिपदं शिवैकफलकं रत्नासनं ते शुभं
पाद्यं कुङ्कुमचन्दनादिभरितैरर्घ्यं सरत्नाक्षतैः ।
शुद्धैराचमनीयकं तव जलैर्भक्त्या मया कल्पितं
कारुण्यामृतवारिधे तदखिलं सन्तुष्टये कल्पताम् ॥ ३ ॥
लक्ष्ये योगिजनस्य रक्षितजगज्जाले विशालेक्षणे
प्रालेयांबु पटीरकुङ्कुमलसत् कर्पूरमिश्रोदकैः ।
गोक्षीरैरपि नारिकेलसलिलैः शुद्धोदकैर्मन्त्रितैः
स्नानं देवि धिया मयैतदखिलं सन्तुष्टये कल्पताम् ॥ ४ ॥
ह्रीङ्काराङ्कितमन्त्रलक्षिततनो हेमाचलात्संचितैः
रत्नैरुज्ज्वलमुत्तरीयसहितं कौसुंभवर्णांशुकम् ।
मुक्तासन्तति यज्ञसूत्रममलं सौवर्णतन्तूद्भवं
दत्तं देवि धिया मयैतदखिलं सन्तुष्टये कल्पताम् ॥ ६ ॥
हंसैरप्यतिलोभनीयगमने हारावलीमुज्ज्वलां
हिन्दोलद्युतिहीरपूरिततरे हेमाङ्गदे कङ्कणे ।
मंजीरौ मणिकुण्डले मकुटमप्यर्धेन्दुचूडामणिं
नासामौक्तिकमङ्गुलीयकटकौ कञ्चीमपि स्वीकुरु ॥ ७ ॥
सर्वाङ्गे घनसारकुङ्कुमलसत् श्रीगन्धपङ्काङ्कितं
कस्तूरीतिलकं च भालफलके गोरोचनापत्रकम् ।
गण्डादर्शनमण्डले नयनयोर्दिव्याञ्जनं तेऽञ्चितं
कण्ठाब्जे मृगनाभिपङ्कममलं त्वत्प्रीतये कल्पताम् ॥ ८ ॥
कल्हारोत्पलमल्लिकामरुवकैः सौवर्णपङ्केरुहैः
जातीचंपकमालतीवकुलकैः मन्दारकुन्दादिभिः ।
केतक्या करवीरकैर्बहुविधैः कॢप्ताः स्रजोमालिकाः
सङ्कल्पेन समर्पयामि वरदे संतुष्टये गृह्यताम् ॥ ९ ॥
हन्तारं मदनस्य नन्दयसि यैरङ्गैरनंगोज्ज्वलैः
यैर्भृङ्गावलिनीलकुन्तलभरैः बध्नासि तस्याशयम् ।
तानीमानि तवाम्ब कोमलतराण्यामोदलीलागृहा-
ण्यामोदाय दशाङ्गगुग्गुलुकृतैः धूपैरहं धूपये ॥ १० ॥
 
