ADITYA STOTRAM

,;                    आदित्यस्तोत्रम्
हंसाय भुवनध्वान्तध्वंसायाऽमिततेजसे।
हंसवाहनरूपाय भास्कराय नमो नमः॥१॥

वेदान्ताय पतङ्गाय विहंगारूढमूर्तये।
हरिद्वर्णतुरंगाय भास्कराय नमो नमः॥२॥
भुवनत्रयदीपाय भुक्तिमुक्तिप्रदाय च।
भक्तदारिद्र्यनाशाय भास्कराय नमो नमः॥३॥
लोकालोकप्रकाशाय सर्वलोकैकचक्षुषे।
लोकोत्तरचरित्राय भास्कराय नमो नमः॥४॥
सर्वलोकप्रकाशाय सप्तसप्तिरथाय च ।
सप्तद्वीपप्रकाशाय भास्कराय नमो नमः॥५॥
मार्ताण्डाय द्युमणये भानवे चित्रभानवे।
प्रभाकराय मित्राय भास्कराय नमो नमः॥६॥
नमस्ते ब्रह्मरूपाय नमस्ते विष्णुरूपिणे।
नमस्ते रुद्ररूपाय भास्कराय नमो नमः॥७॥
सर्वज्ञानस्वरूपाय सहस्रकिरणाय च।
गीर्वाणभीतिनाशाय भास्कराय नमो नमः।॥८॥
सर्वदुःखोपशान्ताय सर्वपापहराय च।
सर्वव्याधिविनाशाय भास्कराय नमो नमः।॥९॥
सहस्रपत्रनेत्राय सहस्राक्षस्तुताय च।
सहस्रनामधेयाय भास्कराय नमो नमः।॥१०॥
नित्याय निरवद्याय निर्मलज्ञानमूर्तये।
निगमार्थप्रकाशाय भास्कराय नमो नमः।॥११॥
आदिमध्यान्तशून्याय वेदवेदान्तवेदिने।
नादबिन्दुस्वरूपाय भास्कराय नमो नमः॥१२॥
निर्मलज्ञानरूपाय रम्यतेजःस्वरूपिणे।
ब्रह्मतेजस्वरूपाय भास्कराय नमो नमः॥१३॥

नीतिज्ञानाय नित्याय निर्मलज्ञानमूर्तये
निगमार्थप्रकाशाय भास्कराय नमो नमः।॥१४॥
कष्टव्याधिविनाशाय दुष्टव्याधिहराय च।
इष्टार्थदायिने तस्मै भास्कराय नमो नमः।॥१५॥
भवरोगैकवैद्याय सर्वरोगापहारिणे।
एकनेत्रस्वरूपाय भास्कराय नमो नमः।॥१६॥
दारिद्र्यदोषनाशाय घोरपापहराय च।
हिरण्यवर्णदेहाय भास्कराय नमो नमः।॥१७॥
सर्वसंपद्प्रदात्रे च सर्वदुःखविनाशिने।
सर्वोपद्रवनाशाय भास्कराय नमो नमः।॥१८॥
नमो धर्मनिदानाय नमस्सुकृतसाक्षिणे।
नमः प्रत्यक्षरूपाय भास्कराय नमो नमः।॥१९॥
सर्वलोकैकपूर्णाय कलिकर्माघहारिणे।
नमः पुण्यस्वरूपाय भास्कराय नमो नमः।॥२०॥
द्वन्द्वव्याधिविनाशाय सर्वदुःखविनाशिने।
नमस्तापत्रयघ्नाय भास्कराय नमो नमः।॥२१॥
कालरूपाय कल्याणमूर्तये कारणाय च।
वेद्याय भयसंहर्त्रे भास्कराय नमो नमः।॥२२॥

