SRI VISHNU SAHASRANAMA STOTRAM

श्री विष्णुसहस्रनामस्तोत्रम्

उपक्रमश्लोकाः  [not part of the
original text]


शुक्लांबरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥१॥

यस्य द्विरदवक्त्राद्या पारिषद्या परश्शतम्।
विघ्नं निघ्नन्ति सततं विष्वक्सेनं तमाश्रये ॥२॥

व्यासं  वसिष्ठनप्तारं शक्तेः
पौत्रमकल्मषम्।
पराशरात्मजं वन्दे शुकतातं तपोनिधिम्॥३॥

व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे।
नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः ॥४॥

अविकाराय शुद्धाय नित्याय परमात्मने।
सदैकरूपरूपाय विष्णवे सर्वजिष्णवे ॥५॥

यस्य स्मरणमात्रेण जन्मसंसारबन्धना-
द्विमुच्यते नमस्तस्मै विष्णवे प्रभविष्णवे ॥६॥

ओम् नमो विष्णवे प्रभविष्णवे

[Here follows the text of Vishnusahasranama as in Mahabharata]
श्री वैशंपायन उवाच –

श्रुत्वा धर्मानशेषेण पावनानि च सर्वशः
युधिष्ठिरश्शान्तनवं पुनरेवाभ्यभाषत ॥१॥

किमेकं दैवतं लोके किं वाप्येकं परायणम्।
स्तुवन्तः कं किमर्चन्तः प्राप्नुयुर्मानवाश्शुभम्॥२॥

को धर्मः सर्वधर्माणां भवतः पर्मो मतः।
किं जपन्मुच्यते जन्तुर्जन्मसंसारबन्धनात् ॥३॥

श्री भीष्म उवाच –
जगत्प्रभुं देवदेवं अनन्तं पुरुषोत्तमम्।
स्तुवन्नामसहस्रेण पुरुषः सततोत्थितः॥४॥

तमेव चार्चयन्नित्यं भक्त्या पुरुषमव्ययम्।
ध्यायंस्तुवन्नमस्यंश्च यजमानस्तमेव च ॥५॥

अनादिनिधनं विष्णुं सर्वलोकमहेश्वरम्।
लोकाध्यक्षं स्तुवन्नित्यं सर्वदुःखातिगो भवेत्॥६॥

ब्रह्मण्य़ं सर्वधर्मज्ञं लोकानां कीर्तिवर्धनं।
लोकनाथं महद्भूतं सर्वभूतभवोद्भवम्॥७॥
एष मे सर्वधर्माणां धर्मोऽधिकतमो मतः
यद्भक्त्या पुण्डरीकाक्षं स्तवैरर्चेन्नरस्सदा ॥८॥

परमं यो महत्तेजः परमं यो महत्तपः ।
परमं यो महद्ब्रह्म परमं यः परायणम् ॥९॥

पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम्।
दैवतं देवतानां च भूतानां योऽव्ययः पिता ॥१०॥

यतः सर्वाणि भूतानि भवन्त्यादि युगागमे।
यस्मिंश्च प्रलयं यान्ति पुनरेव युगक्षये॥११॥

तस्य लोकप्रधानस्य जगन्नाथस्य भूपते।
विष्णोर्नामसहस्रं मे शृणु पापभयापहम् ॥१२॥

यानि नामानि गौणानि विख्यातानि महात्मनः।
ऋषिभिः परिगीतानि तानि वक्ष्यामि भूतये ॥१३॥

The following portion within square brackets [ ] do not form part of the
original text in Mahabharata – It is for those who want to chant Vishnusahasra
Nama as a mantra.  Others who want
to chant the holy names of the Lord may skip this portion and go directly to
the thousand names starting with sloka
     “ओं विश्वं विष्णुर्वषट्कारो
भूतभव्यभवत्प्रभु”
The dhyana slokas given below may however be chanted before the
names. 

[ऋषिर्नाम्नां सहस्र्स्य वेदव्यासो महामुनिः।
छन्दोऽनुष्टुप्तथा देवो भगवान् देवकीसुतः ॥१४॥

अमृतांशूद्भवो बीजं शक्तिर्देवकिनन्दनः।
त्रिसामा हृदयं तस्य शान्त्यर्थे विनियुज्यते ॥१५॥

विष्णुं जिष्णुं महाविष्णुं प्रभविष्णुं महेश्वरम्।
अनेकरूपदैत्यान्तं नमामि पुरुषोत्तमम्॥१६॥

पूर्वन्यासम्-

ओं अस्य श्री विष्णोर्दिव्यसहस्रनामस्तोत्रमहामन्त्रस्य
श्री वेदव्यासो भगवान् ऋषिः।
अनुष्टुप् छन्दः।
श्री महाविष्णुः परमात्मा श्रीमन्नारायणो देवता।
अमृतांशूद्भवो भानुरिति बीजम्।
देवकीनन्दनः स्रष्टेति शक्तिः।
उद्भवः क्षोभणो देव इति परमो मन्त्रः ।
शंखभृन्नन्दकीचक्रीति कीलकम्।
शार्ङ्गधन्वा गदाधर इत्यस्त्रम्।
रथाङ्गपाणिरक्षोभ्य इति नेत्रम् ।
त्रिसामा सामगः सामेति कवचम्।
आनन्दं परब्रह्मेति योनिः।
ऋतुस्सुदर्शनः काल इति दिग्बन्धः।
श्री विश्वरूप इति ध्यानम् ।
श्री महाविष्णु प्रीत्यर्थे सहस्रनामजपे विनियोगः॥

ध्यानम्

शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं
विश्वाकारं गगनसदृशं  मेघवर्णं
शुभाङ्गम्।
लक्ष्मीकान्तं कमलनयनं योगिहृद्ध्यानगम्यं
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम्॥१॥