लक्षीमुज्ज्वलयामि रत्ननिवहोद्भास्वत्तरे मन्दिरे
मालारूपविलम्बितैर्मणिमयस्तम्भेषु सम्भावितैः ।
चित्रैर्हाटकपुत्रिकाकरधृतैः गव्यैर्घृतैर्वर्धितैः
दिव्यैर्दीपगणैर्धिया गिरिसुते संतुष्टये कल्पताम् ॥ ११ ॥
ह्रीङ्कारेश्वरि तप्तहाटककृतैः स्थालीसहस्रैर्भृतं
दिव्यान्नं घृतसूपशाकभरितं चित्रान्नभेदं तथा ।
शाल्यन्नं मधुशर्करादधियुतं माणिक्यपात्रेस्थितम्
माषापूपसहस्रमम्ब सफलं नैवेद्यमावेदये ॥ १२ ॥
सच्छायैर्वरकेतकीदलरुचा ताम्बूलवल्लीदलैः
पूगैर्भूरिगुणैस्सुगन्धिमधुरैः कर्पूरखण्डोज्ज्वलैः ।
मुक्ताचूर्णविराजितैर्बहुविधैः वक्त्राम्बुजामोदनैः
पूर्णा रत्नकलाचिका तव मुदे न्यस्ता पुरस्तादुमे ॥ १३ ॥
कन्याभिः कमनीयकान्तिभिरलङ्कारामलारार्तिका
पात्रे मौक्तिकचित्रपंक्तिविलसत् कर्पूरदीपालिभिः ।
तत्तत्तालमृदङ्गगीतसहितं नृत्यत्पदाम्भोरुहं
मन्त्राराधनपूर्वकं सुविहितं नीराजनं गृह्यताम् ॥ १४ ॥
लक्ष्मीर्मौक्तिकलक्षकल्पितसितच्छत्रं तु धत्ते रसात्
इन्द्राणी च रतिश्च चामरवरे धत्ते स्वयं भारती ।
वीणामेणविलोचनाः सुमनसां नृत्यन्ति तद्रागवद्
भावैराङ्गिकसात्विकैः स्फुटरसं मातस्तदाकर्ण्यताम् ॥ १५ ॥
ह्रीङ्कारत्रयसंपुटेन मनुनोपास्ये त्रयीमौलिभिर्-
वाक्यैर्लक्ष्यतनो तवस्तुतिविधौ को वा क्षमेताम्बिके ।
सल्लापाः स्तुतयः प्रदक्षिणशतं सञ्चार एवास्तुते
संवेशो नमनः सहस्रमखिलं त्वत्प्रीतये कल्पताम् ॥ १६ ॥
श्रीमन्त्राक्षरमालया गिरिसुतां यः पूजयेच्चेतसा
सन्ध्यासु प्रतिवासरं सुनियतस्तस्यामलं स्यान्मनः ।
चित्तांभोरुहमण्डपे गिरिसुता नृत्तं विधत्ते रसात्
वाणी वक्त्रसरोरुहे जलधिजा गेहे जगन्मङ्गला ॥ १७ ॥
इति गिरिवरपुत्रीपादराजीवभूषा
भुवनममलयन्ती सूक्तिसौरभ्यसारैः ।
शिवपदमकरन्दस्यन्दिनीयं निबद्धा
मदयतु कविभृङ्गान् मातृकापुष्पमाला ॥ १८ ॥

HYMNS TO SRIMATA – DEVI MANGALASHTAKAM

 श्रीदेवीमङ्गलाष्टकम्
कनत्कनकताटङ्कविलसन्मुखपङ्कजे ।
कारुण्यवारिधे त्वं मे सन्ततं मङ्गलं कुरु ॥ १ ॥
खण्डिताखिलदैतेये खर्वशून्यास्त्रवैभवे ।
गिरिराजसुतॆ देवि सन्ततं मङ्गलं कुरु ॥ २ ॥
घनराजिनिभाखर्वसुगन्धिकुटिलालके ।
चण्डमुण्डादिदर्पघ्नि सन्ततं मङ्गलं कुरु ॥ ३ ॥
छत्रीकृतयशोराशे छेदिताखिलपातके ।
जगदाधारसन्मूर्ते सन्ततं मङ्गलं कुरु ॥ ४ ॥
तत्वमस्यादिलक्ष्यार्थे तापत्रयविभंजिनि ।
दण्डनीतिस्थिते देवि सन्ततं मङ्गलं कुरु ॥ ५ ॥
धराधरसुते देवि धनधान्यविवर्धनि ।
दयमानासितापाङ्गे सन्ततं मङ्गलं कुरु ॥ ६ ॥
पञ्चप्रेतासनासीने पञ्चसंख्योपचारिणि ।
परमानन्दनिलये सन्ततं मङ्गलं कुरु ॥ ७ ॥
अकारादिक्षकारान्तवर्णरूपे महेश्वरि ।
अविद्यामूलविच्छेत्रि सन्ततं मङ्गलं कुरु ॥ ८ ॥
मंगलाष्टकमेतद्वै यः पठेत् भक्तिसंयुतः ।

आयुरारोग्यमैश्वर्यं पुत्रपौत्रादिकं लभेत् ॥ ९ ॥                ***

 

