MAHANARAYANOPANISHAD- GNANASADHANANIRUPANAM

                         ज्ञानसाधन-निरूपणम्
            (महानारायणोपनिषत्)
प्राजापत्यो हारुणि-स्सुपर्णेयः
प्रजापतिं पितर-मुपससार किं भगवन्तः परमं वदन्तीति तस्मै प्रोवाच सत्येन
वायु-रावाति सत्येनादित्यो रोचते दिवि सत्यं वाचः प्रतिष्ठा सत्ये
सर्वं प्रतिष्ठितं तस्मात् सत्यं परमं वदन्ति तपसा  देवा देवता-मग्रे आयन् तपसर्‍षयस्सुवरन्वविन्दन्  तपसा सपत्नान् प्रणुदामाराती-स्तपसि सर्वं
प्रतिष्ठितं तस्मात्तपः परमं वदन्ति दमेन दान्ताः किल्बिष-मवधून्वन्ति
दमेन ब्रह्मचारिण-स्सुवरगच्छन् दमो भूतानां दुराधर्‍षं दमे सर्वं
प्रतिष्ठितं तस्माद्दमः परमं वदन्ति शमेन नाकं मुनयोऽन्वविन्दञ्छमो भूतानां दुराधर्‍षञ्छमे सर्वं
प्रतिष्ठितं तस्माच्छमः परमं वदन्ति दानं यज्ञानां वरूथं दक्षिणा लोके दातारँ सर्वभूतान्युपजीवन्ति
दानेनाराती-रपानुदन्त दानेन द्विषन्तो मित्रा भवन्ति दाने सर्वं प्रतिष्ठितं
तस्मा-द्दानं परमं वदन्ति धर्मो विश्वस्य जगतः प्रतिष्ठा लोके धर्मिष्ठं
प्रजा उपसर्पन्ति धर्मेण पाप-मपनुदति धर्मे सर्वं प्रतिष्ठितं तस्मा-द्धर्मं परमं
वदन्ति प्रजननं वै प्रतिष्ठा लोके साधुप्रजाया-स्तन्तुं
तन्वानः पितॄणा-मनृणो भवति तदेव तस्या अनृणं तस्मात् प्रजननं परमं वदन्त्यग्नयो
वै त्रयी-विद्या देवयानः पन्था गार्‍हपत्य ऋक्पृथिवी
रथन्तर-मन्वाहार्यपचनं यजु-रन्तरिक्षं
वामदेव्य-माहवनीयस्सामसुवर्गो लोको बृहत्तस्मा-दग्नीन् परमं
वदन्त्यग्निहोत्रँ सायं प्रातर्गृहाणां निष्कृति-स्स्विष्टँ
सुहुतं यज्ञक्रतूनां प्रायणँ सुवर्गस्य लोकस्य
ज्योति-स्तस्मा-दग्निहोत्रं परमं वदन्ति।    
यज्ञ इति यज्ञेन हि देवा दिवं
गता यज्ञेनासुरा-नपानुदन्त यज्ञेन द्विषन्तो मित्रा भवन्ति यज्ञे सर्वं प्रतिष्ठितं
तस्माद्यज्ञं परमं वदन्ति मानसं वै प्राजापत्यं पवित्रं
मानसेन मनसा साधु पश्यन्ति मानसा ऋषयः प्रजा असृजन्त मानसे
सर्वं प्रतिष्ठितं तस्मान्मानसं परमं वदन्ति न्यास इत्याहुर्मनीषिणो ब्रह्माणं ब्रह्मा
विश्वः कतम-स्स्वयम्भु प्रजापति-स्संवथ्सर
इति संवथ्सरो ऽसावादित्यो य एष आदित्ये पुरुष-स्स परमेष्ठी
ब्रह्मात्मा याभिरादित्य-स्तपति रश्मिभि-स्ताभिः पर्जन्यो
वर्‍षति पर्जन्येनौषधि-वनस्पतयः
प्रजायन्त ओषधिवनस्पतिभि-रन्नं भवत्यन्नेन प्राणाः प्राणै-र्बलं बलेन
तप-स्तपसा श्रद्धा श्रद्धया मेधा मेधया मनीषा मनीषया मनो मनसाशान्ति-श्शान्त्या
चित्तं चित्तेन स्मृतिँ स्मृत्या स्मारँ स्मारेण विज्ञानं विज्ञानेनात्मानं वेदयति  तस्मा-दन्नं ददन्थ्सर्वाण्येतानि ददात्यन्नात् प्राणा भवन्ति भूतानां
प्राणै-र्मनो मनसश्च विज्ञानं विज्ञाना-दानऩ्दो ब्रह्मयोनि-स्स वा एष
पुरुषः पञ्चधा पञ्चात्मा येन सर्वमिदं प्रोतं पृथिवी चान्तरिक्षं च द्यौश्च दिशश्चावान्तरदिशाश्च
स वै सर्व-मिदं जगथ्स सभूतँ स भव्यं जिज्ञासकॢप्त ऋतजा-रयिष्ठा श्रद्धा
सत्यो महस्वान् तपसो परिष्टाद् ज्ञात्वा तमेव मनसा हृदा च भूयो न मृत्यु-मुपयाहि विद्वान्
तस्मान्न्यास-मेषां तपसा-मतिरिक्तमाहु-र्वसुरण्वो विभूरसि प्राणे त्वमसि सन्धाता ब्रह्मन् त्वमसि
विश्वधृत्तेजोदा-स्त्वमस्यग्नि-रसि वर्चोदा-स्त्वमसि सूर्यस्य द्युम्नोदा-स्त्वमसि
चन्द्रमस उपयामगृहीतोऽसि ब्रह्मणे त्वा महस ओमित्यात्मानं युञ्जीतैतद्वै महोपनिषदं
देवानां गुह्यं य एवं वेद ब्रह्मणो महिमान-माप्नोति
तस्माद्ब्रह्मणो महिमान-मित्युपनिषत्॥   
 