मेघश्यामं पीतकौशेयवासं
श्रीवत्साङ्कं कौस्तुभोद्भासिताङ्गम्।
पुण्योपेतं पुण्डरीकायताक्षं
विष्णुं वन्दे सर्वलोकैकनाथम् ॥२॥

सशङ्खचक्रं सकिरीटकुण्डलं
सपीतवस्त्रं सरसीरुहेक्षणम्।
सहारवक्षस्थलशोभिकौस्तुभं
नमामिविष्णुं शिरसा चतुर्भुजम्॥३॥

छायायां पारिजातस्य हेमसिंहासनोपरि
आसीनमंबुदश्याममायताक्षमलङ्कृतम्।
चन्द्राननं चतुर्बाहुं श्रीवत्साङ्कितवक्षसं
रुक्मिणीसत्यभामाभ्यां सहितं कृष्णमाश्रये॥४॥]
Here start the one thousand names of Lord Vishnu:

ओं विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभुः।
भूतकृत् भूतभृत्भावो भूतात्मा भूतभावनः॥१॥

पूतात्मा परमात्मा च मुक्तानां परमा गतिः।
अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च॥२॥

योगो योगविदांनेता प्रधानपुरुषेश्वरः
नारसिंहवपुः श्रीमान् केशवः पुरुषोत्तमः॥३॥

सर्वः शर्वः शिवः स्थाणुर्भूतादिर्निधिरव्ययः।
संभवो भावनो भर्ता प्रभवः प्रभुरीश्वरः॥४॥

स्वयंभूः शंभुरादित्यः पुष्कराक्षो महास्वनः।
अनादिनिधनो धाता  विधाता
धातुरुत्तमः॥५॥

अप्रमेयो हृषीकेशः पद्मनाभोऽमरप्रभुः।
विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरोध्रुवः॥६॥

अग्राह्यः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः
प्रभूतस्त्रिककुब्धाम पवित्रं मङ्गलं परम् ॥७॥

ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः।
हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः ॥८॥

ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः।
अनुत्तमो दुराधर्षः कृतज्ञः कृतिरात्मवान् ॥९॥

सुरेशः शरणं शर्म विश्वरेताः प्रजाभवः।
अहः संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः॥१०॥  

अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादिरच्युतः।
वृषाकपिरमेयात्मा सर्वयोगविनिःसृतः ॥११॥

वसुर्वसुमनाः सत्यः समात्माऽसम्मितः समः।
अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः॥१२॥

रुद्रो बहुशिराः बभ्रुर्विश्वयोनिः शुचिश्रवाः।
अमृतः शाश्वतः स्थाणुर्वरारोहो महातपाः॥१३॥

सर्वगः सर्वविद्भानुर्विष्वक्सेनो जनार्दनः।
वेदो वेदविदव्यङ्गो वेदाङ्गो वेदवित्कविः॥१४॥

लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृताकृतः।
चतुरात्मा चतुर्व्यूहश्चतुर्दंष्ट्रश्चतुर्भुजः॥१५॥

भ्राजिष्णुर्भोजनं भोक्ता सहिष्णुर्जगदादिजः।
अनघो विजयो जेता विश्वयोनिः पुनर्वसुः॥१६॥

उपेन्द्रो वामनः प्रांशुरमोघः शुचिरूर्जितः।
अतीन्द्रः संग्रहः सर्गो धृतात्मा नियमो यमः॥१७॥

वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः।
अतीन्द्रियो महामायो महोत्साहो महाबलः॥१८॥

महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युतिः।
अनिर्देश्यवपुः श्रीमानमेयात्मा महाद्रिधृक्॥१९॥

महेष्वासो महीभर्ता श्रीनिवासः सतांगतिः।
अनिरुद्धः सुरानन्दो गोविन्दो गोविदांपतिः॥२०॥

मरीचिर्दमनो हंसः सुपर्णो भुजगोत्तमः।
हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः॥२१॥


अमृत्युः सर्वदृक्सिंहः संधाता सन्धिमांस्थिरः।
अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा॥२२॥

गुरुर्गुरुतमो धाम सत्यः सत्यपराक्रमः।
निमिषोऽनिमिषः स्रग्वी वाचस्पतिरुदारधीः॥२३॥

अग्रणीर्ग्रामणीः श्रीमान्न्यायोनेता समीरणः।
सहस्रमूर्धा विश्वात्मा सहस्राक्षः सहस्रपात्॥२४॥

आवर्तनो निवृत्तात्मा संवृतः संप्रमर्दनः।
अहः संवर्तको वह्निरनिलो धरणीधरः॥२५॥

सुप्रसादः प्रसन्नात्मा विश्वधृग्विश्वभुग्विभुः।
सत्कर्ता सत्कृतः साधुर्जन्हुर्नारायणो नरः ॥२६॥

असंख्येयोऽप्रमेयात्मा विशिष्टः शिष्टकृच्छुचिः।
सिद्धार्थः सिद्धसङ्कल्पः सिद्धिदः सिद्धिसाधनः॥२७॥

वृषाही वृषभो विष्णुर्वृषपर्वा वृषोदरः।
वर्धनो वर्धमानश्च विविक्तः श्रुतिसागरः॥२८॥

सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुदो वसुः।
नैकरूपो बृहद्रूपः शिपिविष्टः प्रकाशनः॥२९॥

ओजस्तेजोद्युतिधरः प्रकाशात्मा प्रतापनः।
ऋद्धः स्पष्टाक्षरो मन्त्रश्चन्द्रांशुर्भास्करद्युतिः॥३०॥