HYMNS TO SRIMATA – APADUNMOOLANA DURGA STOTRAM

आपदुन्मूलनदुर्गास्तोत्रम्
 
लक्ष्मीशे योगनिद्रां प्रभजति भुजगाधीशतल्पे सदर्पा-
वुत्पन्नौ दानवौ तच्छ्रवणमलमयाङ्गौ मधुं कैटभं च ।
दृष्ट्वा भीतस्य धातुः स्तुतिभिरभिनुतां आशु तौ नाशयन्तीं
दुर्गां देवीं प्रपद्ये शरणमहमशेषापदुन्मूलनाय ॥ १ ॥
युद्धे निर्जित्य दैत्यस्त्रिभुवनमखिलं यस्तदीय धिष्ण्ये-
ष्वास्थाप्य स्वान् विधेयान् स्वयमगमदसौ शक्रतां विक्रमेण ।
तं सामात्याप्तमित्रं महिषमभिनिहत्यास्यमूर्धाधिरूढां
दुर्गां देवीं प्रपद्ये शरणमहमशेषापदुन्मूलनाय ॥ २ ॥
विश्वोत्पत्तिप्रणाशस्थितिविहृतिपरे देवि घोरामरारि-
त्रासात् त्रातुं कुलं नः पुनरपि च महासङ्कटेष्वीदृशेषु ।
आविर्भूयाः पुरस्तादिति चरणनमत् सर्वगीर्वाणवर्गां
दुर्गां देवीं प्रपद्ये शरणमहमशेषापदुन्मूलनाय ॥ ३ ॥
हन्तुं शुंभं निशुंभं विबुधगणनुतां हेमडोलां हिमाद्रा-
वारूढां व्यूढदर्पान् युधि निहतवतीं धूम्रदृक् चण्डमुण्डान् ।
चामुण्डाख्यां दधानां उपशमितमहारक्तबीजोपसर्गां
दुर्गां देवीं प्रपद्ये शरणमहमशेषापदुन्मूलनाय ॥ ४ ॥
ब्रह्मेशस्कन्दनारायणकिटिनरसिंहेन्द्रशक्तीः स्वभृत्याः
कृत्वा हत्वा निशुंभं जितविबुधगणं त्रासिताशेषलोकम् ।
एकीभूयाथ शुंभं रणशिरसि निहत्यास्थितां आत्तखड्गां
दुर्गां देवीं प्रपद्ये शरणमहमशेषापदुन्मूलनाय ॥ ५ ॥
उत्पन्ना नन्दजेति स्वयमवनितले शुंभमन्यं निशुंभम्
भ्रामर्याख्यारुणाख्या पुनरपि जननी दुर्गमाख्यं निहन्तुम् ।
भीमा शाकंभरीति त्रुटितरिपुभटां रक्तदन्तेति जातां
दुर्गां देवीं प्रपद्ये शरणमहमशेषापदुन्मूलनाय ॥ ६ ॥
त्रैगुण्यानां गुणानां अनुसरणकलाकेलि नानावतारैः
त्रैलोक्यत्राणशीलां दनुजकुलवनीवह्निलीलां सलीलाम् ।
देवीं सच्चिन्मयीं तां वितरितविनमत्सत्रिवर्गापवर्गां
दुर्गां देवीं प्रपद्ये शरणमहमशेषापदुन्मूलनाय ॥ ७ ॥
सिंहारूढां त्रिनेत्रां करतलविलसत् शंखचक्रासिरम्यां
भक्ताभीष्टप्रदात्रीं रिपुमथनकरीं सर्वलोकैकवन्द्याम् ।
सर्वालङ्कारयुक्तां शशियुतमकुटां श्यामलाङ्गीं कृशाङ्गीं
दुर्गां देवीं प्रपद्ये शरणमहमशेषापदुन्मूलनाय ॥ ८ ॥
त्रायस्वस्वामिनीति त्रिभुवनजननि प्रार्थना त्वय्यपार्था
पाल्यन्तेऽभ्यर्थनायां भगवति शिशवः किन्न्वनन्याः जनन्या ।
तत्तुभ्यं स्यान्नमस्येत्यवनतविबुधाह्लादिवीक्षाविसर्गां
दुर्गां देवीं प्रपद्ये शरणमहमशेषापदुन्मूलनाय ॥ ९ ॥
एतं सन्तः पठन्तु स्तवमखिलविपज्जालतूलानलाभं
हृन्मोहध्वान्तभानुप्रतिममखिलसङ्कल्पकल्पद्रुकल्पम् ।
दौर्गं दौर्गत्यघोरातपतुहिनकरप्रख्यमंहोगजेन्द्र-
श्रेणीपञ्चास्यदेश्यं विपुलभयदकालाहितार्क्ष्यप्रभावम्  ॥ १० ॥

          
                   ***

Note: It is believed that reciting this stotra is equal to reciting the whole of Durga Saptasati.