MAHANARAYANOPANISHAD-PARATATWANIRUPANAM

                 परतत्त्वनिरूपणम्
      (महानारायणोपनिषत्)
सत्यं परं परँ सत्यँ सत्येन न सुवर्गा-ल्लोकाच्च्यवन्ते
कदाचन  सताँ हि सत्यं
तस्मात् सत्ये रमन्ते तप इति तपो नानशनात्परं यद्धि परं तप-स्तद्दुर्धर्षं
तद्दुराधर्‍षं तस्मा-त्तपसि रमन्ते दम इति नियतं ब्रह्मचारिण-स्तस्मा-द्दमे रमन्ते
शम इत्यरण्ये मुनय-स्तस्माच्छमे रमन्ते दान-मिति सर्वाणि
भूतानि
प्रशँसन्ति दाना-न्नाति दुश्चरं
तस्माद्दाने रमन्ते धर्म इति धर्मेण सर्वमिदं
परिगृहीतं धर्मान्नातिदुष्करं तस्मा-द्धर्मे रमन्ते प्रजन इति भूयाँस-स्तस्माद्भूयिष्ठाः

प्रजायन्ते तस्मा-द्भूयिष्ठाः प्रजनने रमन्तेऽग्नय इत्याह
तस्मा-दग्नय आधातव्या अग्निहोत्रमित्याह तस्मा-दग्निहोत्रे रमन्ते यज्ञ इति यज्ञो हि
देवा-स्तस्माद्यज्ञे रमन्ते  मानस-मिति विद्वाँस-स्तस्मा-विद्वाँस
एव मानसे रमन्ते न्यास इति ब्रह्मा हि परः परो हि ब्रह्मा तानि या एतान्यवराणि पराँसि
न्यास एवात्यरेचय-द्य एवं वेदे-त्युपनिषत् ॥

