HYMNS TO SARASWATI -SRI SHARADA BHUJANGA STOTRAM

श्रीशारदाभुजंगस्तोत्रं
   
(श्री शंकराचार्यकृतं)
          
सुवक्षोजकुम्भां सुधापूर्णकुंभां
प्रसादावलम्बां प्रपुण्यावलंबाम् ।
सदास्येन्दुबिम्बां सदानोष्ठबिम्बां
भजे शारदाम्बां
अजस्रं मदम्बाम् ॥
१ ॥
कटाक्षे दयार्द्रां
करे ज्ञानमुद्रां
कलाभिर्विनिद्रां कलापैः
सुभद्राम् ।
पुरस्त्रीं विनिद्रां
पुरस्तुङ्गभद्रां
भजे शारदाम्बां
अजस्रं मदम्बाम् ॥
२ ॥
ललामाङ्कफालां लसत्गानलोलां
स्वभक्तैकपालां यशः
श्री कपोलाम् ।
करेत्वक्षमालां कनत्प्रत्नलोलां
भजे शारदाम्बां
अजस्रं मदम्बाम् ॥
३ ॥
सुसीमन्तवेणीं दृशानिर्जितैणीं
रमत् कीरवाणीं
नमत् वज्रपाणीम् ।
सुधामन्थरास्यां मुदा
चिन्त्यवेणीं
भजे शारदाम्बां
अजस्रं मदम्बाम् ॥
४ ॥
सुशान्तां सुदेहां
दृगन्ते कचान्तां
लसत् सल्लताङ्गीं
अनन्तामचिन्त्याम् ।
स्मरेत्तापसैः सङ्गपूर्वस्थितां तां
भजे शारदाम्बां
अजस्रं मदम्बाम् ॥
५ ॥
कुरंगे तुरंगे
मृगेन्द्रे खदेन्द्रे
मराले मदेभे
महोक्षेऽधिरूढाम् ।
महत्यां नवम्यां
सदा सामरूपां
भजे शारदाम्बां
अजस्रं मदम्बाम् ॥
६ ॥
ज्वलत् कान्ति
वह्निं जगन्मोहनाङ्गीं
भजे मानसांभोजसुभ्रांतभृंगीम् ।
निजस्तोत्रसंगीतनृत्यप्रभांगीं
भजे शारदाम्बां
अजस्रं मदम्बाम् ॥
७ ॥
भवांभोजनेत्राजसंपूज्यमानां
लसन्मन्दहासप्रभावक्त्रचिह्नाम् ।
चलच्चंचलोदारताटङ्ककर्णां
भजे शारदाम्बां
अजस्रं मदम्बाम् ॥
८ ॥
   
         ***

HYMNS TO SARASWATI – NEELASARASWATI STOTRAM

नीलसरस्वतीस्तोत्रम्
घोररूपे महारावे
सर्वशत्रुभयङ्करि ।
भक्तेभ्यो वरदे
देवि त्राहि मां शरणागतम्
॥ १ ॥
सुरासुरार्चिते देवि
सिद्धगन्धर्व सेविते ।
जाड्यपापहरे देवि
त्राहि मां शरणागतम् ॥
२ ॥
जटाजूटसमायुक्ते लोलजिह्वान्तकारिणि ।
द्रुतबुद्धिकरे देवि
त्राहि मां शरणागतम् ॥
३ ॥
सौम्यक्रोधधरे रूपे
चण्डरूपे नमोऽस्तुते ।
सृष्टिरूपे नमस्तुभ्यं
त्राहि मां शरणागतम् ॥
४ ॥
जडानां जडतां
हन्ति भक्तानां भक्तवत्सला
मूढतां हर
मे देवि त्राहि मां
शरणागतम् ॥ ५ ॥
वं ह्रं
ह्रुं कामये देवि बलिहोमप्रिये
नमः ।
उग्रतारे नमो
नित्यं त्राहि मां शरणागतम्
॥ ६ ॥
बुद्धिं देहि
यशो देहि कवित्वं देहि
देहि मे ।
मूढत्वं च
हरेर्देवि त्राहि मां शरणागतम्
॥ ७ ॥
इन्द्रादिविलसद्वन्द्ववन्दिते करुणामयि
तारे ताराधिनाथास्ये त्राहि मां शरणागतम्
॥ ८ ॥
इदं स्तोत्रं
पठेद्यस्तु सततं श्रद्धयान्वितः ।
तस्य शत्रुः
क्षयं याति महाप्रज्ञा प्रजायते
॥ ९ ॥

