VISHNU SUKTAM

                                                           विष्णुसूक्तम्
ऊँ विष्णोर्नुकं वीर्याणि प्रवोचं यः पार्थिवानि विममे रजाँसि यो
अस्कभायदुत्तरँ सदस्थं विचक्रमाणस्त्रेधोरुगायो विष्णो रराटमसि
विष्णोः पृष्ठमसि विष्णोः श्नप्त्रेस्थो विष्णॊस्स्यूरसि विष्णोर्ध्रुवमसि
वैष्णवमसि विष्णवे त्वा ।
तदस्य प्रियमभिपाथो अश्याम् । नरो यत्र देवयवोमदन्ति । उरुक्रमस्य सहिबन्धुरित्था। विष्णोः पदे परमे मध्व उथ्सः । प्रतद्विष्णु स्स्तवते वीर्याय।
मृगो न भीमः कुचरो गरिष्ठाः । यस्योरुषु त्रिषु विक्रमणेषु।  अधिक्षियन्ति भुवनानि विश्वा।  परो मात्रया तनुवा वृधान। न ते महित्वमन्वश्नुवन्ति ।
उभेते विद्म रजसी पृथिव्या विष्णो देवत्वम्। परमस्य विथ्से । विचक्रमे पृथिवी मेष एताम् । क्षेत्राय विष्णुर्मनुषे दशस्यन् । ध्रुवासो अस्य कीरयो जनासः। ऊरुक्षितिँ  सुजनिमाचकार। त्रिर्देवः पृथिवीमेष एताम्। विचक्रमे शतर्चसं महित्वा । प्रविष्णुरस्तु तवसस्तवीयान्। त्वेषँह्यस्य स्थविरस्य नाम।
अतो देवा अवन्तुनो यतो विष्णु-र्विचक्रमे। पृथिव्यास्सप्तधामभिः। इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम्। समूढमस्यपाँसुरे । त्रीणि पदा विचक्रमे विष्णुर्गोपा अदाभ्यः। ततो धर्माणि धारयन् । विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे। इन्द्रस्य युज्यस्सखा॥इन्द्रस्ययुज्यस्सखा॥
तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः। दिवीव चक्षुराततम्। तद्विप्रासो विपन्यवो जागृवाँसस्समिन्धते। विष्णोर्यत्परमं पदम्।।
पर्याप्त्या अनन्तरायाय सर्वस्तोमोऽति रात्र उत्तममहर्भवति सर्वस्याप्त्यै
सर्वस्यजित्त्यै सर्वमेव तेनाप्नोति सर्वं जयति॥
                         ऊँ शान्तिः शान्तिः शान्तिः

NARAYANA SUKTAM

                                                                   नारायणसूक्तम्
              तैत्तिरीयारण्यकम् प्रपाठकः १० अनुवाकः १३
सहस्रशीर्षं देवं विश्वाक्षं विश्वशंभुवम् ।विश्वं नारायणं देवमक्षरं परमं पदं। विश्वतः परमान्नित्यं विश्वं नारायणँ हरिम्। विश्वमेवेदं पुरुषस्तद्विश्वमुपजीवति ।पतिं विश्वस्यात्मेश्वरँ शाश्वतँ शिवमच्युतम् । नारायणं महाज्ञेयं विश्वात्मानं परायणं । नारायण परोज्योतिरात्मा नारायणः परः ।  नारायण परंब्रह्म तत्त्वं नारायण: परः। नारायणपरो ध्याता ध्यानं नारायणः परः। यच्च किञ्चिज्जगत्सर्वं
दृश्यते श्रूयतेऽपि वा । अन्तर्बहिश्च तत्सर्वं व्याप्य नारायाणः स्थित: । अनन्तमव्ययं कविँ समुद्रेऽन्तं विश्वशंभुवम्। पद्मकोशप्रतीकाशं हृदयं चाप्यधोमुखम् ।  अधो निष्ट्या वितस्त्यान्ते नाभ्यामुपरि तिष्ठति। ज्वालमालाकुलं भाती विश्वस्यायतनं महत्। सन्ततँ शिलाभिस्तु लम्बत्याकोशसन्निभम् । तस्यान्ते सुषिरँ सूक्ष्मं तस्मिन् सर्वं प्रतिष्ठितम् । तस्य मध्ये महानग्निर्विश्वार्चिर्विश्वतोमुखः। सोऽग्रभुग्विभजन्तिष्ठन्नाहारमजरः कविः।
तिर्यगूर्ध्वमधश्शायी रश्मयस्तस्य सन्तता। सन्तापयति स्वं देहमापादतलमस्तकः।
तस्य मध्ये वह्निशिखा अणीयोर्ध्वा व्यवस्थितः। नीलतोयद मध्यस्था विद्युल्लेखेव भास्वरा । नीवारशूकवत्तन्वी पीता भास्यत्यणूपमा । तस्याः शिखायाः मध्ये परमात्मा व्यवस्थितः। स ब्रह्म स शिवः स हरिः सेन्द्रः सोऽक्षरः परमः स्वराट् ॥
ऋतँ सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलं। ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय ते नमो नमो नमः॥
नारायणाय विद्महे वासुदेवाय धीमहि। तन्नो विष्णुः प्रचोदयात् ॥
                         ऊँ शान्तिः शान्तिः शान्तिः