अमृतांशूद्भवो भानुः शशबिन्दुः सुरेश्वरः।
औषधं जगतःसेतुः सत्यधर्मपराक्रमः॥३१॥

भूतभव्यभवन्नाथः पवनः पावनोऽनलः।
कामहा कामकृत्कान्तः कामः कामप्रदः प्रभुः॥३२॥

युगादिकृद्युगावर्तो नैकमायो महाशनः।
अदृश्यो व्यक्तरूपश्च सहस्रजिदनन्तजित्॥३३॥

इष्टोऽविशिष्टः शिष्टेष्टः शिखण्डी नहुषो वृषः।
क्रोधहा क्रोधकृत्कर्ता विश्वबाहुर्महीधरः॥३४॥

अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः।
अपांनिधिरधिष्ठानमप्रमत्तः प्रतिष्ठितः॥३५॥

स्कन्दः स्कन्दधरो धुर्यो वरदो वायुवाहनः।
वासुदेवो बृहद्भानुरादिदेवः पुरन्दरः॥३६॥

अशोकस्तारणस्तारः शूरः शौरिर्जनेश्वरः।
अनुकूलः शतावर्तः पद्मी पद्मनिभेक्षणः॥३७॥

पद्मनाभोऽरविन्दाक्षः पद्मगर्भः शरीरभृत्।
महर्द्धिः ऋद्धो वृद्धात्मा महाक्षो गरुडध्वजः॥३८॥

अतुलः शरभो भीमः समयज्ञो हविर्हरिः।
सर्वलक्षणलक्षण्यो लक्ष्मीवान् समितिञ्जयः॥३९॥

विक्षरो रोहितो मार्गो हेतुर्दामोदरः सहः।
महीधरो महाभागो वेगवानमिताशनः॥४०॥

उद्भवः  क्षोभणो देवः श्रीगर्भः परमेश्वरः।
करणं कारणं कर्ता विकर्ता गहनो गुहः॥४१॥

व्यवसायो व्यवस्थानः संस्थानः स्थानदो ध्रुवः।
परर्द्धिः परमस्पष्टस्तुष्टः पुष्टः शुभेक्षणः॥४२॥

रामो विरामो विरजो मार्गो नेयो नयोऽनयः।
वीरः शक्तिमतांश्रेष्ठो धर्मो धर्मविदुत्तमः॥४३॥

वैकुण्ठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः।
हिरण्यगर्भः शत्रुघ्नो व्याप्तो वायुरधोक्षजः॥४४॥

ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः।
उग्रः संवत्सरो दक्षो विश्रामो विश्वदक्षिणः॥४५॥

विस्तारः स्थावरः स्थाणुः प्रमाणं बीजमव्ययं।
अर्थोऽनर्थो महाकोशो महाभोगो महाधनः ॥४६॥

अनिर्विण्णः स्थविष्ठोऽभूर्धर्मयूपो महामखः।
नक्षत्रनेमिर्नक्षत्री क्षमः क्षामः समीहनः ॥४७॥

यज्ञ इज्यो महेज्यश्च क्रतुः सत्रं सतांगतिः।
सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम्॥४८॥

सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत्।
मनोहरो जितक्रोधो वीरबाहुर्विदारणः॥४९॥

स्वापनः स्ववशो व्यापी नैकात्मा नैककर्मकृत्।
वत्सरो वत्सलो वल्त्सी रत्नगर्भो धनेश्वरः॥५०॥
धर्मगुब्धर्मकृद्धर्मी सदसत्क्षरमक्षरं।
अविज्ञाता सहस्रांशुर्विधाता कृतलक्षणः॥५१॥

गभस्तिनेमिः सत्त्वस्थः सिंहो भूतमहेश्वरः।
आदिदेवो महादेवोवॊ देवेशो देवभृद्गुरुः॥५२॥

उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः।
शरीरभूतभृद्भोक्ता कपीन्द्रो भूरिदक्षिणः॥५३॥

सोमपोऽमृतपः सोमः पुरुजित्पुरुसत्तमः।
विनयो जयः सत्यसन्धो दाशार्हः सात्त्वतांपतिः॥५४॥

जीवो विनयिता साक्षी मुकुन्दोऽमितविक्रमः।
अम्भोनिधिरनन्तात्मा महोदधिशयोऽन्तकः॥५५॥

अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः।
आनन्दो नन्दनो नन्दः सत्यधर्मा त्रिविक्रमः॥५६॥

महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः।
त्रिपदस्त्रिदशाध्यक्षो महाशृङ्गः कृतान्तकृत्॥५७॥

महावराहो गोविन्दः सुषेणः कनकाङ्गदी।
गुह्यो गभीरो गहनो गुप्तश्चक्रगदाधरः॥५८॥

वेधाः स्वाङ्गोऽजितः कृष्णो दृढः सङ्कर्षणोऽच्युतः।
वरुणो वारुणो वृक्षः पुष्कराक्षो महामनाः॥५९॥

भगवान्भगहाऽऽनन्दी वनमाली हलायुधः।
आदित्यो ज्योतिरादित्यः सहिष्णुर्गतिसत्तमः॥६०॥

सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः।
दिविस्पृक्सर्वदृग्व्यासो वाचस्पतिरयोनिजः॥६१॥

त्रिसामा सामगः साम निर्वाणं भेषजं भिषक्।
सन्यासकृच्छमः शान्तो निष्ठा शान्तिः परायणम्॥६२॥

शुभाङ्गः शान्तिदः स्रष्टा कुमुदः कुवलेशयः।
गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः॥६३॥

अनिवर्ती निवृत्तात्मा संक्षेप्ता क्षेमकृच्छिवः।
श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतांवरः॥६४॥

श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः।
श्रीधरः श्रीकरः श्रेयः श्रीमान् लोकत्रयाश्रयः ॥६५॥