MAHANARAYANOPANISHAD-PRAANAHUTIMANTRAAH

                      प्राणाहुतिमन्त्राः
       (महानारायणोपनिषत्)
श्रद्धायां प्राणेनिविष्टोऽमृतं
जुहोमि। श्रद्धायामपाने निविष्टोऽमृतं जुहोमि। श्रद्धायां व्याने निविष्टोऽमृतं
जुहोमि। श्रद्धायामुदाने निविष्टोऽमृतं जुहोमि। श्रद्धायाँ समाने निविष्टोऽमृतं जुहोमि।
ब्रह्मणि म आत्मा अमृतत्वाय। अमृतोपस्तरणमसि। श्रद्धायां प्राणेनिविष्टोऽमृतं जुहोमि।
शिवो मा विशाप्रदाहाय। प्राणाय स्वाहा॥
श्रद्धाया-मपाने निविष्टोऽमृतं
जुहोमि। शिवो मा विशाप्रदाहाय।अपानाय स्वाहा। श्रद्धायां व्याने निविष्टोऽमृतं जुहोमि।
शिवो मा विशाप्रदाहाय। व्यानाय स्वाहा । श्रद्धाया-मुदाने निविष्टोऽमृतं
जुहोमि। शिवो मा विशाप्रदाहाय। उदानाय स्वाहा।  श्रद्धायाँ-समाने निविष्टोऽमृतं जुहोमि। शिवो मा विशाप्रदाहाय।स्मानाय
स्वाहा। ब्रह्मणि म आत्मा अमृतत्वाय। अमृतोपस्तरणमसि॥
              भुक्तान्नाभिमन्त्रणमन्त्राः
श्रद्धायां प्राणे निविश्यामृतँ हुतम्। प्राणमन्नेनाप्यायस्व।
श्रद्धाया-मपाने निविश्यामृतँ हुतम्। अपान-मन्नेनाप्यायस्व।
श्रद्धायां व्याने निविश्यामृतँ हुतम्। व्यान-मन्नेनाप्यायस्व।
श्रद्धाया-मुदाने निविश्यामृतँ हुतम्। उदान-मन्नेनाप्याय।
श्रद्धायाँ समाने निविश्यामृतँ हुतम्। समान-मन्नेनाप्यायस्व।

MAHANARAYANOPANISHAD-JNANAYAJNAH

                                   ज्ञानयज्ञः
          (महानारायणोपनिषत्)

तस्यैवं विदुषो यज्ञस्यात्मा
यजमान-श्श्रद्धापत्नी  शरीर-मिध्ममुरो वेदि-र्लोमानि बर्हि  -र्वेदश्शिखा हृदयं यूपः काम आज्यं मन्युः पशु-स्तपोऽग्नि-र्दम-श्शमयिता दक्षिणा
वाग्धोता प्राण उद्गाता चक्षुरध्वर्यु-र्मनो ब्रह्मा श्रोत्रमग्नी-द्यावद्‍ध्रियते
सा दीक्षा यदश्नाति तद्धवि-र्यत्पिबति तदस्य सोमपानं यद्रमते तदुपसदो यथ्संचरत्युपविशत्युत्तिष्ठते
च सप्रवर्ग्यो यन्मुखं तदाहवनीयो या व्याहृति-राहुति-र्यदस्य विज्ञानं तज्जुहोति यथ्सायं
प्रातरत्ति तथ्समिधं य त्प्रातर्मध्यन्दिनँ सायं च तानि सवनानि ये अहोरात्रे ते दर्‍शपूर्णमासौ
ये अर्धमासाश्च मासास्श्च ते चातुर्मास्यानि ये ऋतवस्ते पशुबन्धा ये संवथ्सराश्च परिवथ्सराश्च
ऽहर्गणास्सर्ववेदसं वा  एतथ्सत्रं यन्मरणं तदवभृथ
एतद्वै जरामर्यमग्निहोत्रँ सत्रं य एवं विद्वा-नुदगयने प्रमीयते देवानामेव महिमानं
गत्वाऽऽदित्यस्य सायुज्यं गच्छत्वथ यो दक्षिणे प्रमीयते पितॄणा-मेव महिमानं गत्वा चन्द्रमसस्सायुज्यँ
सलोकतामाप्नोत्येतौ वै सूर्याचन्द्रमसौ- महिमानौ ब्राह्मणो विद्वा-नभिजयति तस्माद्-ब्राह्मणो
महिमान माप्नोति तस्माद् ब्राह्मणो महिमानम् ॥    