SAURASHTAKAM

सौराष्टकम्
उदयाद्रिमस्तकमहामणिं लस-
त्कमलाकरैकसुहृदं महौजसम्।
गदपङ्कशोषणमघौघनाशनं
शरणं गतोऽस्मि रविमंशुमालिनम्॥१॥
तिमिरापहारनिरतं निरामयं
निजरागरञ्जितजगत्त्रयं विभुम्।
गदपङ्कशोषणमघौघनाशनं
शरणं गतोऽस्मि रविमंशुमालिनम्॥२॥
दिनरात्रिभेदकरमद्भुतं परं
सुरवृन्दसंस्तुतचरित्रमव्ययम्।
गदपङ्कशोषणमघौघनाशनं
शरणं गतोऽस्मि रविमंशुमालिनम्॥३॥
श्रुतिसारपारमजरामयं परं
रमणीयविग्रहमुदग्ररोचिषम्।
गदपङ्कशोषणमघौघनाशनं
शरणं गतोऽस्मि रविमंशुमालिनम्॥४॥
शुकपक्षतुण्डसदृशाश्वमण्डलं
अचलावरोहपरिगीतसाहसम् ।
गदपङ्कशोषणमघौघनाशनं
शरणं गतोऽस्मि रविमंशुमालिनम्॥५॥
श्रुतितत्त्वगम्यमखिलाक्षिगोचरं
जगदेकदीपमुदयास्तरागिणम्।
गदपङ्कशोषणमघौघनाशनं
शरणं गतोऽस्मि रविमंशुमालिनम्॥६॥
श्रितभक्तवत्सलमशेषकल्मष-
क्षयहेतुमक्षयफलप्रदायिनम्।
गदपङ्कशोषणमघौघनाशनं
शरणं गतोऽस्मि रविमंशुमालिनम्॥७॥
अहमन्वहं सतुरगक्षताटवी-
शतकोटिहालकमहामहीधनम्।
गदपङ्कशोषणमघौघनाशनं
शरणं गतोऽस्मि रविमंशुमालिनम्॥८॥
इति सौरमष्टकमहर्मुखे रविं
प्रणिपत्य यः पठति भक्तितो नरः।
स विमुच्यते सकलरोगकल्मषै-
स्सवितुस्समीपमपि सम्यगाप्नुयात् ॥९॥

SRI SURYA PRATAH SMARANA STOTRAM

     श्रीसूर्यप्रातःस्मरणस्तोत्रम्

प्रातः स्मरामि तत्सवितुर्वरेण्यं
रूपं हि मण्डलमृचोऽथ तनुर्यजूंषि।
सामानि यस्य किरणाः प्रभवादि हेतुं
ब्रह्माहरात्मकमलक्ष्यमचिन्त्यरूपम् ॥१॥
प्रातर्नमामि तरणिं तनुवाङ्मनोभि-
र्ब्रह्मेन्द्रपूर्वकसुरैर्नुतमर्चितं च।
वृष्टिप्रमोचनविनिग्रहहेतुभूतं
त्रैलोक्यपालनपरं त्रिगुणात्मकं च ॥२॥
प्रातर्भजामि सवितारमनन्तशक्तिं
पापौघशत्रुभयरोगहरं परं च।
तं सर्वलोककलनात्मककालमूर्तिं
गोकण्ठबन्धनविमोचनमादिदेवम् ॥३॥
श्लोकत्रयमिदं भानोः प्रातःकाले पठेत्तु यः।
स सर्वव्याधिविनिर्मुक्तः परं सुखमवाप्नुयात्॥४॥