स्वक्षः स्वङ्गः शतानन्दो नन्दिर्ज्योतिर्गणेश्वरः।
विजितात्माऽविधेयात्मा सत्कीर्तिश्छिन्नसंशयः॥६६॥

उदीर्णः सर्वतश्चक्षुरनीशः शाश्वतः स्थिरः।
भूशयो भूषणो भूतिर्विशोकः शोकनाशनः॥६७॥

अर्चिष्मानर्चितः कुम्भो विशुद्धात्मा विशोधनः।
अनिरुद्धोऽप्रतिरथः प्रद्युम्नोऽमितविक्रमः॥६८॥

कालनेमिनिहा वीरः शौरिः शूरजनेश्वरः।
त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः॥६९॥

कामदेवः कामपालः कामी कान्तः कृतागमः।
अनिर्देश्यवपुर्विष्णुर्वीरोऽनन्तो धनंजयः ॥७०॥

ब्रह्मण्यो ब्रह्मकृद्ब्रह्मा ब्रह्म ब्रह्मविवर्धनः।
ब्रह्मविद्ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः॥७१॥

महाक्रमो महाकर्मा महातेजा महोरगः।
महाक्रतुर्महायज्वा महायज्ञो महाहविः॥७२॥

स्तव्यः स्तवप्रियः स्तोत्रं स्तुतिः स्तोता रणप्रियः।
पूर्णः पूरयिता पुण्यः पुण्यकीर्तिरनामयः॥७३॥

मनोजवस्तीर्थकरो वसुरेता वसुप्रदः।
वसुप्रदो वासुदेवो वसुर्वसुमना हविः॥७४॥

सद्गतिः सत्कृतिः सत्ता सद्भूतिः सत्परायणः।
शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः॥७५॥

भूतावासो वासुदेवः सर्वासुनिलयोऽनलः।
दर्पहा दर्पदो दृप्तो दुर्धरोऽथापराजितः॥७६॥

विश्वमूर्तिर्महामूर्तिर्दीप्तमूर्तिरमूर्तिमान्।
अनेकमूर्तिरव्यक्तः शतमूर्तिः शताननः॥७७॥

एको नैकः सवः कः किं यत्तत् पदमनुत्तमम्।
लोकबन्धुर्लोकनाथो  माधवो
भक्तवत्सलः॥७८॥

सुवर्णवर्णो हेमाङ्गो वराङ्गश्चन्दनाङ्गदी।
वीरहा विषमः शून्यो घृताशीरचलश्चलः॥७९॥

अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृक्।
सुमेधाः मेधजो धन्यः सत्यमेधा धराधरः॥८०॥  

तेजोवृषो द्युतिधरः सर्वशस्त्रभृतां वरः।
प्रग्रहो निग्रहो व्यग्रो नैकशृङ्गो गदाग्रजः॥८१॥

चतुर्मूर्तिश्चतुर्बाहुश्चतुर्व्यूहश्चतुर्गतिः।
चतुरात्मा चतुर्भावश्चतुर्वेदविदेकपात् ॥८२॥

समावर्तोऽनिवृत्तात्मा दुर्जयो दुरतिक्रमः।
दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा॥८३॥

शुभाङ्गो लोकसारङ्गः सुतन्तुस्तन्तुवर्धनः।
इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः॥८४॥

उद्भवः सुन्दरः सुन्दो रत्ननाभः सुलोचनः।
अर्को वाजसनः शृङ्गी जयन्तः सर्वविज्जयी॥८५॥

सुवर्णाबिन्दुरक्षोभ्यः सर्ववागीश्वरेश्वरः।
महाह्रदो महागर्तो महाभूतो महानिधिः॥८६॥

कुमुदः कुन्दरः कुन्दः पर्जन्यः पावनोऽनिलः।
अमृताशोऽमृतवपुः सर्वज्ञः सर्वतोमुखः॥८७॥

सुलभः सुव्रतः सिद्धः शत्रुजिच्छत्रुतापनः।
न्यग्रोधोदुंबरोऽश्वत्थश्चाणूरान्ध्रनिषूदनः॥८८॥

सहस्रार्चिः सप्तजिह्वः सप्तैधाः सप्तवाहनः।
अमूर्तिरनघोऽचिन्त्यो भयकृद्भयनाशनः॥८९॥

अणुर्बृहत्कृशः स्थूलो गुणभृन्निर्गुणो महान्।
अधृतः स्वधृतः स्वास्यः प्राग्वंशो वंशवर्धनः॥९०॥

भारभृत्कथितो योगी योगीशः सर्वकामदः।
आश्रमः श्रमणः क्षामः सुपर्णो वायुवाहनः॥९१॥

धनुर्धरो धनुर्वेदो दण्डो दमयिता दमः।
अपराजितः सर्वसहो नियन्ता नियमो यमः॥९२॥

सत्ववान् सात्विकः सत्यः सत्यधर्मपरायणः।
अभिप्रायः प्रियार्होऽर्हः प्रियकृत्प्रीतिवर्धनः॥९३॥

विहायसगतिर्ज्योतिः सुरुचिर्हुतभुग्विभुः।
रविर्विलोचनः सूर्यः सविता रविलोचनः॥९४॥

अनन्तो हुतभुग्भोक्ता सुखदो नैकदोऽग्रजः।
अनिर्विण्णः सदामर्षी लोकाधिष्ठानमद्भुतः॥९५॥

सनात्सनातनतमः कपिलः कपिरप्ययः।
स्वस्तिदः स्वस्तिकृत्स्वस्ति स्वस्तिभुक्स्वस्तिदक्षिणः॥९६॥

अरौद्रः कुण्डली चक्री विक्रम्यूर्जितशासनः।
शब्दातिगः शब्दसहः शिशिरः शर्वरीकरः॥९७॥

