SRISTAVAH

                                                            श्रीस्तवः
श्रीवत्सचिह्नमिश्रेभ्यो नम उक्तिमधीमहे।
यदुक्तयस्त्रयीकण्ठे यान्ति मङ्गलसूत्रताम्॥
              —-
स्वस्ति श्रीर्दिशतादशेषजगतां सर्गोपसर्गस्थितीः
स्वर्गं दुर्गतिमापवर्गिकपदं सर्वञ्च कुर्वन् हरिः।
यस्या वीक्ष्य मुखं तदिङ्गितपराधीनो विधत्तेऽखिलं
क्रिडेयं खलु नान्यथाऽस्य रसदा स्यादैकरस्यात्तया॥१॥
हे श्रीर्देवि समस्तलोकजननीं त्वां स्तोतुमीहामहे
युक्तां भावय भारतीं प्रगुणय प्रेमप्रधानां धियम्।
भक्तिं भन्दय नन्दयाश्रितमिमं दासं जनं तावकं
लक्ष्यं लक्ष्मि कटाक्षवीचिविसृतेः ते स्याम चामी वयम् ॥२॥
स्तोत्रं नाम किमामनन्ति कवयो यद्यन्यदीयान् गुणान्
अन्यत्र त्वसतोऽधिरोप्य फणितिस्सा तर्हि वन्ध्या त्वयि ।
सम्यक्सत्यगुणाभिवर्णनमथो ब्रूयुः कथं तादृशी
वाग्वाचस्पतिनाऽपि शक्यरचना त्वत्सद्गुणार्णोनिधौ॥३॥
ये वाचां मनसां च दुर्ग्रहतया ख्याता गुणास्तावकाः
तानेव प्रति साम्बुजिह्वमुदिताहै मामिका भारती।
हास्यं तत्तु न मन्महे न हि चकोर्येकाऽखिलां चन्द्रिकां
नालं पातुमिति प्रगृह्य रसनामासीत सत्यां तृषि॥४॥
क्षोदीयानपि दुष्टबुद्धिरपि निःस्नेहोऽप्यनीहोऽपि ते
कीर्तिं देवि लिहन्नहं न च बिभेम्यज्ञो न जिह्रेमि च।
दुष्येत्सा तु न तावता न हि शुनालीढाऽपि भागीरथी
दुष्येच्छ्‍वाऽपि न लज्जते न च बिभेत्यार्तिस्तु शाम्येच्छुनः ॥५॥
ऐश्वर्यं महदेव वाल्पमथवा दृश्येत पुंसां हि यत्
तल्लक्ष्म्याः समुदीक्षणात्तव यतः सार्वत्रिकं वर्तते।
तेनैतेन न विस्मयेमहि जगन्नाथोऽपि नारायणः
धन्यं मन्यत ईक्षणात्तव यतः स्वात्मानमात्मेश्वरः ॥६॥
ऐश्वर्यं यदशेषपुंसि यदिदं सौन्दर्यलावण्ययोः
रूपं यच्च हि मङ्गलं किमपि यल्लोके सदित्युच्यते।
तत्सर्वं त्वदधीनमेव यदतः श्रीरित्यभेदेन वा
यद्वा श्रीमदितीदृशेन वचसा देवि प्रथामश्नुते ॥७॥
देवि! त्वन्महिमावधिर्न हरिणा नापि त्वया ज्ञायते
यद्यप्येवमथापि नैव युवयोः सर्वज्ञता हीयते।
यन्नास्त्येव तदज्ञतामनुगुणां सर्वज्ञताया विदुः
व्योमांभोजमिदन्तया किल विदन् भ्रान्तोऽयमित्युच्यते ॥८॥
लोके वनस्पतिबृहस्पतितारतम्यं
यस्याः प्रसादपरिणाममुदाहरन्ति।
सा भारती भगवती तु यदीयदासी
तां देवदेवमहिषीं श्रियमाश्रयामः ॥९॥
यस्याः कटाक्षमृदुवीक्षणदीक्षणेन
सद्यस्समुल्लसित पल्लवमुल्ललास।
 