MAHANARAYANOPANISHAD-VAISWADEVA MANTRAAH

                                    वैश्वदेवमन्त्राः
          (महानारायणोपनिषत्)
अग्नये स्वाहा। विश्वेभ्यो
देवेभ्यस्स्वाहा। ध्रुवाय भूमाय स्वाहा॥ ध्रुवक्षितये स्वाहा॥  अच्युतक्षितये स्वाहा॥  अग्नये स्विष्टकृते स्वाहा॥  धर्माय स्वाहा॥  अधर्माय स्वाहा॥ अद्भ्य-स्स्वाहा।
ओषधिवनस्पतिभ्य-स्स्वाहा॥
रक्षोदेवजनेभ्य-स्स्वाहा।
गृहाभ्य-स्स्वाहा। अवसानेभ्य-स्स्वाहा।
अवसानपतिभ्य-स्स्वाहा। सर्व-भूतेभ्य-स्स्वाहा।
कामाय स्वाहा। अन्तरिक्षाय स्वाहा। यदेजति जगति यच्च चेष्टति नाम्नो भागोऽयं नाम्ने
स्वाहा॥पृथिव्यै स्वाहा। अन्तरिक्षाय स्वाहा॥
दिवे स्वाहा। सूर्याय स्वाहा। चन्द्रमसे स्वाहा। नक्षत्रेभ्यस्स्वाहा।इन्द्राय
स्वाहा।
बृहस्पतये स्वाहा। प्रजापतये स्वाहा।ब्रह्मणे स्वाहा।स्वधा
पितृभ्य-स्स्वाहा।नमो रुद्राय पशुपतये स्वाहा।
देवेभ्य-स्स्वाहा। पितृभ्य-स्स्वधाऽस्तु
।भूतेभ्यो नमः। मनुष्येभ्यो हन्ता।  प्रजापतये
स्वाहा। परमेष्ठिने स्वाहा। यथा कूप-श्शतधार-स्सहस्रधारो अक्षितः। एवं मे अस्तु धान्यँ सहस्रधारमक्षितम्।
धनधान्यै स्वाहा। ये भूताः प्रचरन्ति दिवानक्तं बलि-मिच्छन्तो
वितुदस्य प्रेष्याः। तेभ्यो बलिं पुष्टिकामो हरामि मयि पुष्टिं पुष्टिपति-र्दधातु स्वाहा
ओं तद्ब्रह्म ।ओं तद्वायुः।ओं तदात्मा। ओं तथ्सत्यम्। ओं
तथ्सर्वम्। ओं तत्पुरो-र्नमः।अन्तश्चरति भूतेषु गुहायां विश्वमूर्तिषु। त्वं यज्ञस्त्वं
वषट्कार-स्त्वमिन्द्र-स्त्वँ रुद्र-स्त्वं विष्णु-स्त्वं ब्रह्म त्वं प्रजापतिः। त्वं तदाप आपो ज्योती रसोऽमृतं
ब्रह्म
भू-र्भुव-स्सुवरोम् ॥

MAHANARAYANOPANISHAD-VIRAJAHOMA MANTRAAH

               विरजाहोममन्त्राः
      (महानारायणोपनिषत्)
    