अक्रूरः पेशलो दक्षो दक्षिणः क्षमिणां वरः।
विद्वत्तमो वीतभयः पुण्यश्रवणकीर्तनः॥९८॥

उत्तारणो दुष्कृतिहा पुण्यो दुःस्वप्ननाशनः।
वीरहा रक्षणः सन्तो जीवनः पर्यवस्थितः॥९९॥

अनन्तरूपोऽनन्तश्रीर्जितमन्युर्भयापहः।
चतुरस्रो गभीरात्मा विदिशो व्यादिशो दिशः॥१००॥
  
अनादिर्भूर्भुवो लक्ष्मीः सुवीरो रुचिराङ्गदः।
जननो जनजन्मादिर्भीमो भीमपराक्रमः॥१०१॥

आधारनिलयोऽधाता पुष्पहासः प्रजागरः।
ऊर्ध्वगः सत्पथाचारः प्राणदः प्रणवः पणः॥१०२॥

प्रमाणं प्राणनिलयः प्राणभृत्प्राणजीवनः।
तत्त्वं तत्त्वविदेकात्मा जन्ममृत्युजरातिगः॥१०३॥

भूर्भुवःस्वस्तरुस्तारः सविता प्रपितामहः।
यज्ञो यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः॥१०४॥

यज्ञभृद्यज्ञकृद्यज्ञी यज्ञभुग्यज्ञसाधनः।
यज्ञान्तकृद्यज्ञगुह्यमन्नमन्नाद एव च ॥१०५॥

आत्मयोनिः स्वयंजातो वैखानः सामगायनः।
देवकीनन्दनः स्रष्टा क्षितीशः पापनाशनः ॥१०६॥

शङ्खभृन्नन्दकी चक्री शाङ्‌र्गधन्वा गदाधरः।
रथाङ्गपाणिरक्षोभ्यः सर्वप्रहरणायुधः ॥१०७॥

         सर्वप्रहरणायुध ॐ नम इति
[Note:The following sloka is traditionally
included though this is not in the original text.  This takes the total number to 108 slokas which
is = 27×4
which represents the total number of padas
in the 27 stars starting from Ashwini  and ending with Revathi.  The first sloka corresponds to the first pada
(one-fourth) of Ashwini, the second sloka corresponds to the second pada
of Ashwini  and so on.  The fifth sloka corresponds to the first pada
of the next star Bharani  and so
on sequentially.  The 108th  sloka corresponds to the 4th pada
of Revathi .  Those who are unable
to chant the whole of Vishnu sahasranama can chant the four slokas
corresponding to the star in which they were born.  Even if this is not possible they can chant
the particular sloka corresponing to the pada of the star in which they
were born.  It is believed that this will
be beneficial for the material and spiritual well being of those who take these
sacred names of the Lord.]     

[वनमाली गदी शाङ्‌र्गी शङ्खी चक्री च नन्दकी।
श्रीमान्नारायणो विष्णुर्वासुदेवोऽभिरक्षतु ॥१०८॥

      श्री वासुदेवोऽभिरक्षतु ॐ नम
इति]

फलश्रुति:

इतीदं कीर्तनीयस्य केशवस्य महात्मनः।
नाम्नां सहस्रं दिव्यानामशेषण प्रकीर्तितम्॥१॥

य इदं शृणुयान्नित्यं यश्चापि परिकीर्तयेत्।
नाशुभं प्राप्नुयात्किञ्चित्सोऽमुत्रेह च मानव: ॥२॥
वेदान्तगो ब्रह्मणः स्यात्क्षत्रियो विजयी भवेत्।
वैश्यो धनसमृद्धः स्याच्छूद्रः सुखमवाप्नुयात् ॥३॥

धर्मार्थी प्राप्नुयाद्धर्ममर्थार्थी चार्थमाप्नुयात्।
कामानवाप्नुयात्कामी प्रजार्थी चाप्नुयात्प्रजाम् ॥४॥

भक्तिमान्यः सदोत्थाय शुचिस्तद्गतमानसः।
सहस्रं वासुदेवस्य नाम्नामेतत्प्रकीर्तयेत्॥५॥

यशः प्राप्नोति विपुलं ज्ञातिप्राधान्यमेव च।
अचलां श्रियमाप्नोति श्रेयः प्राप्नोत्यनुत्तमम्॥६॥

न भयं क्वचिदाप्नोति वीर्यं तेजश्च विन्दति।
भवत्यरोगो द्युतिमान् बलरूपगुणान्वितः ॥७॥

रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात्।
भयान्मुच्येत भीतस्तु मुच्येतापन्न आपदः॥८॥

दुर्गाण्यतितरत्याशु पुरुषः पुरुषोत्तमम्।
स्तुवन्नामसहस्रेण नित्यं भक्तिसमन्वितः ॥९॥

वासुदेवाश्रयो मर्त्यो वासुदेवपरायणः ।
सर्वपापविमुक्तात्मा याति ब्रह्म सनातनम् ॥१०॥    

न वासुदेवभक्तानामशुभं विद्यते क्वचित्।
जन्ममृत्युजराव्याधिभयं नैवोपजायते ॥११॥

इमं स्तवमधीयानः श्रद्धाभक्तिसमन्वितः।
युज्येतात्मसुखक्षान्तिश्रीधृतिस्मृतिकीर्तिभिः ॥१२॥

न क्रोधो न च मात्सर्यं न लोभो नाशुभा मतिः।
भवन्ति कृतपुण्यानां भक्तानां पुरुषोत्तमे ॥१३॥
द्यौः सचन्द्रार्कनक्षत्रा खं दिशो भूर्महोदधिः।
वासुदेवस्य विर्येण विधृतानि महात्मनः ॥१४॥