  

PURUSHA SUKTAM

                                                                 पुरुषसूक्तम् 
                तैत्तिरीयारण्यकम् तृतीय प्रश्नः   
ऊँ तच्छं योरावृणीमहे । गातुं यज्ञाय । गातुं यज्ञपतये। दैवी स्वस्तिरस्तु नः।
स्वस्तिर्मानुषेभ्यः। ऊर्ध्वं जिगातु भेषजम् । शं नो अस्तु द्विपदे ।  शं चतुष्पदे ।
ऊँ शान्तिः शान्तिः शान्तिः ॥
ऊँ सहस्रशीर्षा पुरुषः। सहस्राक्षः सहस्रपात् । स भूमिं विश्वतो वृत्वा । अत्यतिष्ठद्दशाङ्गुलम् । पुरुष एवेदँ सर्वम्। यद्भूतं यच्च भव्यम् । उतामृतत्वस्येशानः। यदन्नेनातिरोहति। एतावानस्य महिमा। अतो
ज्यायाँश्च पूरुषः ।।१॥
पादोस्य विश्वा भूतानि । त्रिपादस्यामृतं दिवि ।त्रिपादूर्ध्व उदैत्पुरुषः । पादोऽस्येहाऽऽभवात्पुनः। ततो विष्वङ्व्यक्रामत् । साशनानशने अभि ।  तस्माद्विराडजायत। विराजो अधि पूरुषः । स जातो अत्यरिच्यत। पश्चाद्भूमिमथो पुरः ॥२॥
यत्पुरुषेण हविषा। देवा यज्ञमतन्वत। वसन्तो अस्यासीदाज्यम् । ग्रीष्म इध्मश्शरद्धविः ।  सप्तास्यासन् परिधयः ।त्रिः सप्त समिधः कृताः। देवा यद्यज्ञं तन्वानाः । अबध्नन्पुरुषं पशुम् । तं यज्ञं बर्हिषि प्रौक्षन् । पुरुषं जातमग्रतः ॥३॥
तेन देवा अयजन्त। साध्या ऋषयश्च ये। तस्माद्यज्ञात्सर्वहुतः। संभृतं पृषदाज्यम् ।
पशूँस्ताँश्चक्रे वायव्यान् । आरण्यान्ग्राम्यांश्च ये । तस्माद्यज्ञात्सर्वहुतः।ऋचः सामानि जज्ञिरे। छन्दाँसि जज्ञिरे तस्मात् । यजुस्तस्मादजायत । तस्मादश्वा अजायन्त। ये के चोभयादतः । गावो ह जज्ञिरे तस्मात्। तस्माज्जाता अजावयः।
यत्पुरुषं व्यदधुः। कतिधा व्यकल्पयन् । मुखं किमस्य कौ बाहू। कावूरू पादावुच्येते । ब्राह्मणोऽस्य मुखमासीत् । बाहू राजन्यः कृतः ॥५॥
ऊरु तदस्य यद्वैश्यः । पद्भ्याँ शूद्रो अजायत। चन्द्रमा मनसो जातः। चक्षोः सूर्यो अजायत । मुखादिन्द्रश्चाग्निश्च । प्राणाद्वायुरजायत। नाभ्या आसीदन्तरिक्षं ।
शीर्ष्णो द्यौ समवर्तत । पद्भ्यां भूमिर्दिशः श्रोत्रात् ।तथा लोकाँ अकल्पयन् ॥६॥
वेदाहमेतं पुरुषं महान्तं । आदित्यवर्णं तमसस्तु पारे । सर्वाणि रूपाणि विचित्य धीरः । नामानि कृत्वाऽभिवदन् यदास्ते ।धाता पुरस्ताद्यमुदाजहार । शक्रप्रविद्वान्प्रदिशश्चतस्रः। तमेवं विद्वानमृत इह भवति । नान्यः पन्था अयनाय विद्यते । यज्ञेन यज्ञमयजन्त देवाः। तानि धर्माणि प्रथमान्यासन् । ते ह नाकं महिमानः सचन्ते। यत्र पूर्वे साध्याः सन्ति देवाः ॥७॥
अद्भ्यः संभूतः पृथिव्यै रसाच्च । विश्वकर्मणः समवर्तताधि । तस्य त्वष्टा विदधद्रूपमेति । तत्पुरुषस्य विश्वमाजानमग्रे। वेदाहमेतं पुरुषं महान्तं । आदित्यवर्णं तमसः परस्तात्। तमेवं विद्वानमृत इह भवति। नान्यः पन्था विद्यतेऽयनाय। प्रजापतिश्चरति गर्भे अन्तः । अजायमानो बहुधा विजायते।।८॥
तस्य धीराः परिजानन्ति योनिम् । मरीचीनां पदमिच्छन्ति वेधसः। यो देवेभ्य आतपति। यो देवानां पुरोहितः। पूर्वो यो देवेभ्यो जातः। नमो रुचाय ब्राह्मये। रुचं ब्राह्मं जनयन्तः। देवा अग्रे तदब्रुवन्। यस्त्वैवं ब्राह्मणो विद्वान्। तस्य देव असन् वशे ॥९॥
ह्रीश्च ते लक्ष्मीश्च पत्न्यौ। अहोरात्रे पार्श्वे। नक्षत्राणि रूपम् । अश्विनौ व्यात्तं।
इष्टं मनिषाण। अमुं मनिषाण। सर्वं मनिषाण ॥१०॥
             ऊँ शान्तिः शान्तिः शान्तिः