तिलाञ्जुहोमि सरसाँ सपिष्टान्
गन्धार मम चित्ते रमन्तु स्वाहा। गावो हिरण्यं धन-मन्नपानँ
सर्वेषाँ श्रियै स्वाहा। श्रियं च लक्ष्मिं च पुष्टिं च कीर्तिं चानृण्यताम् । ब्रह्मण्यं
बहुपुत्रताम्। श्रद्धा मेधे प्रजा-स्सन्ददातु स्वाहा॥ 
तिलाः क्रुष्णा-स्तिला-श्वेतास्तिला-स्सौम्या
वशानुगा। तिलाः पुनन्तु मे पापं यत्किञ्चिद् दुरितं मयि स्वाहा। चोरस्यान्नं नवश्राद्धं  ब्रह्महा गुरुतल्पगः। गोस्तेयँ सुरापानं भ्रूणहत्या
तिला शान्तिँ शमयतु स्वाहा। श्रीश्च लक्ष्मीश्च पुष्टिश्च कीर्तिं-चानृण्यताम्। ब्रह्मण्यं
बहुपात्रताम्। श्रद्धामेधे प्रज्ञातु जातवेद-स्संददातु स्वाहा॥
प्राणापान-व्यानोदान-समाना
मे शुध्यन्तां ज्योतिरहं विरजा विपाप्मा भूयासँ स्वाहा॥ त्वक्चर्म-माँस-रुधिर-मेदो-मज्जा-स्नायवो-ऽस्थीनि
मे शुध्यन्तां ज्योतिरहं विरजा विपाप्मा भूयासँ स्वाहा॥ शिरः-पाणि-पाद-पार्श्वपृष्ठोरूदर-जङ्घशिश्नोपस्थ-पायवो
मे शुध्यन्तां ज्योतिरहं विरजा विपाप्मा भूयासँ स्वाहा॥ उत्तिष्ठ पुरुष हरितपिङ्गल
लोहिताक्षि देहि देहि ददापयिता मे शुध्यन्तां ज्योतिरहं विरजा विपाप्मा भूयासँ स्वाहा॥
पृथिव्याप-स्तेजो-वायु-राकाशा
मे शुध्यन्तां ज्योतिरहं विरजा विपाप्मा भूयासँ स्वाहा॥ शब्द-स्पर्श-रूप-रस-गन्धा मे
शुध्यन्तां ज्योतिरहं विरजा विपाप्मा भूयासँ स्वाहा॥मनो-वाक्काय-कर्माणि मे शुध्यन्तां
ज्योतिरहं विरजा विपाप्मा भूयासँ स्वाहा॥ अव्यक्तभावै-रहंकारै-र्ज्योतिरहं विरजा विपाप्मा
भूयासँ स्वाहा।  आत्मा मे शुध्यन्तां ज्योतिरहं
विरजा विपाप्मा भूयासँ स्वाहा।अन्तरात्मा मे शुध्यन्तां ज्योतिरहं विरजा विपाप्मा भूयासँ
स्वाहा। परमात्मा मे शुध्यन्तां ज्योतिरहं विरजा विपाप्मा भूयासँ स्वाहा।क्षुधे स्वाहा।
क्षुत्पिपासाय स्वाहा। विविट्ट्यै स्वाहा । 
ऋग्विधानाय स्वाहा। कषोत्काय स्वाहा। क्षुत्पिपासामलां ज्येष्ठा-मलक्ष्मीर्नाशयाम्यहम्।
अभूति-मसमृद्धिं च सर्वा-न्निर्णुद मे पाप्मानँ स्वाहा।
अन्नमय-प्राणमय-मनोमय-विज्ञानमय-मानन्दमय-मात्मा
मे शुध्यन्तां ज्योतिरहं विरजा विपाप्मा भूयासँ स्वाहा॥

MAHANARAYANOPANISHAD-PAPANIVARAKA MANTRAAH

        पापनिवारका
मन्त्राः
       (महानारायणोपनिषत्)
देवकृतस्यैनसो ऽवयजन-मसि स्वाहा।
मनुष्यकृतस्यैनसो ऽवयजन-मसि स्वाहा।
पितृकृतस्यैनसो ऽवयजन-मसि स्वाहा।
आत्मकृतस्यैनसो ऽवयजन-मसि स्वाहा।
अन्यकृतस्यैनसो ऽवयजन-मसि स्वाहा।
अस्मत्कृतस्यैनसो ऽवयजन-मसि स्वाहा।

यद्दिवा च नक्तं चैनश्चकृम
तस्यावयजन-मसि स्वाहा।   यथ्स्वपन्तश्च
जाग्रत श्चैनश्चकृम तस्यावयजन-मसि स्वाहा। यथ्सुषुप्तश्च जाग्रत श्चैनश्चकृम तस्यावयजन-मसि स्वाहा।  यद्विद्वाँस-श्चाविद्वाँस-श्चैनश्च कृम तस्यावयजन-मसि स्वाहा।एनस
एनसो ऽवयजन-मसि स्वाहा॥ 