विश्वं विपर्यय समुत्थविपर्ययं प्राक्
तां देवदेवमहिषीं श्रियमाश्रयामः ॥१०॥
यस्याः कटाक्षवीक्षाक्षणलक्षं  लक्षिता महेशास्स्युः।
श्रीरङ्गराजमहिषी सा मामपि वीक्षतां लक्ष्मीः ॥११॥
       ॥इति श्रीस्तवः समाप्तः॥
अर्वाञ्चो यत्पदसरसिजद्वन्द्वमाश्रित्य पूर्वे
मूर्ध्ना यस्यान्वयमुपगताः देशिका मुक्तिमापुः।
सोऽयं रामानुजमुनिरपि स्वीयमुक्तिं करस्थां
यत्संबन्धादमनुत कथं वर्ण्यते कूरनाथः ॥  


  

KANDUKASTOTRAM

            कन्दुकस्तोत्रम्
अंबरगंगाचुंबितपादः पदतलविगलितगुरुतरशकटः
कालियनागक्ष्वेलनिहन्ता सरसिजनवदलविकसितनयनः।
कालघनालीकर्बुरकायः शरशतशकलितसुररिपुनिवहः

सन्ततमस्मान्पातु मुरारिः सततगसमजवखगपतिनिरतः


SRI KRISHNA ASHTOTHARA SATANAMA STOTRAM

     श्रीकृष्णाष्टोत्तरशतनामस्तोत्रम्
श्रीक्रुष्णः कमलानाथो वासुदेवः सनातनः
वसुदेवात्मजः पुण्यो लीलामानुषविग्रहः  ॥१-७॥
श्रीवत्सकौस्तुभधरो यशोदावत्सलो हरिः
चतुर्भुजात्तचक्रासिगदाशंखाद्युदायुधः     ॥८-११॥
देवकीनन्दनः श्रीशो नन्दगोपप्रियात्मजः
यमुनावेगसंहारी बलभद्रप्रियानुजः      ॥१२-१६॥
पूतनाजीवितहरः शकटासुरभञ्जनः
नन्दव्रजजनानन्दी सच्चिदानन्दविग्रहः  ॥१७-२०॥
नवनीतविलिप्ताङ्गो नवनीतनटोऽनघः
नवनीतनवाहारो मुचुकुंदप्रसादकः      ॥२१-२५॥
षोडशस्त्रीसहस्रेशो त्रिभंगीललिताकृतिः
शुकवागमृताब्धीन्दुः गोविन्दो गोविदां पतिः॥२६-३०॥
वत्सवाटचरोऽनन्तो धेनुकासुरमर्द्दनः
तृणीकृततृणावर्तो यमलार्जुनभञ्जनः     ॥३१-३५॥
उत्तालतालभेत्ता च तमालश्यामलाकृतिः
गोपगोपीश्वरो योगी कोटिसूर्यसमप्रभः   ॥३६-४०॥
इलापतिः परंज्योतिः यादवेन्द्रो यदूद्वहः
वनमाली पीतवासा पारिजातापहारकः  ॥४१-४७॥
गोवर्धनाचलोद्धर्त्ता गोपालस्सर्वपालकः
अजो निरञ्जनः कामजनकः कञ्जलोचनः॥४८-५४॥
मधुहा मथुरानाथो द्वारकानायको बली
वृन्दावनांतसञ्चारी तुलसीदामभूषणः   ॥५५-६०॥
स्यमन्तकमणेर्हर्ता नरनारायणात्मकः
कुब्जाकृष्टांबरधरो मायी परमपूरुषः     ॥६१-६५॥
मुष्टिकासुरचाणूरमल्लयुद्धविशारदः
संसारवैरि कंसारी मुरारी नरकान्तकः ॥६६-७०॥
अनादिब्रह्मचारी च कृष्णाव्यसनकर्शकः
शिशुपालशिरच्छेत्ता दुर्योधनकुलान्तकः ॥७१-७४॥
विदुराक्रूरवरदो विश्वरूपप्रदर्शकः
सत्यवाक्सत्यसंकल्पः सत्यभामारतो जयी ॥७५-८०॥
सुभद्रापूर्वजो विष्णुः भीष्ममुक्तिप्रदायकः
जगद्गुरुर्जगन्नाथो वेणुनादविशारदः    ॥८१-८६॥
वृषभासुरविध्वंसी बाणासुरबलांतकः
युधिष्ठिरप्रतिष्ठाता बर्हिबर्हावतंसकः  ॥८७-९०॥
पार्थसारथिरव्यक्तो गीतामृतमहोदधिः
कालीयफणिमाणिक्यरञ्जितश्रीपदांबुजः ॥९१-९४॥
दामोदरो यज्ञभोक्ता दानवेन्द्रविनाशकः
नारायणः परंब्रह्म पन्नगाशनवाहनः ॥९५-१००॥
जलक्रीडासमासक्तगोपीवस्त्रापहारकः
पुण्यश्लोकस्तीर्थपादो वेदवेद्यो दयानिधिः ॥१०१-१०५॥
सर्वभूतात्मकस्सर्वग्रहरूपी परात्परः ॥१०६-१०८॥
एवं कृष्णस्य देवस्य नाम्नामष्टोत्तरं शतं
कृष्णनामामृतं नाम परमानन्दकारकं
अत्युपद्रवदोषघ्नं परमायुष्यवर्धनम्