SRI SURYAMANDALASHTAKAM

                   श्रीसूर्यमण्डलाष्टकम्
नमः सवित्रे जगदेकचक्षुषे
जगत्प्रसूतिस्थितिनाशहेतवे।
त्रयीमयाय त्रिगुणात्मधारिणे
विरञ्चिनारायणशङ्करात्मने ॥१॥
यन्मण्डलं दीप्तिकरं विशालं
रत्नप्रभं तीव्रमनादिरूपम्।
दारिद्र्यदुःखक्षयकारणं च
पुनातु मां तत्सवितुर्वरेण्यम् ॥२॥
यन्मण्डलं देवगणैः सुपूजितं
विप्रैः स्तुतं भावनमुक्तिकोविदम्।
तं देवदेवं प्रणमामि सूर्यं
पुनातु मां तत्सवितुर्वरेण्यम् ॥३॥
यन्मण्डलं ज्ञानघनं त्वगम्यं
त्रैलोक्यपूज्यं त्रिगुणात्मरूपम् ।
समस्ततेजोमयदिव्यरूपं
पुनातु मां तत्सवितुर्वरेण्यम् ॥४॥
यन्मण्डलं गूढमतिप्रबोधं
धर्मस्य वृद्धिं कुरुते जनानाम्।
यत्सर्वपापक्षयकारणं च
पुनातु मां तत्सवितुर्वरेण्यम् ॥५॥
यन्मण्डलं व्याधिविनाशदक्षं
यदृग्यजुःसामसु संप्रगीतम्।
प्रकाशितं येन च भूर्भुवः स्वः
पुनातु मां तत्सवितुर्वरेण्यम् ॥६॥
यन्मण्डलं  वेदविदो वदन्ति
गायन्ति यच्चारणसिद्धसंघाः।
यद्योगिनो योगजुषां च संघाः
पुनातु मां तत्सवितुर्वरेण्यम् ॥७॥
यन्मण्डलं सर्वजनेषु पूजितं
ज्योतिश्च कुर्यादिह मर्त्यलोके।
यत्कालकल्पक्षयकारणं च
पुनातु मां तत्सवितुर्वरेण्यम् ॥८॥
यन्मण्डलं विश्वसृजां प्रसिद्ध-
मुत्पत्तिरक्षाप्रलयप्रगल्भम्।
यस्मिञ्जगत्संहरतेऽखिलञ्च
पुनातु मां तत्सवितुर्वरेण्यम् ॥९॥
यन्मण्डलं सर्वगतस्यविष्णो-
रात्मा परं धाम विशुद्धतत्त्वम्।
सूक्ष्मान्तरैर्योगपथानुगम्यं
पुनातु मां तत्सवितुर्वरेण्यम् ॥१०॥
यन्मण्डलं  वेदविदो वदन्ति
गायन्ति यच्चारणसिद्धसंघाः।
यन्मण्डलं वेदविदः स्मरन्ति
पुनातु मां तत्सवितुर्वरेण्यम् ॥११॥
यन्मण्डलं वेदविदोपगीतं
यद्योगिनां योगपथानुगम्यम्।
तत्सर्ववेदं  प्रणमामि सूर्यं
पुनातु मां तत्सवितुर्वरेण्यम् ॥१२॥
मण्डलाष्टकमिदं पुण्यं
यः पठेत्सततं नरः ।
सर्वपापविशुद्धात्मा
सूर्यलोके महीयते ॥१३॥

SURYAASHTAKAM

                        सूर्याष्टकम्
आदिदेव नमस्तुभ्यं प्रसीद मम भास्कर।
दिवाकर नमस्तुभ्यं पभाकर नमोऽस्तु ते ॥१॥
सप्ताश्वरथमारूढं प्रचण्डं कश्यपात्मजम्।
श्वेतपद्मधरं देवं तं सूर्यं प्रणमाम्यहम् ॥२॥
लोहितं रथमारूढं सर्वलोकपितामहम्।
महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥३॥
त्रैगुण्यं च महाशूरं ब्रह्मविष्णुमहेश्वरम्।
महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥४॥
बृंहितं तेजःपुञ्जं च वायुमाकाशमेव च।
प्रभुं च सर्वलोकानां तं सूर्यं प्रणमाम्यहम् ॥५॥
बन्धूकपुष्पसङ्काशं हारकुण्डलभूषितम्।
एकचक्रधरं देवं तं सूर्यं प्रणमाम्यहम् ॥६॥
तं सूर्यं जगत्कर्तारं महातेजःप्रदीपनम्।
महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥७॥
तं सूर्यं जगतां नाथं ज्ञानविज्ञानमोक्षदम्।
महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥८॥

ADITYA HRIDAYAM (FROM VALMIKI RAMAYANAM)