HYMNS TO SARASWATI – SRI SHARADA STOTRAM

श्रीशारदास्तोत्रम्
शारदा शारदाम्भोजवदना वदनाम्बुजे ।
सर्वदा सर्वदाऽस्माकं
सन्निधिं सन्निधिं क्रियात्
॥ १ ॥
सुरासुरासेवितपादपङ्कजा
करेविराजत्कमनीयपुस्तका ।
विरिञ्चिपत्नी कमलासनस्थिता
सरस्वती नृत्यतु
वाचि मे सदा ॥
२ ॥
माणिक्यवीणामुपलालयन्तीं
मदालसां मंजुळ
वाग्विलासाम् ।
माहेन्द्र नीलद्युतिकोमलांगीं
मातङ्गकन्यां मनसा
स्मरामि ॥ ३ ॥
श्रीमच्चन्दनचर्चितोज्ज्वलवपुः शुक्लांबरा
मल्लिका-
मालालालितकुन्तला प्रविलसन्मुक्तावलीशोभिता ।
सर्वज्ञाननिधानपुस्तकधरा रुद्राक्षमालाङ्किता
वाग्देवी वदनाम्बुजे
वसतु मे त्रैलोक्यमाता शुभा
॥ ४ ॥
या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता
या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना ।
या ब्रह्माच्युतशंकरप्रभृतिभिः देवैस्सदा पूजिता
सा मां
पातु सरस्वती भगवती निःशेष
जाड्यापहा ॥ ५ ॥
दोर्भिर्युक्ताश्चतुर्भिः स्फटिकमणिमयीमक्षमालां दधाना
हस्तेनैकेन पद्मं
सितमपि च शुकं पुस्तकं
चापरेण ।
भासा कुन्देन्दुशंखस्फटिकमणिनिभा भासमानाऽसमाना
सा मे
वाग्देवतेयं निवसतु वदने सर्वदा
सुप्रसन्ना ॥ ६ ॥

          ***

HYMNS TO SARASWATI – SARASWATI STOTRAM

श्रीसरस्वतीस्तोत्रम्
या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता
या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना ।
या ब्रह्माच्युतशंकरप्रभृतिभिः देवैस्सदा वन्दिता
सा मां
पातु सरस्वती भगवती निःशेष
जाड्यापहा ॥ १ ॥
आशासुराशीभवदङ्गवल्ली भासैवदासीकृतदुग्धसिन्धुम् ।
मन्दस्मितैर्निन्दितशारदेन्दुं वन्देऽरविन्दासनसुन्दरि त्वां ॥ २
शारदा शारदांभोजवदना
वदनाम्बुजे ।
सर्वदा सर्वदास्माकं
सन्निधिं सन्निधिं क्रियात्
॥ ३ ॥
सरस्वतीं च
तां नौमि वागधिष्ठातृदेवताम् ।
देवत्वं प्रतिपद्यन्ते
यदनुग्रहतो जनाः ॥ ४
पातु
नो निकषग्रावा
मतिहेम्नः सरस्वती ।
प्राज्ञेतरपरिच्छॆदं वचसैव
करोति या ॥ ५
शुक्लां ब्रह्मविचारसारपरमामाद्यां जगद्व्यापिनीं
वीणापुस्तकधारिणीमभयदां जाड्यान्धकारापहाम् ।
हस्ते स्फाटिकमालिकां च दधतीं पद्मासने
संस्थितां
वन्दे तां
परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम्
॥ ६ ॥
वीणाधरे विपुलमंगलदानशीलो
भक्तार्तिनाशिनि विरिञ्चिहरीशवन्द्ये ।
कीर्तिप्रदेऽखिलमनोरथदे महार्हे
विद्याप्रदायिनि सरस्वति
नौमि नित्यम् ॥ ७
श्वेताब्जपूर्ण विमलासनसंस्थिते हे
श्वेताम्बरावृतमनोहरमंजुगात्रे ।
उद्यन्मनोज्ञसितपङ्कजमंजुलास्ये
विद्याप्रदायिनि सरस्वति
नौमि नित्यम् ॥ ८
मातस्त्वदीयपदपङ्कजभक्तियुक्ताः
ये त्वां
भजन्ति निखिलानपरान्विहाय ।
ते निर्जरत्वमिह
यान्ति कलेवरेण
भूवह्निवायुगगनाम्बु विनिर्मितेन
॥ ९ ॥
मोहान्धकारभरिते
हृदये
मदीये
मातः सदैव
कुरु वासमुदारभावे ।
स्वीयाखिलावयवनिर्मलसुप्रभाभिः
शीघ्रं विनाशय
मनोगतमन्धकारम् ॥ १० ॥
ब्रह्मा जगत्सृजति
पालयतीन्दिरेशः
शंभुर्विनाशयति देवि
तव प्रभावैः ।
न स्यात्
कृपा यदि तव प्रकटप्रभावे
न स्युः
कथञ्चिदपि ते निजकार्यदक्षाः ॥
११ ॥
लक्ष्मीर्मेधा धरा
पुष्टिर्गौरी तुष्टिः प्रभा धृतिः
एताभिः पाहि
तनुभिरष्टाभिर्मां सरस्वति ॥
१२ ॥
सरस्वत्यै नमो
नित्यं भद्रकाल्यै नमो
नमः ।
वेदवेदान्तवेदाङ्ग विद्यास्थानेभ्य एव च ॥
१३ ॥
सरस्वति महाभागे
विद्ये कमललोचने ।
विद्यारूपे विशालाक्षि
विद्यां देहि नमोऽस्तु ते
॥ १४ ॥
यदक्षरं पदं
भ्रष्टं मात्राहीनं च
यद्भवेत् ।
तत्सर्वं क्षम्यतां
देवि प्रसीद परमेश्वरि ॥
१५ ॥