SRI RUKMINIHARANA SANDARBHA CHURNIKA

  

श्रीरुक्मिणीहरणसंदर्भ चूर्णिका    
इत्थं नवनीरदनिर्गत-संस्फुरन्नूत्नविद्युल्लतामिव,
मृगधरमण्डलात् बहिरागत्य-सञ्चरिष्णु-मृगाङ्गनामिव,
कमलभवनाख्य-नर्तकसमुद्धृत-यवनिकान्तर-संदृश्यमान-
मोहिनिदेवतामिव, देवदानवसंघात-करतलसव्यापसव्य-
समाकृष्यमाण-पन्नगेन्द्रपाशवलयित-पर्यायपरिभ्रांत-
मन्दराचलमन्थानमथ्यमान-घूर्णित-घुमुघुमायित-
महार्णवमध्यादाविर्भवदिन्दिरा-सुन्दरी-वैभवां
समनुज्ञापयन्तीमिव च स्थितां, बहुविधप्रभा-भासमानां,
श्रीकृष्णवल्लभां, श्रीचन्द्रशेखरगेहिनी-भवानी-
भवनान्निर्गतां, मानसकासार-हेमकमल-कानन-
विहरमाण-मत्तमरालगमनां, कनककलशयुगलसङ्काश
कर्कशपयोधरभार-परिकंपमान-मध्यभागां,
रत्नमुद्रिकालंकृत-पद्मरागरागरंजित-करकमलावलंबित-
सखिललामहस्तां, गण्डभागसंनृत्यमान-
काञ्चनकर्णपत्र-मयूखरोचिसुरुचिरां,
अरविन्दपरिमल-कुतूहलावतीर्ण-मत्तमधुकरश्रेणी-
सरालकुन्तलजाल-संवलित-मुखमण्डलां,
सुन्दरमन्दहासरोचिषा निखिलदिशासु
बालचन्द्रिका-सौन्दर्यमावाहयन्तीं,
अधरबिंबफलारुण-मरीचिमालिकाभिः
रदनकुन्दकुड्मलेष्वनुरागं संपादयन्तीं,
मन्मथकेतु-सन्निभोत्तरीयांशुकांशभाग-
विसरां, सुवर्णमेखलाघटित-मणिकिरणपटल-
रोचिर्भिः अकाल शक्रचापसञ्जननीं,
इक्षुचाप-चापनि:सृत-धगधगासमान-
कुसुमबाणसमूहसदृश-सुरुचिर-विलोकन-
निकरैः राजन्यवीरहृदयानि निर्भेदयन्तीं,
निखिलश्रुति-तोषदायि-
शिञ्जानमञ्जुमञ्जीरनिनदजनक-
पादसञ्चारेण स्ववल्लभागमनं
प्रतीक्षमाणां अलिनीलालकां पूर्णचन्द्रमुखीं
हरिणाक्षीं, प्रवालाधरां, कलकण्ठीं,
नवपल्लवांघ्रियुगलां, गण्डेभकुंभस्तनीं,
पुलिनश्रोणीं, इभेन्द्रयानां, अरुणांभोजातहस्तां,
महोत्पलगन्धीं, मृगराजमध्यां,  तां
देवमायामिव वीरमोहिनीं श्रीरुक्मिणीं ,
रथमारुरुक्षन्तीं दृष्ट्वा, चन्द्रमण्डलमुखः
कणठीवरेन्द्रवलग्नः, नवांभोजदलाक्षः,
तुलसीवनमालिकादिविराजमान-चारुतर-
विशालवक्षःस्थलः, नीलमेघसंकाश-
दिव्यमंगलविग्रहः, नागाराति गजेन्द्रहस्त-
सन्निभबाहुः, चक्रधारी पीतांबरः घनभूषान्वितः,
कंबुकण्ठः, विनयोत्कण्ठः, निखिल-
जगन्मोहकमन्दस्मितमुखांभोजः,
साक्षान्मन्मथमन्मथः,
श्रीकृष्णः शृगालमध्यात् स्वभागहारि-सिंहवत्,
शत्रुमध्यात् झटित्युद्धृत्य
स्वरथमद्ध्यारोपयामास –
तां राजकन्यां रथमारुरुक्षतीं
जहार कृष्णो द्विषतां समीक्षतां ।
रथं समारोप्य सुपर्णलक्षणं
राजन्यचक्रं परिभूय माधवः ॥
ततो ययौ रामपुरोगमैश्शनैः
शृगालमध्यादिवभागहृद्धरिः ॥
श्रीकृष्णाय रुक्मिणीवल्लभाय नमः