ससुरासुरगन्धर्वं सयक्षोरगराक्षसम्।
जगद्वशे वर्ततेदं कृष्णस्य सचराचरम् ॥१५॥

इन्द्रियाणि मनो बुद्धिः सत्त्वं तेजो बलं धृतिः।
वासुदेवात्मकान्याहुः क्षेत्रं क्षेत्रज्ञ एव च ॥१६॥

सर्वागमानामाचारः प्रथमं परिकल्पते।
आचारप्रभवो धर्मो धर्मस्य प्रभुरच्युतः ॥१७॥

ऋषयः पितरो देवा महाभूतानि धातवः।
जङ्गमाऽजङ्गमं चेदं जगन्नारायणोद्भवम् ॥१८॥

योगो ज्ञानं तथा सांख्यं विद्याः शिल्पादि कर्म च।
वेदाः शास्त्राणि विज्ञानमेतत्सर्वं जनार्दनात् ॥१९॥

एको विष्णुर्महद्भूतं पृथग्भूतान्यनेकशः ।
त्रींल्लोकान् व्याप्य भूतात्मा भुङ्क्ते विश्वभुगव्ययः ॥२०॥

इमं स्तवं भगवतो विष्णोर्व्यासेन कीर्तितम्।
पठेद्य इच्छेत्पुरुषः श्रेयः प्राप्तुं सुखानि च ॥२१॥

विश्वेश्वरमजं देवं जगतः प्रभवाप्ययम्।
भजन्ति ये पुष्कराक्षं न ते यान्ति पराभवम् ॥२२॥

न ते यान्ति पराभवम् ओं नम इति

After this the following slokas are traditionally chanted at the end.
These are not in the original text of Vishnu Sahasranama in Mahabharata:

श्री अर्जुन उचाच-

पद्मपत्रविशालाक्ष पद्मनाभ सुरोत्तम।
भक्तानामनुरक्तानां त्राता भव जनार्दन ॥१॥

श्री भगवानुवाच –

यो मां नामसहस्रेण स्तोतुमिच्छति पाण्डव।
सोऽहमेकेन श्लोकेन स्तुत एव न संशयः ॥२॥

स्तुत एव न संशय ओं नम इति

श्री व्यास उवाच –

वासनाद्वासुदेवस्य वासितं भुवनत्रयम्।
सर्वभूतनिवासोऽसि वासुदेव नमोऽस्तु ते ॥३॥

वासुदेव नमोऽस्तु त ओं नम इति

श्री पार्वत्युवा च-

केनोपायेन लघुना विष्णोर्नामसहस्रकम्।
पठ्यते पण्डितैर्नित्यं श्रोतुमिच्छाम्यहं प्रभो ॥४॥

श्री ईश्वर उवाच –
श्रीराम राम रामेति रमे रामे मनोरमे ।
सहस्रनाम तत्तुल्यं रामनाम वरानने ॥५॥

श्री रामनाम वरानन ओं नम इति

श्री ब्रह्मोवाच –

नमोऽस्त्वनन्ताय सहस्रमूर्तये
सहस्रपादाक्षि शिरोरुबाहवे।
सहस्रनाम्ने पुरुषाय शाश्वते
सहस्रकोटियुगधारिणे नमः ॥६॥

सहस्रकोटियुगधारिण ओं नम इति

श्री सञ्जय उवाच –

यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः।
तत्र श्रीर्विजयोभूतिर्ध्रुवानीति मतिर्मम॥ ७॥

श्री भगवानुवाच-

अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥८॥

परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।
धर्मसंस्थापनार्थाय संभवामि युगे युगे ॥९॥

आर्ता विषण्णा शिथिलाश्च भीताः
घोरेषु च व्याधिषु वर्तमानाः।
संकीर्त्य नारायण शब्दमात्रं
विमुक्तदुःखाः सुखिनो भवन्तु ॥१०॥

SRIVISHNU PURANE DHRUVAKrUTA BHAGAVATSTUTI

      श्रीविष्णुपुराणे ध्रुवकृता भगवत्स्तुतिः
भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च।
भूतादिरादिप्रकृतिर्यस्य रूपं नतोऽस्म्यहम्॥१॥
शुद्धः सूक्ष्मोऽखिलव्यापी प्रधानात्परतः पुमान्।
यस्य रूपं नमस्तस्मै पुरुषाय गुणाशिने ॥२॥