CHAKSHUSHMATI VIDYA (MANTRA) FOR EYE PROBLEMS

CHAKSHUSHMATI VIDYA (MANTRA) FOR EYE PROBLEMS
This is a powerful mantra for the prevention and cure of problems relating to the eyes.  The mantra is addressed to the Sun god who is the presiding deity for the eyes. This to be chanted at sunrise after bathing and putting on freshly washed clothes. Take some water in a copper basin and chant this mantra facing the Sun, all the time touching the vessel containing the water.  Meditate on the resplendent form of the Sun while chanting. After the chanting is over prostrate before the Sun and wash your eyes with the water.  It is gathered that repeating this daily with faith has produced wornderful results in many cases. The text of the mantra is reproduced below in Devanagari script and also in Roman script. 
            
         चक्षुष्मती विद्या

ऒं अस्याः चक्षुष्मती विद्यायाः अहिर्बुध्न्य ऋषिः
          गायत्री छन्दः
          सूर्यॊ दॆवता 
          ऒं बीजम्
          नमः शक्तिः
          स्वाहा कीलकम्
          चक्षूरोग निवृत्तयॆ जपॆ विनियॊगः
ऒं चक्षुष्चक्षुः तॆजः स्थिरॊ भव ।
मां पाहि पाहि।  
त्वरितं चक्षुरॊगान् प्रशमय प्रशमय।
मम जातरूपं तॆजॊ दर्शय दर्शय ।
यथाहं अन्धॊ न स्यां तथा कल्पय कल्पय।
कृपया कल्याणं कुरु कुरु।
यानि मम पूर्वजन्मॊपार्जितानि
चक्षुःप्रतिरॊधकदुष्कृतानि सर्वाणि निर्मूलय निर्मूलय।
ऒं नमः चक्षुष्तेजॊ दात्रॆ दिव्यभास्कराय ।
ऒं नमः करुणाकरायाऽमृताय ।
ऒं नमॊ भगवतॆ श्री सूर्याय अक्षितॆजसॆ नमः ।
ऒं खॆचराय नमः ।
ऒं महासेनाय नमः ।
ऒं तमसॆ नमः ।
ऒं रजसॆ नमः ।
ऒं सत्त्वाय नमः
ऒं असतॊ मा सद्गमय ।
ऒं तमसॊ मा ज्यॊतिर्गमय ।
ऒं म्रुत्यॊर् मा अमृतं गमय ।
उष्णॊ भगवान् शुचिरूपः।
हंसॊ भगवान् प्रतिरूपः ।
ऒं विश्वरूपं घृणिनं जातवॆदसम् ।
हिरण्मयं ज्यॊतिरूपं तपन्तम् ।
सहस्ररश्मिः शतधा वर्तमानः
पुरः प्रजानामुदयत्यॆष सूर्यः ॥

ऒं नमॊ भगवतॆ सूर्याय आदित्याय अक्षितॆजसॆ अहॊवाहिनि स्वाहा ।