HYMNS TO KRISHNA – MUKUNDASHTAKAM

मुकुन्दाष्टकम्
 करारविन्देन पदारविन्दं
मुखारविन्दे विनिवेशयन्तम्
वटस्यपत्रस्य पुटे शयानं
बालं मुकुन्दं मनसा स्मरामि
॥ १ ॥
संहृत्यलोकान् वटपत्रमध्ये
शयानमाद्यन्तविहीनरूपम् ।
सर्वेश्वरं सर्वहितावतारं
बालं मुकुन्दं मनसा स्मरामि
॥ २ ॥
आलोक्यमातुर्मुखमादरेण
स्तन्यं पिबन्तं सरसीरुहाक्षम्
सच्चिन्मयं देवमनन्तरूपं
बालं मुकुन्दं मनसा स्मरामि
॥ ३ ॥
इन्दीवरश्यामलकोमलाङ्गं
इन्द्रादिदेवार्चितपादपद्मम्
सन्तानकल्पद्रुममाश्रितानां
बालं मुकुन्दं मनसा स्मरामि
॥ ४ ॥
कलिन्दजान्तस्थितकालियस्य
फणाग्ररङ्गे नटनप्रियं तम्
तत्पुच्छहस्तं शरदिन्दुवक्त्रं
बालं मुकुन्दं मनसा स्मरामि
॥ ५ ॥
शिक्येनिधायाज्यपयोदधीनि
कार्यात्गतायां व्रजनायिकायाम्
भुक्त्वा यथेष्टं कपटेन सुप्तं
बालं मुकुन्दं मनसा स्मरामि
॥ ६ ॥
लम्बालकं लम्बितहारयष्टिं
शृङ्गारलीलाङ्कुरदंतपंक्तिम्
बिम्बाधरापूरितवेणुनादं
बालं मुकुन्दं मनसा स्मरामि
॥ ७ ॥
उलूखले बद्धमुदारचौर्यं
उत्तुङ्गयुग्मार्जुनभङ्गलीलम्
उत्फुल्ल्पद्मायतचारुनेत्रम्
बालं मुकुन्दं मनसा स्मरामि
॥ ९ ॥
          
