SHRI VEDAVYASASHTAKAM

   श्री वेदव्यासाष्टकम्
कलिमलास्तविवेकदिवाकरं
समवलोक्य तमोवलितं जनम्।
करुणया भुवि दर्शितविग्रहं
मुनिवरं तमहं सततं भजे॥१॥
भरतवंशसमुद्धरणेच्छया
स्वजननीवचसा परिनोदितः।
अजनयत्तनयत्रितयं 
प्रभु-
र्मुनिवरं तमहं सततं भजे॥२॥
मतिबलादि निरीक्ष्य कलौ नृणां
लघुतरं कृपया निगमांबुधेः।
समकरोदिह भागमनेकधा
मुनिवरं तमहं सततं भजे॥३॥
सकलधर्मनिरूपणसागरं
विविधचित्रकथासमलंकृतम्।
व्यरचयच्च पुराणकदंबकं
मुनिवरं तमहं सततं भजे॥४॥
श्रुतिविरोधसमन्वयदर्पणं
निखिलवादिमतान्ध्यविदारणम्।
ग्रथितवानपि सूत्रसमूहकं
मुनिवरं तमहं सततं भजे॥५॥
यदनुभाववशेन दिवंगतः
समधिगम्य महास्त्रसमुच्चयम्।
कुरुचमूमजयद्विजयो द्रुतम्
मुनिवरं तमहं सततं भजे॥६॥
समरवृत्तबोधसमीह्ययां
कुरुवरेण मुदा कृतयाचनः।
सपदि सूतमदादमलेक्षणं
मुनिवरं तमहं सततं भजे॥७॥
वननिवासपरौ कुरुदंपती
सुतशुचा तपसा च विकर्शितौ।
मृततनूजगणं समदर्शयन्
मुनिवरं तमहं सततं भजे॥८॥
व्यासाष्टकमिदं पुण्यं
ब्रह्मानन्देन कीर्तितम्
यः पठेन्मनुजो नित्यं
स भवेच्छास्त्रपारगः ॥९॥

THOTAKASHTAKAM

                          तोटकाष्टकम्
विदिताखिलशास्त्रसुधाजलधे
महितोपनिषद्कथितार्थनिधे
हृदये कलये विमलं चरणं
भव शङ्कर देशिक मे शरणम् ॥१॥
करुणावरुणालय पालय मां
भवसागरदुःखविदूनहृदम्।
रचयाखिलदर्शनतत्त्वमिदं
भव शङ्कर देशिक मे शरणम्  ॥२॥
भवता जनता सुहिता भविता
निजबोधविचारण चारुमते
कलयेश्वरजीवविवेकविदं
भव शङ्कर देशिक मे शरणम् ॥३॥
भव एव भवानिति मे नितरां
समजायत चेतसि कौतुकिता।
मम वारय मोहमहाजलधिं
भव शङ्कर देशिक मे शरणम् ॥४॥
सुकृतेऽधिकृते बहुधा भवतो
भविता समदर्शनलालसता ।
अतिदीनमिमं परिपालय मां
भव शङ्कर देशिक मे शरणम् ॥५॥
जगतीमवितुं कलिताकृतयो
विचरन्ति महामह्सश्छलतः।
अहिमांशुरिवात्र विभासि गुरो
भव शङ्कर देशिक मे शरणम् ॥६॥
गुरुपुङ्गव पुङ्गवकेतन ते
समतामयतां न हि कोऽपि सुधीः।
शरणागतवत्सल तत्वनिधे
भव शङ्कर देशिक मे शरणम् ॥७॥
विदिता न मया विशदैककला
न च किञ्चन काञ्चनमस्ति गुरो।
द्रुतमेव विधेहि कृपां सहजां
भव शङ्कर देशिक मे शरणम्  ॥८॥

Click here for an audio rendering of this stotra