भूरादीनां समस्तानां गन्धादीनां च शाश्वतः।
बुध्यादीनां प्रधानस्य पुरुषस्य च यः परः॥३॥
तं सूक्ष्मभूतमात्मानमशेषजगतः पतिम् ।
प्रपद्ये शरणं शुद्धं त्वद्रूपं परमेश्वर ॥४॥
बृहत्त्वात्बृंहणत्वाच्च यद्रूपं ब्रह्मसंज्ञितम्।
तस्मै नमस्ते सर्वात्मन् योगिचिन्त्याऽविकारिणे ॥५॥
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्।
सर्वव्यापी भुवः स्पर्शादत्यतिष्ठद्दशाङ्गुलम्॥६॥
यद्भूतं यच्च वै भव्यं पुरुषोत्तम तद्भवान्।
त्वत्तो विराट् स्वराट् सम्राट् त्वत्तश्चाप्यधिपूरुषः ॥७॥
अत्यरिच्यत सोऽधश्च तिर्यगूर्ध्वं च वै भुवः।
त्वत्तो विश्वमिदं जातं त्वत्तो भूतभविष्यती ॥८॥
त्वद्रूपधारिणश्चान्तर्भूतं सर्वमिदं जगत्।
त्वत्तो यज्ञः सर्वहुतः पृषदाज्यं पशुर्द्विधा ॥९॥
त्वत्तः ऋचोऽथ सामानि त्वत्तः छ्न्दांसि जज्ञिरे ।
त्वत्तो यजूंष्यजायन्त त्वत्तोऽश्वाश्चैकतो दतः ॥१०॥
गावस्त्वत्तः समुद्भूतास्त्वत्तोऽजा अवयो मृगाः ।
त्वन्मुखाद्ब्राह्मणस्त्वत्तो बाहोः क्षत्रमजायत॥११॥
वैश्यास्तवोरुजाः शूद्रास्तव पद्भ्यां समुद्गताः।
अक्ष्णोः सूर्योऽनिलः प्राणाच्चन्द्रमा मनसस्तव ॥१२॥
प्राणोन्तःसुषिराज्जातो  मुखादग्निरजायत ।
नाभितो गगनं द्यौश्च शिरसः समवर्तत ॥१३॥
दिशः श्रोत्रात्क्षितिः पद्भ्यां त्वत्तः सर्वमभूदिदम्।।१४॥
न्यग्रोधः सुमहानल्पे यथा बीजे व्यवस्थितः ।
संयमे विश्वमखिलं बीजभूते तथा त्वयि ॥१५॥
बीजादङ्कुरसम्भूतो न्यग्रोधस्तु समुत्थितः।
विस्तारं च यथा याति त्वत्तः सृष्टौ तथा जगत् ॥१६॥
यथा हि कदली नान्या त्वक्पत्रादपि दृश्यते।
एवं विश्वस्य नान्यस्त्वं त्वत्स्थायीश्वर दृश्यते ॥१७॥
ह्लादिनी सन्धिनी संवित्त्वय्येका सर्वसंस्थितौ।
ह्लादतापकरी मिश्रा त्वयि नो गुणवर्जिते ॥१८॥
पृथक्भूतैकभूताय भूतभूताय ते नमः।
प्रभूतभूतभूताय तस्मै भूतात्मने नमः ॥१९॥
व्यक्तं प्रधानपुरुषौ विराट् सम्राट् स्वराट् तथा ।
विभाव्यतेऽन्तःकरणे पुरुषेष्वक्षयो भवान् ॥२०॥
सर्वस्मिन्सर्वभूतस्त्वं सर्वः सर्वस्वरूपधृक्।
सर्वं त्वत्तस्ततश्च त्वं नमः सर्वात्मनेऽस्तु ते ॥२१॥
सर्वात्मकोऽसि सर्वेश सर्वभूतस्थितो यतः ।
कथयामि ततः किं ते सर्वं वेत्ति हृदि स्थितम् ॥२२॥
सर्वात्मन् सर्वभूतेश सर्वसत्त्वसमुद्भव।
सर्वभूतो भवान् वेत्ति सर्वसत्त्वमनोरथम् ॥२३॥
यो मे मनोरथो नाथ सफलः स त्वया कृतः।
तपश्च तप्तं सफलं यद्दृष्टोऽसि जगत्पते ॥२४॥


SRIVISHNUPURANE PRAHLADAKRUTA BHAGAVATSTUTI

श्रीविष्णुपुराणे प्रह्लादकृता
भगवत्स्तुतिः
नमस्ते पुण्डरीकाक्ष नमस्ते पुरुषोत्तम।
नमस्ते सर्वलोकात्मन्नमस्ते तिग्मचक्रिणे ॥१॥
नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च ।
जगद्धिताय कृष्णाय गोविन्दाय नमो नमः ॥२॥
ब्रह्मत्वे सृजते विश्वं स्थितौ पालयते पुनः।
रुद्ररूपाय कल्पान्ते नमस्तुभ्यं त्रिमूर्तये॥३॥
देवा यक्षासुराः सिद्धा नागा गन्धर्वकिन्नराः।
पिशाचा राक्षसाश्चैव मनुष्याः पशवस्तथा॥४॥
पक्षिणः स्थावराश्चैव पिपीलिकसरीसृपाः।
भूम्यापोऽग्निर्नभो वायुः शब्दः स्पर्शस्तथा रसः ॥५॥
रूपं गन्धो मनो बुद्धिरात्मा कालस्तथा गुणाः।
एतेषां परमार्थश्च सर्वमेतत्त्वमच्युत ॥६॥

विद्याविद्ये भवान्सत्यमसत्यं त्वं विषामृते।
प्रवृत्तं च निवृत्तं च कर्म वेदोदितं भवान् ॥७॥

समस्तकर्मभोक्ता च कर्मोपकरणानि च।
त्वमेव विष्णो सर्वाणि सर्वकर्मफलं च यत् ॥८॥
मय्यन्यत्र तथान्येषु भूतेषु भुवनेषु च।
तवैव व्याप्तिरैश्वर्यगुणसंसूचिकी प्रभो ॥९॥
त्वां योगिनश्चिन्तयन्ति त्वां यजन्ति च याजकाः
हव्यकव्यभुगेकस्त्वं पितृदेवस्वरूपधृक्  ॥१०॥
रूपं महत्ते स्थितमत्र विश्वं
ततश्च सूक्ष्मं जगदेतदीश।
रूपाणि सर्वाणि च भूतभेदा-
स्तेष्वन्तरात्माख्यमतीव सूक्ष्मम् ॥११॥


तस्माच्च सूक्ष्मादिविशेषणाना-
मगोचरे यत्परमात्मरूपम्।
किमप्यचिन्त्यं तव रूपमस्ति
तस्मै नमस्ते पुरुषोत्तमाय ॥१२॥
सर्वभूतेषु सर्वात्मन्या शक्तिरपरा तव।
गुणाश्रया नमस्तस्यै शाश्वतायै सुरेश्वर ॥१३॥
यातीतगोचरा वाचां मनसां चाविशेषणा।
ज्ञानिज्ञानपरिच्छेद्या तां वन्दे स्वेश्वरीं पराम् ॥१४॥
ऊँ नमो वासुदेवाय तस्मै भगवते सदा।
व्यतिरिक्तं न यस्यास्ति व्यतिरिक्तोऽखिलस्य यः ॥१५॥
नमस्तस्मै नमस्तस्मै नमस्तस्मै महात्मने।
नाम रूपं न यस्यैको योऽस्तित्वेनोपलभ्यते ॥१६॥