HYMNS TO SRIMATA – SRIKAMAKSHI STOTRAM

श्रीकामाक्षीस्तोत्रम्
कामाक्षिमातर्नमस्ते कामदानैकदक्षे स्थिते भक्तपक्षे
कामारिकान्ते कुमारि कालकालस्य भर्तुः करे दत्तहस्ते ।
कामाय कामप्रदात्रि कामकोटिस्थपूज्ये गिरं देहि मह्यम् ॥ १ ॥
कामाक्षिमातर्नमस्ते कामदानैकदक्षे स्थिते भक्तपक्षे
श्रीचक्रमध्येवसन्तीं भूतरक्षःपिशाचातिदुष्टान् हरन्तीम् ।
श्रीकामकोट्यां ज्वलन्तीं कामहीनैस्सुगम्यां भजे देहि वाचं ॥ २ ॥
कामाक्षिमातर्नमस्ते कामदानैकदक्षे स्थिते भक्तपक्षे
इन्द्रादिमान्ये सुधन्ये ब्रह्मविष्ण्वादिवन्द्ये गिरीन्द्रस्य कन्ये ।
मान्यां न मन्ये त्वदन्यं मानिताङ्घ्रिं मुनीन्द्रैः भजे मातरं त्वाम् ॥ ३ ॥
कामाक्षिमातर्नमस्ते कामदानैकदक्षे स्थिते भक्तपक्षे
सिंहाधिरूढे नमस्ते साधुहृत्पद्मगूढे हताशेषमूढे ।
रूढं हर त्वं गदं मॆ कण्ठशब्दं दृढं देहि वाग्वादिनि त्वं ॥ ४ ॥
कामाक्षिमातर्नमस्ते कामदानैकदक्षे स्थिते भक्तपक्षे
कल्याणदात्रीं जनित्रीं कञ्जपत्राभनेत्रां कलानाथवक्त्रां ।
श्रीस्कन्दपुत्रां सुवस्त्रां सच्चरित्रां शिवे त्वां भजे देहि वाचम् ॥ ५ ॥
कामाक्षिमातर्नमस्ते कामदानैकदक्षे स्थिते भक्तपक्षे
चन्द्रापीडां चतुरवदनां चञ्चलापाङ्गलीलां
कुन्दस्मेरां कुचभरनतां कुन्तलोद्धूतभृंगाम् ।
मारारातेर्मदनशिखिनं मांसलं दीपयन्तीं
कामाक्षीं तां कविकुलगिरां कल्पवल्लीमुपासे ॥ ६ ॥

                ***

HYMNS TO SRIMATA – SRI MEENAKSHI MANIMALAASHTAKAM

        ११. श्रीमीनाक्षीमणिमालाष्टकम्
मधुरापुरिनायिके नमस्ते मधुरालापिशुकाभिरामहस्ते ।
मलयध्वजपाण्ड्यराजकन्ये मयि मीनाक्षि कृपां विधेहि धन्ये ॥ १ ॥
कचनिर्जितकालमेघकान्ते कमलासेवितपादपङ्कजान्ते ।
मधुरापुरवल्लभेष्टकान्ते मयि मीनाक्षि दयां विधेहि शान्ते ॥ २ ॥
कुचयुग्मविधूतचक्रवाके कृपया पालितसर्वजीवलोके ।
मलयध्वजसन्ततेः पताके मयि मीनाक्षि कृपां निधेहि पाके ॥ ३ ॥
विधिवाहनजेतृकेलियाने विमतामोटनपूजितापदाने ।
मधुरेक्षणभावभूतमीने मयि मीनाक्षि कृपां विधेहि दीने ॥ ४ ॥
तपनीयपयोजिनीतटस्थे तुहिनप्रायमहीधरोदरस्थे ।
मदनारिपरिग्रहे कृतार्थे मयि मीनाक्षि कृपां निधेहि सार्थे ॥ ५ ॥
कलकीरकलोक्तिनाददक्षे  कलितानेकजगन्निवासिरक्षे ।
मदनाशुगहल्लकान्तपाणे मयि मीनाक्षि कृपां कुरु प्रवीणे ॥ ६ ॥
मधुवैरिविरिञ्चिमुख्यसेव्ये मनसा भावितचन्द्रमौलिसव्ये ।
तरसा परिपूरितयज्ञहव्ये मयि मीनाक्षि कृपां विधेहि भव्ये॥ ७ ॥
जगदम्ब कदम्बमूलवासे कमलामोदमुखेन्दुमन्दहासे ।
मदमन्दिरहारिदृग्विलासे मयि मीनाक्षि कृपां विधेहि दासे ॥ ८ ॥
पठतामनिशं प्रभातकाले मणिमालाष्टकमष्टभूतिदायी ।
घटिकाशतचातुरीं प्रदद्यात् करुणापूर्णकटाक्षसन्निवेशात् ॥ ९ ॥
                     ***