MAHANARAYANOPANISHAD-TRISUPARNA MANTRAH

त्रिसुपर्णमन्त्राः
    (महानारायणोपनिषत्)
ब्रह्म मेतु माम्। मधु-मेतु माम्। ब्रह्म-मेव मधु-मेतु माम्।
यास्ते सोम प्रजावथ्सोऽभिसो  अहम्। दुःष्वप्नहन्
दुरुष्षह। यास्ते सोम प्राणाँ स्ताञ्जुहोमि।
त्रिसुपर्ण-मयाचितं ब्राह्मणाय दद्यात्। ब्रह्महत्यां वा
एते घ्नन्ति। ये ब्रह्मणा-स्त्रिसुपर्णं  पठन्ति।
ते सोमं प्राप्नुवन्ति। आसहस्रात् पङ्क्तिं पुनन्ति। ओम्॥
ब्रह्म मेधया। मधु मेधया। ब्रह्ममेव मधु मेधया। अद्या नो
देव सवितः प्रजावथ्सावी-स्सौभगम्। परा दुष्वप्नियँ सुव।विश्वानि दवे सवित-र्दुरितानि
परासुव। यद्भद्रं तन्म  आसुव। मधुवाता ऋतायते
मधुक्षरन्ति सिन्धवः। माध्वीर्न-स्सन्त्वोषधीः। मधुनक्तमुतोषसी मधुमत्पार्थिवँ रजः।
मधुद्यौ-रस्तु नः पिता। मधुमान्नो वनस्पतिर्-मधुमाँ अस्तु सूर्यः। माध्वीर्गावो भवन्तु
नः। य इमं  त्रिसुपर्ण-मयाचितं ब्राह्मणाय दद्यात्।
भ्रूणहत्यां वा एते घ्नन्ति। ये ब्रह्मणा-स्त्रिसुपर्णं  पठन्ति। ते सोमं प्राप्नुवन्ति। आसहस्रात् पङ्क्तिं
पुनन्ति। ओम्॥
ब्रह्म मेधवा। मधु मेधवा। ब्रह्म-मेव मधु मेधवा  । ब्रह्मा देवानां  पदवीः कवीना-मृषि-र्विप्राणां महिषो मृगाणाम्। श्येनो
गृद्ध्राणाँ स्वधिति-र्वनानाँ सोमः पवित्रमत्येतिरेभन्न् । हँस-श्शुचिष-द्वसु-रन्तरिक्षस-द्धोता वेदिषदतिथिर्दुरोणसत्।
नृष-द्वरस-दृतस-द्‍व्योमस-दब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत् ।

ऋचे त्वा रुचे त्वा समि-थ्स्रवन्ति सरितो न धेनोः। अन्तर्
हृदा मनसा पूयमानाः।
घृतस्या धारा अभिचाकशीमि। हिरण्ययो वेतसो मध्य आसाम्। तस्मिन्थ्सुपर्णो
मधुकृत् कुलायी भज-न्नास्ते मधु-देवताभ्यः। तस्यासते हरय-स्सप्ततीरे स्वधां दुहाना
अमृतस्य धाराम्। य इदं  त्रिसुपर्ण-मयाचितं
ब्राह्मणाय दद्यात्। वीरहत्यां वा एते घ्नन्ति। ये ब्रह्मणा-स्त्रिसुपर्णं  पठन्ति। ते सोमं प्राप्नुवन्ति। आसहस्रात् पङ्क्तिं
पुनन्ति। ओम्॥
   

MAHANARAYANOPANISHAD-MRITYUNIVARANA MANTRAH

                                 मृत्युनिवारणमन्त्राः
                      
          (महानारायणोपनिषत्)
अपैतु मृत्यु-रमृतं न आगन्वैवस्वतो
नो अभयं कृणोतु। पर्णं वनस्पते-रिवाभिन-श्शीयताँ रयि-स्सचता-न्न-श्शचीपतिः॥
परं मृत्यो अनुपरे हि पन्थां
यस्ते स्व इतरो देवयानात्। चक्षुष्मते शृण्वते ते ब्रवीमि मा नः प्रजाँ रीरिषो  मोत वीरान्॥
वातं प्राणं मनसाऽन्वा रभामहे
प्रजापतिं यो भुवनस्य गोपाः। स नो मृत्यो स्त्रायतां पात्वँहसो ज्योग्जीवा जरा-मशीमहि॥
अमुत्र भूया-दध यद्यमस्य
बृहस्पते अभिशस्तेरमुञ्चः। प्रत्यौहता मश्विना मृत्यु-मस्मा-द्देवाना-मग्ने भिषजा
शचीभिः॥
हरिँ हरन्त-मनुयन्ति
देवा विश्वस्येशानं वृषभं मतीनाम्। ब्रह्म सरूप-मनुमेद-मागा-दयनं माविवधी-र्विक्रमस्य॥
शल्कैरग्नि-मिन्धान उभौ
लोकौ सनेमहम्। उभयोर्लोकयोर् ऋध्वाऽतिमृत्युं तराम्यहम्॥
मा छिदो मृत्यो मावधी-र्मा मे बलं
विवृहो मा प्रमोषीः । प्रजां मामे रीरिष आयु-रुग्र नृचक्षसं
त्वा हविषा विधेम ॥
मा नो महान्त-मुत मा नो
अर्भकं मान उक्षन्त मुतमान उक्षितम्। मानो वधीः पितरं मोत मातरं प्रिया मानस्तनुवो
रुद्र रीरिषः॥
मा न-स्तोके तनये
मान आयुषि मा नो गोषु मा नो अश्वेषु रीरिषः। वीरान्मानो रुद्रभामितो वधीर् हविष्मन्तो
नमसा विधेमते॥ 