एवं मुकुन्दाष्टकमादरेण
सकृत् पठेद्यस्सलभते नित्यम्
ज्ञानप्रदं पापहरं पवित्रं
श्रियं च विद्यां च यशश्च मुक्तिम्
॥ १० ॥
      
***

       

HYMNS TO KRISHNA – SRI KRISHNASHTAKAM

 श्रीकृष्णाष्टकम्
वसुदेवसुतं देवं कंसचाणूरमर्दनम्
देवकीपरमानन्दं कृष्णं वन्दे
जगद्गुरुम् ॥ १ ॥
अतसीपुष्पसङ्काशं हारनूपुरशोभितम्
रत्नकङ्कणकेयूरं कृष्णं वन्दे
जगद्गुरुम् ॥ २ ॥
कुटिलालकसंयुक्तं पूर्णचन्द्रनिभाननम्
विलसत्कुण्डलधरं कृष्णं वन्दे
जगद्गुरुम् ॥ ३ ॥
मन्दारगन्धसंयुक्तं चारुहासं
चतुर्भुजम् ।
बर्हिपिञ्छावचूडांगं कृष्णं
वन्दे जगद्गुरुम् ॥ ४ ॥
उत्फुल्लपद्मपत्राक्षं नीलजीमूतसन्निभम्
यादवानां शिरोरत्नं कृष्णं
वन्दे जगद्गुरुम् ॥ ५ ॥
रुग्मिणीकेलिसंयुक्तं पीतांबर
सुशोभितम् ।
अवाप्ततुलसीगन्धं कृष्णं वन्दे
जगद्गुरुम् ॥ ६ ॥
गोपिकानां कुचद्वन्द्वकुङ्कुमाङ्कितवक्षसम्
श्रीनिकेतं महेष्वासं कृष्णं
वन्दे जगद्गुरुम् ॥ ७ ॥
श्रीवत्साङ्कं महोरस्कं वनमालाविराजितम्
शंखचक्रधरं देवं कृष्णं वन्दे
जगद्गुरुम् ॥ ८ ॥
कृष्णाष्टकमिदं पुण्यं प्रातरुत्थाय
यः पठेत् ।
कोटिजन्मकृतं पापं स्मरणेन
विनश्यति ॥ ९ ॥

 Click here for Ramachandra’s English Translation of this stotra 

HYMNS TO KRISHNA – SRIKRISHNA KESADIPADA VARNANA STOTRAM (FROM NARAYANEEYAM)