                                               आदित्यहृदयस्तोत्रम्
               (वाल्मीकिरामायणांतर्गतम्)
ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितं ।
रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम् ॥
दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणं   ।
उपागम्याब्रवीद्रामं अगस्त्यो भगवान् ऋषिः॥
राम राम महाबाहो शृणु गुह्यं सनातनं ।
येन सर्वानरीन्वत्स समरे विजयिष्यसि ॥
आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनं  ।
जयावहं जपेन्नित्यं अक्षय्यं परमं शिवम् ॥
सर्वमंगलमांगल्यं सर्वपापप्रणाशनं ।
चिन्ताशोकप्रशमनं आयुर्वर्द्धनमुत्तमम् ॥
रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतं ।
पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम्॥
सर्वदेवात्मकोह्येष: तेजस्वी रश्मिभावनः।
एष देवासुरगणान् लोकान् पाति गभस्तिभिः ॥
एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः।
महेन्द्रो धनदः कालो यमः सोमो ह्यपांपतिः ॥
पितरो वसवः साध्याः ह्यश्विनौ मरुतो मनुः।
वायुर्वह्निः प्रजाप्राणः ऋतुकर्ता प्रभाकरः ॥
आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान् ।
सुवर्णसदृशो भानुः सुवर्णरेताः दिवाकरः ॥
हरिदश्वः सहस्रार्चिः सप्तसप्तिर्मरीचिमान्।
तिमिरोन्मथनः शंभुस्त्वष्टा मार्ताण्ड अंशुमान् ॥
हिरण्यगर्भः शिशिरस्तपनो भास्करो रविः।
अग्निगर्भोऽदितेःपुत्रः शंखः शिशिरनाशनः ॥
व्योमनाथस्तमोभेदी ऋग्यजुस्सामपारगः।
घनवृष्टिरपांमित्रो विन्ध्यवीथीप्लवंगमः ॥
आतपी मण्डली मृत्युः पिङ्गलः सर्वतापनः।
कविर्विश्वो महातेजाः रक्तः सर्वभवोद्भवः ॥
नक्षत्रग्रहताराणामधिपो विश्वभावनः।
तेजसामपि तेजस्वी द्वादशात्मन्नमोस्तु ते ॥
नमः पूर्वायगिरये पश्चिमायाद्रये नमः।
ज्योतिर्गणानां पतये दिनाधिपतये नमः ॥
जयाय जयभद्राय हर्यश्वाय नमो नमः
नमो नमः सहस्रांशो आदित्याय नमो नमः॥
नमः उग्राय वीराय सारंगाय नमो नमः।
नमः पद्मप्रबोधाय मार्ताण्डाय नमो नमः॥  
ब्रह्मेशानाच्युतेशाय सूर्यायादित्यवर्चसे।
भास्वते सर्वभक्षाय रौद्रायवपुषे नमः ॥
तमोघ्नाय हिमघ्नाय शत्रुघ्नायाऽमितात्मने।
कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः ॥
तप्तचामीकराभाय वह्नये विश्वकर्मणे।
नमस्तमोभिनिघ्नाय रुचये लोकसाक्षिणे ॥
नाशयत्येष वै भूतं तदेव सृजति प्रभुः।
पायत्येष तपत्येष वर्षत्येष गभस्तिभिः ॥
एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः।
एष एवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम्।।
वेदाश्च क्रतवश्चैव क्रतूनां फलमेव च।
यानि कृत्यानि लोकेषु सर्व एष रविः प्रभुः ॥
एनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च।
कीर्तयन्पुरुषः कश्चिन्नावसीदति राघव ॥
पूजयस्वैनमेकाग्रो देवदेवं जगत्पतिम्।
एतत्त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि ॥
अस्मिन् क्षणे महाबाहो रावणं त्वं वधिष्यसि।
एवमुक्त्वा तदागस्त्यो जगाम च यथागतम्॥
एतच्छ्रुत्वा महातेजा नष्टशोकोऽभवत्तदा।
धारयामास सुप्रीतो राघवः प्रयतात्मवान् ॥
आदित्यं प्रेक्ष्य जप्त्वा तु परं हर्षमवाप्तवान् ।
त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान् ॥
रावणं प्रेक्ष्य हृष्टात्मा युद्धाय समुपागमत्।
सर्वयत्नेन महता वधे तस्य धृतोऽभवत् ॥
अथ रविरवदन्निरीक्ष्य रामं
मुदितमनाः परमं प्रहृष्यमाणः।
निशिचरपतिसंक्षयं विदित्वा
सुरगणमध्यगतो वचस्त्वरेति ॥