 

MAHANARAYANOPANAISHAD-SIVOPASANA MANTRAAH

शिवोपासन-मन्त्राः           
    (महानारायणोपनिषत्)
निधनपतये नमः। निधनपतान्तिकाय नमः।ऊर्ध्वाय
नमः। ऊर्ध्वलिङ्गाय नमः।
हिरण्याय नमः। हिरण्यलिङ्गाय नमः ।सुवर्णाय
नमः। सुवर्णलिङ्गाय नमः।
दिव्याय नमः। दिव्यलिङ्गाय नमः। भवाय नमः ॥
भवलिङ्गाय नमः ।शर्वाय नमः। शर्वलिङ्गाय नमः।
शिवाय नमः। शिवलिङ्गाय नमः।  ज्वलाय नमः। ज्वललिङ्गाय
नमः। आत्माय नमः। आत्मलिङ्गाय नमः।
परमाय नमः। परमलिङ्गाय नमः। एतथ्सोमस्य सूर्यस्य
सर्वलिङ्गँ स्थापयति पाणिमन्त्रं पवित्रम्॥
            पश्चिमवक्त्र-प्रतिपादकमन्त्रः
सद्योजातं प्रपद्यामि सद्योजाताय वै नमो नमः।
भवेभवेनातिभवे भवस्व माम्। भवोद्भवाय नमः॥
             उत्तरवक्त्र-प्रतिपादकमन्त्रः
 वामदेवाय
नमो ज्येष्ठाय नम-श्श्रेष्ठाय नमो रुद्राय नमः कालाय नमः कलविकरणाय नमो  बलविकरणाय नमो बलाय नमो बलप्रमथनाय नम-स्सर्व- भूतदमनाय
नमो मनोन्मनाय नमः॥
              दक्षिणवक्त्र-प्रतिपादकमन्त्रः
अघोरेभ्योऽथ घोरेभ्यो घोरघोरतरेभ्यः। सर्वेभ्य-स्सर्वशर्वेभ्यो
नमस्ते अस्तु रुद्ररूपेभ्यः॥
              प्राग्वक्त्र-प्रतिपादकमन्त्रः
तत्पुरुषाय विद्महे महादेवाय धीमहि। तन्नो
रुद्रः प्रचोदयात् ॥
  
              ऊर्ध्ववक्त्र-प्रतिपादकमन्त्रः
ईशान-स्सर्व-विद्याना-मीश्वर-स्सर्वभूतानां
ब्रह्माधिपति-र्ब्रह्मणोऽधिपति-र्ब्रह्मा शिवो मे अस्तु सदाशिवोम्॥
                  नमस्कारार्थ-मन्त्राः
नमो हिरण्यबाहवे हिरण्यवर्णाय हिरण्यरूपाय
हिरण्यपतयेऽम्बिकापतय
उमापतये पशुपतये नमो नमः॥
ऋतँ सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम्।
ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय वै नमो नमः ॥
सर्वो वै रुद्र-स्तस्मै रुद्राय नमो अस्तु।
पुरुषो वै रुद्रस्सन्महो नमो नमः।विश्वं भूतं भुवनं चित्रं बहुधा जातं जायमानं च यत्।सर्वो-ह्येष
रुद्र-स्तस्मै रुद्राय नमो अस्तु॥

कद्रुदाय प्रचेतसे मीढुष्टमाय तव्यसे।वो चेम
शन्तमँ हृदे। सर्वोह्येष रुद्र-स्तस्मै रुद्राय नमो अस्तु॥