श्रीकृष्णकेशादिपादवर्णनस्तोत्रम्
    
       (नारायणीयान्तर्गतम्)
अग्रे पश्यामि तेजो निबिडतरकलायावलीलोभनीयं
पीयूषाप्लावितोऽहं तदनु तदुदरे
दिव्यकैशोरवेषम् ।
तारुण्यारम्भरम्यं परमसुखरसास्वादरोमाञ्चिताङ्गै-
रावीतं नारदाद्यैर्विलसदुपनिषद्सुन्दरीमण्डलैश्च
॥ १ ॥
नीलाभं कुञ्चिताग्रं घनममलतरं
संयतं चारुभङ्ग्या
रत्नोत्तंसाभिरामं वलयितमुदयच्चन्द्रकैः
पिञ्छजालैः ।
मन्दारस्रङ्निवीतं तव पृथुकबरीभारमालोकयेऽहं
स्निग्द्धश्वेतोर्ध्वपुण्ड्रामपि
च सुललितां फालबालेन्दुवीथीम् ॥ २ ॥
हृद्यं पूर्णानुकंपार्णवमृदुलहरी
चञ्चलभ्रूविलासैः
आनीलस्निग्द्धपक्ष्मावलि परिलसितं
नेत्रयुग्मं विभो ते ।
सान्द्रच्छायं विशालारुणकमलदलाकारमामुग्धतारं
कारुण्यालोकलीला शिशिरितभुवनं
क्षिप्यतां मय्यनाथे ॥ ३ ॥
उत्तुङ्गोल्लासिनासं हरिमणिमुकुरप्रोल्लसद्गण्डपाली-
व्यालोलत् कर्णपाशाञ्चितमकरमणी
कुण्डलद्वन्द्वदीप्रम् ।
उन्मीलद्दन्तपङ्क्तिः स्फुरदरुणतरच्छाय
बिम्बाधरान्तः
प्रीतिप्रस्यन्दिमन्दस्मितमधुरतरं
वक्त्रमुद्भासतां मे ॥ ४ ॥
बाहुद्वन्द्वेन रत्नाङ्गुलिवलयभृता
शोणपाणिप्रवाले-
नोपात्तां वेणुनालीं प्रसृतनखमयूखाङ्गुलीसङ्गशाराम्
कृत्वा वक्त्रारविन्दे सुमधुरविकसद्रागमुद्भाव्यमानैः
शब्दब्रह्मामृतैस्त्वं शिशिरितभुवनैः
सिञ्च मे कर्णवीथीम् ॥ ५ ॥
उत्सर्पत्कौस्तुभश्रीततिभिररुणितं
कोमलं कण्ठदेशं
वक्षः श्रीवत्सरम्यं तरलतरसमुद्दीप्तहारप्रतानम्
नानावर्णप्रसूनावलिकिसलयिनीं
वन्यमालां विलोल-
ल्लोलम्बां लम्बमानामुरसि तव
तथा भावये रत्नमालाम् ॥ ६ ॥
अंगे पंचांगरागैरतिशयविकसत्सौरभाकृष्टलोकं
लीनानेकत्रिलोकीविततिमपि कृशां
बिभ्रतं मध्यवल्लीम् ।
शक्राश्मन्यस्त तप्तोज्ज्वलकनकनिभं
पीतचेलं दधानं
ध्यायामो दीप्तरश्मि स्फुटमणिरशनाकिङ्किणी
मण्डितं त्वाम् ॥ ७ ॥
ऊरू चारू तवोरू घनमसृणरुचौ
चित्तचोरौ रमायाः
विश्वक्षोभं विशङ्क्य ध्रुवमनिशमुभौ
पीतचेलावृताङ्गौ ।
आनम्राणां पुरस्तान्न्यसनधृतस्मस्तार्थपालीसमुद्ग-
च्छायं जानुद्वयं च क्रमपृथुलमनोज्ञे
च जङ्घे निषेवे ॥ ८ ॥
मञ्जीरं मञ्जुनादैरिव पदभजनं
श्रेय इत्यालपन्तं
पादाग्रं भ्रान्तिमज्जत् प्रणतजनमनोमन्दरोद्धारकूर्मम्
उत्तुङ्गाताम्रराजन्नखरहिमकरज्योत्स्नया
चाश्रितानाम्
संताप ध्वान्तहन्त्रीं ततिमनुकलये
मङ्गलामङ्गुलीनाम् ॥ ९ ॥
योगीन्द्राणां त्वदङ्गेष्वधिकसुमधुरं
मुक्तिभाजां निवासो
भाक्तानां कामवर्षद्युतरुकिसलयं
नाथ ते पादमूलम् ।
नित्यं चित्तस्थितं मे पवनपुरपते
कृष्ण कारुण्यसिन्धो
हृत्वा निश्शेषतापान् प्रदिशतु
परमानन्दसन्दोहलक्ष्मीम्  ॥ १० ॥