                      ***

HYMNS TO SRIMATA – MEENAKSHI PANCHARATNAM

१०. मीनाक्षीपञ्चरत्नम्
            (श्री शंकराचार्यकृतम्)
उद्यद्भानुसहस्रकोटिसदृशां केयूरहारोज्ज्वलां
बिम्बोष्ठीं स्मितदन्तपङ्क्तिरुचिरां पीताम्बरालङ्कृताम् ।
विष्णुब्रह्मसुरेन्द्रसेवितपदां तत्वस्वरूपां शिवां
मीनाक्षीं प्रणतोऽस्मि सन्ततमहं कारुण्यवारांनिधिम् ॥ १ ॥
मुक्ताहारलसत्किरीटरुचिरां पूर्णेन्दुवक्त्रप्रभां
शिञ्जन्नूपुरकिङ्किणीमणिधरां पद्मप्रभाभासुराम् ।
सर्वाभीष्टफलप्रदां गिरिसुतां वाणीरमासेवितां
मीनाक्षीं प्रणतोऽस्मि सन्ततमहं कारुण्यवारांनिधिम् ॥ २ ॥
श्रीविद्यां शिववामभागनिलयां ह्रीङ्कारमन्त्रोज्ज्वलां
श्रीचक्राङ्कितबिन्दुमध्यवसतिं श्रीमत्सभानायिकाम् ।
श्रीमत्षण्मुखविघ्नराजजननीं श्रीमज्जगन्मोहिनीं
मीनाक्षीं प्रणतोऽस्मि सन्ततमहं कारुण्यवारांनिधिम्॥ ३ ॥
श्रीमत्सुन्दरनायिकां भयहरां ज्ञानप्रदां निर्मलां
श्यामाभां कमलासनार्चितपदां नारायणस्यानुजाम् ।
वीणावेणुमृदङ्गवाद्यरसिकां नानाविधामम्बिकां
मीनाक्षीं प्रणतोऽस्मि सन्ततमहं कारुण्यवारांनिधिम् ॥ ४ ॥
नानायोगिमुनीन्द्रहृत्सुवसतिं  नानार्थसिद्धिप्रदां
नानापुष्पविराजिताङ्घ्रियुगलां नारायणेनार्चिताम् ।
नादब्रह्ममयीं परात्परतरां नानार्थतत्वात्मिकां
मीनाक्षीं प्रणतोऽस्मि सन्ततमहं कारुण्यवारांनिधिम् ॥ ५ ॥
                  ***
                  ***

HYMNS TO SRIMATA – AMBA STOTRAM

     ९. अम्बास्तोत्रं
   (स्वामि विवेकानन्दकृतं)
 का त्वं शुभे शिवकरे सुखदुःखहस्ते
आघूर्णितं भवजलं प्रबलोर्मिभङ्गैः ।
शान्तिं विधातुमिह किं बहुधा विभग्नाम्
मातः प्रयत्नपरमासि सदैव विश्वे ॥ १ ॥
संपादयन्त्यविरतं त्वविरामवृत्ता
या वै स्थिता कृतफलं त्वकृतस्य नेत्री ।
सा मे भवत्वनुदिनं वरदा भवानी
जानाम्यहं ध्रुवमियं धृतकर्मपाशा ॥ २ ॥
किं वा कृतं किमकृतं क्व कपाललेखः
किं कर्म वा फलमिहास्ति हि यां विना भोः ।
इच्छागुणैर्नियमिता नियमः स्वतन्त्रैः
यस्याः सदा भवतु सा शरणं ममाद्या ॥ ३ ॥
सन्तारयन्ति जलधिं जनिमृत्युजालं
संभावयन्त्यविकृतं विकृतं विभग्नम् ।
यस्या विभूतय इहामितशक्तिपालाः
नाश्रित्य तां वद कुतः शरणं व्रजामः ॥ ४ ॥
मित्रे रिपौ त्वविषमं तव पद्मनेत्रम्
स्वस्थेऽसुखे त्ववितथस्तव हस्तपातः ।
छाया मृतेस्तव दयात्वमृतं च मातः
मुञ्चन्तु मां न परमे शुभदृष्टयस्ते ॥ ५ ॥
क्वाम्बा शिवा क्व गृणनं मम हीनबुधेः
दॊर्भ्यां विधर्तुमिव यामि जगद्विधात्रीम् ।
चिन्त्यं श्रिया सुचरणं त्वभयप्रतिष्ठं
सॆवापरैरभिनुतं शरणं प्रपद्यॆ ॥ ६ ॥
या मा चिराय विनयत्यतिदुःखमार्गैः
आसिद्धितः स्वकलितैर्ललितैर्विलासैः ।
या मे मतिं सुविदधे सततं धरण्याम्
साम्बा शिवा मम गतिः सफलेऽफले वा ॥ ७ ॥
            ***