ऒं वयः सुपर्णा उपसॆदुरिन्द्रं
प्रियमॆधा ऋषयॊ नाधमानाः
अप ध्वान्तमूर्णुहि पूर्धि चक्षु:
मुमुग्ध्यस्मान् निधयॆव बद्धान्

ऒं पुण्डरीकाक्षाय नमः।
ऒं पुष्करॆक्षणाय नमः  ।
ऒं कमलॆक्षणाय नमः ।
ऒं विश्वरूपाय नमः ।
ऒं श्री महाविष्णवॆ नमः।
ऒं सूर्यनारायणाय नमः ।
ऒं शान्तिः शान्तिः शान्तिः

य इमां चक्षुष्मती विद्यां ब्राह्मणॊ नित्यमधीतॆ
न तस्याक्षिरॊगॊ भवति ।
न तस्य कुलॆ अन्धॊ भवति ।
अष्टान् ब्राह्मणान् ग्राहयित्वा विद्यासिद्धिर्भवति 
Om Chakshushchakshuh tejah sthiro bhava, maam paahi paahi,
twaritam chakshurogaan prashamaya prashamaya,
mam jaataroopam tejo darshaya darshaya,
yathaaham andho na syaam tathaa kalpaya kalpaya,
krupayaa kalyaanam kuru kuru,
mam yaani yaani poorva janmopaarjitaani chakshu
pratirodhaka dushkrutaani,
taani sarvaani nirmoolaya nirmoolaya |
Om namashchakshu shtejodaatre divyabhaaskaraaya,
Om namah karunaakaraayaamrutaaya,
Om namo bhagavate shree suryaaya akshitejase namah,
Om khecharaaya namah, Om mahasenaaya namah,
Om tamase namah, Om rajase namah, Om satvaaya namah,
Om asato maa sadgamaya, Om tamaso maa jyotirgamaya,
Om mrutyormaaamrutam gamaya,
ushno bhagavaan shuchiroopah hanso bhagavaan pratiroopah |
Om vishvaroopam ghruninam  jaatvedasam  hiranyamayam  jyotiroopam tapantam |
Sahasrarashmih shatadhaa vartamaanah purah prajaanaam udayatyesh
suryah ||
Om namo bhagavate shree suryaaya aadityaaya akshitejase-aho vaahini
swaahaa |
Om vayah suparnaah upasedurindram, priymedhaa rishayo naadhamaanaah |
apa dhvaantamoornuhi poordhi chakshuh, mumugdhyasmaannidhayeva
baddhaan ||
Om pundareekaakshaaya namah, Om pushkarekshanaaya namah,
Om kamalekshanaaya namah, Om vishvaroopaaya namah,
Om shree mahaavishnave namah, Om suryanaaraayanaaya namah |
Om shaantih shaantih shaantih ||
Ya imaam chakshumatee vidyaam braahmano nityamadheete
Na tasyaakshirogo bhavati
Na tasya kule andho bhavati