                  ***                  

HYMNS TO KRISHNA – SRIGURUVATAPURANATHA PANCHARATNA STOTRAM

 श्रीगुरुवातपुरनाथपञ्चरत्नस्तोत्रम्
आदित्यादिप्रभृतिकमिदं चक्षुराद्यं
च तेजो
ज्ञानाज्ञाने स्फुरितमखिलं
येन नित्यं विभाति ।
तत्तादृक्षे सकलवचनागोचरे स्वप्रकाशे
त्वद्रूपेऽस्मिन् किमिव कथये
वातगेहाधिनाथ ॥ १ ॥
आकाशान्तं जगदखिलमप्यंशमात्रं
यदीयं
माया सेयं मरुदधिपते त्वत्स्वरूपैकदेशे
स त्वं कोणे क्वचन धरणेस्तिष्ठसे
देहधारी
कारुण्यं ते जगति कथये नाथ
तादृक् कथं वा ॥ २ ॥
दृश्यं सर्वं वरद भवतो देह
इत्यामनन्त्यां
श्रुत्यां सत्यामपि बत नृणां
जायते नैव बुद्धिः ।
इत्थंकारं कमपिच नवं कल्पयन्
देहभेदम्
भासि स्पष्टं तदपि भगवन् भाग्यहीनो
जनोऽयम् ॥ ३ ॥
मर्त्यामर्त्यप्रमुखमखिलं क्षेत्रजातं
त्वदीया
मायैव श्रीगुरुपुरपते साऽपि
नास्ति त्वदन्या ।
एको देवस्त्वमसि सकलक्षेत्र
साक्षी चिदात्मा
तत्वं किञ्चित् पृथगिह विभो
त्वां विना नैव जाने ॥ ४ ॥
सद्रूपाढ्यं भवति भवताऽधिष्ठितं
सर्वमेतत्
भानं नाम क्वचिदपि जडे नो भवन्तं
विनाऽन्यम् ।
प्रेम श्रीमन् जगति भवति त्वत्प्रतिच्छाययाऽस्मिन्
वातेशासावहमपि भवान् सच्चिदानन्दरूपः
॥ ५ ॥
                  ***

     

                  

HYMNS TO KRISHNA – SRI VATAPURANATHA ASHTAKAM

श्रीवातपुरनाथाष्टकम्
कुन्दसुम बृन्दसममन्दहसितास्यं
नन्दकुलनन्द भर तुन्दलनकन्दम्
पूतनिजगीतलवधूत दुरितं तम्
वातपुरनाथमिममातनु हृदब्जे
॥ १ ॥
नीलतर जालधर भालहरि रम्यं
लोलतर शीलयुत बालजनलीलम् ।
जालनति शीलमपि पालयितुकामं
वातपुरनाथमिममातनु हृदब्जे
॥ २ ॥
कंसरणहिंसमिह संसरणजात-
क्लान्तिभरशान्तिकर कान्ति
झरवीरम् ।
वातमुख धातुजनि पातभयघातं
वातपुरनाथमिममातनु हृदब्जे
॥ ३ ॥
जातु धुरि पातुकमिहातुरजनं
द्राक्
शोक भरमूकमपि तोकमिव पान्तम्
भृङ्गरुचिसंगरकृदङ्गलतिकं तं
वातपुरनाथमिममातनु हृदब्जे
॥ ४ ॥
पापभवतापभरकोपशमनार्त्था-
श्वासकर भासमृदुहासरुचिरास्यम्
रोगचय भोगभय वेगहरमेकं
वातपुरनाथमिममातनु हृदब्जे
॥ ५ ॥
घोषकुल दोषहर वेषमुपयान्तं
पूषशत भूषक विभूषण गणाढ्यम्
भुक्तिमपि मुक्तिमपि भक्तिषु
ददानं
वातपुरनाथमिममातनु हृदब्जे
॥ ६ ॥
पापक दुरापमतिचापहर शोभ-
स्वापघनमापतदुमापति समेतम्
दीनतर दीनसुखदानकृत दीक्षं
वातपुरनाथमिममातनु हृदब्जे
॥ ७ ॥
पादपतदादरण मोदपरिपूर्णं
जीवमुख देवजन सेवनफलाङ्घ्रिम्
रूक्ष भव मोक्षकृत दीक्ष जनवीक्षं
वातपुरनाथमिममातनु हृदब्जे
॥ ८ ॥
        
***

Click here for this hymn in Kannada Lipi  

श्रीकृष्णमानसपूजास्तोत्रम्

॥ श्रीशंकराचार्यविरचितम् ॥

हृदम्भोजे कृष्णस्सजलजलदश्यामलतनुः
सरोजाक्षः स्रग्वी मकुटकटकाद्याभरणवान् ।
शरद्राकानाथप्रतिमवदनः श्रीमुरलिकां
वहन् ध्येयो गोपीगणपरिवृतः कुङ्कुमचितः ॥ १ ॥

पयोम्भोधेर्द्वीपान्मम हृदयमायाहि भगवन्
मणिव्रातभ्राजत्कनकवरपीठं भज हरे ।
सुचिह्नौ ते पादौ यदुकुलज नेनेज्मि सुजलैः
गृहाणेदं दूर्वादलजलवदर्घ्यं मुररिपो ॥ २ ॥

त्वमाचामोपेन्द्र त्रिदशसरिदम्भोऽतिशिशिरं
भजस्वेमं पञ्चामृतरचितमाप्लावमघहन् ।
द्युनद्याः कालिन्द्या अपि कनककुम्भस्थितमिदं
जलं तेन स्नानं कुरु कुरु कुरुष्वाचमनकम् ॥ ३ ॥

तटिद्वर्णे वस्त्रे भज विजयकान्ताधिहरण
प्रलम्बारिभ्रातः मृदुलमुपवीतं कुरु गले ।
ललाटे पाटीरं मृगमदयुतं धारय हरे
गृहाणेदं माल्यं शतदलतुलस्यादिरचितम् ॥ ४ ॥

दशाङ्गं धूपं सद्वरद चरणाग्रेऽर्पितमिदं
मुखं दीपेनेन्दुप्रभ विरजसं देव कलये ।
इमौ पाणी वाणीपतिनुत सुकर्पूररजसा
विशोध्याग्रे दत्तं सलिलमिदमाचाम नृहरे ॥ ५ ॥

सदातृप्ताऽन्नं षड्रसवदखिलव्यञ्जनयुतं
सुवर्णामत्रे गोघृतचषकयुक्ते स्थितमिदम् ।
यशोदासूनो तत् परमदययाऽशान सखिभिः
प्रसादं वाञ्छद्भिः सह तदनु नीरं पिब विभो ॥ ६ ॥

सचूर्णं ताम्बूलं मुखशुचिकरं भक्षय हरे
फलं स्वादु प्रीत्या परिमलवदास्वादय चिरम् ।
सपर्यापर्याप्त्यै कनकमणिजातं स्थितमिदं
प्रदीपैरारार्तिं जलधितनयाश्लिष्ट रचये ॥ ७ ॥

विजातीयैः पुष्पैरतिसुरभिभिर्बिल्वतुलसी-
युतैश्चेमं पुष्पाञ्जलिमजित ते मूर्ध्नि निदधे ।
तव प्रादक्षिण्यक्रमणमघविद्ध्वंसि रचितं
चतुर्वारं विष्णो जनिपथगतिश्रान्तिद विभो(श्रान्तविदुषाम्) ॥ ८ ॥

नमस्कारोऽष्टाङ्गस्सकलदुरितध्वंसनपटुः
कृतं नृत्यं गीतं स्तुतिरपि रमाकान्त सततम्(तत इयम्) ।
तव प्रीत्यै भूयादहमपि च दासस्तव विभो
कृतं छिद्रं पूर्णं कुरु कुरु नमस्तेऽस्तु भगवन् ॥ ९ ॥

सदा सेव्यः कृष्णस्सजलघननीलः करतले
दधानो दध्यन्नं तदनु नवनीतं मुरलिकाम् ।
कदाचित् कान्तानां कुचकलशपत्रालिरचना-
समासक्तः स्निग्द्धैस्सह शिशुविहारं विरचयन् ॥ १० ॥

मणिकर्णीच्छया जातमिदं मानसपूजनम् ।
यः कुर्वीतोषसि प्राज्ञः तस्य कृष्णः प्रसीदति ॥ १ ॥

***