यस्यावताररूपाणिसमर्चन्ति दिवौकसः
अपश्यन्तः परं रूपं नमस्तस्मै महात्मने ॥१७॥
योऽन्तस्तिष्ठन्नशेषस्य पश्यतीशः शुभाशुभम्।
तं सर्वसाक्षिणं विश्वं नमस्ये परमेश्वरम् ॥१८॥
नमोऽस्तु विष्णवे तस्मै यस्याभिन्नमिदं जगत्।
ध्येयः स जगतामाद्यः स प्रसीदतु मेऽव्ययः ॥१९॥
यत्रोतमेतत्प्रोतं च विश्वमक्षरमव्ययम्।
आधारभूतः सर्वस्य स प्रसीदतु मे हरिः॥२०॥
ऊँ नमो विष्णवे तस्मै नमस्तस्मै पुनः पुनः।
यत्र सर्वं यतः सर्वं यः सर्वं सर्वसंश्रयः ॥२१॥
सर्वगत्वादनन्तस्य स एवाहमवस्थितः।
मत्तः सर्वमहं सर्वं मयि सर्वं सनातने॥२२॥

अहमेवाक्षयो नित्यः परमात्मात्मसंश्रयः।
ब्रह्मसंज्ञोऽहमेवाग्रे 
तथान्ते च परः पुमान् ॥२३॥
ऊँ नमः परमार्थार्थ स्थूलसूक्ष्म क्षराक्षर।
व्यक्ताव्यक्त कलातीत सकलेश निरञ्जन॥२४॥
गुणाञ्जन गुणाधार निर्गुणात्मन् गुणस्थित।
मूर्त्तामूर्तमहामूर्ते सूक्ष्ममूर्ते स्फुटास्फुट ॥२५॥
करालसौम्यरूपात्मन्विद्याऽविद्यामयाच्युत।
सदसद्रूपसद्भाव सदसद्भावभावन ॥२६॥
नित्यानित्यप्रपञ्चात्मन्निष्प्रपञ्चामलाश्रित।
एकानेक नमस्तुभ्यं वासुदेवादिकारण ॥२७॥
यः स्थूलसूक्ष्मः प्रकटप्रकाशो
यः सर्वभूतो न च सर्वभूतः ।
विश्वं यतश्चैतदविश्वहेतो-
र्नमोऽस्तु तस्मै पुरुषोत्तमाय ॥२८॥


ANUSMRITI (FROM THE EPIC MAHABHARATA)

                                                            ANUSMRITI                                                
Anusmriti is considered as
one of the five jewels in the great epic of Mahabharata as mentioned in the
following oft-quoted  verse:
                
                              गीता नामसहस्रं च स्तवराजोऽनुस्मृतिः।
           गजेन्द्रमोक्षणं चैव पञ्चरत्नानि भारते॥
The following are the five jewels in Mahabharata:
Bhagavadgita, the Song Divine, a Universal philosophy
of life and living enabling  the individual
soul transcend the pluralistic universe and experience its complete identity
with the One Ultimate Reality.
      
Vishnu
Shasranama, the thousand names of Vishnu.
Bhishmastavaraajah,
Hymn by Bhishma addressed to Lord Krishna while the former was awaiting Uttaraayana
(when the Sun turns North from the tropic of Capricorn)   to
cast off his mortal body.
Anusmruti, ways to remember the Lord
while one is still in this world and  in
one’s last moments,  as expounded by Lord
Vishnu to Narada Maharshi
Gajendra
Moksham,  the story of the Gajendra’s
release by the Lord from the clutches of an allegator and Gajendra’s hymn
addressed to the Lord.
Given
below is the text of Anusmriti
                                                                                     अनुस्मृतिः
शतानीक उवाच –
महामते महाप्राज्ञ सर्वशास्त्रविशारद।
अक्षीणकर्मबन्धस्तु पुरुषो द्विजसत्तम ॥१॥
सततं किं जपेज्जाप्यं विबुधः किमनुस्मरन्।
मरणे यज्जपेज्जाप्यं यं च भावमनुस्मरन् ॥२॥
यं च ध्यात्वा द्विजश्रेष्ठ पुरुषो मृत्युमागतः।
परं पदमवाप्नोति तन्मे वद महामुने॥३॥
शौनक उवाच –
इदमेव महाप्राज्ञ पृष्टवांश्च पितामहम्।
भीष्मं धर्मभृतां श्रेष्ठं धर्मपुत्रो युधिष्ठिरः॥
युधिष्ठिर उवाच
पितामह महाप्राज्ञ सर्वशास्त्रविशारद।
प्रयाणकाले किं चिन्त्यं मुमुक्षोस्तत्त्वचिन्तकैः॥५॥
किं नु स्मरन् कुरुश्रेष्ठ मरणे पर्युपस्थिते।
प्राप्नुयां परमां सिद्धिं श्रोतुमिच्छामि तत्त्वतः ॥६॥
भीष्म उचाच-
तद्युक्तं स्वहितं सूक्ष्मं प्रश्नमुक्तं त्वयानघ।
शृणुष्वावहितो राजन् नारदेन पुरा श्रुतम्   ॥७॥
श्रीवत्साङ्कं जगद्बीजमनन्तं लोकसाक्षिणम्।
पुरा नारायणं देवं नारदः परिपृष्टवान् ॥८॥

नारद उवाच –
त्वमक्षरं परं ब्रह्म निर्गुणं तमसः परम्।
आहुर्वेद्यं परं धाम ब्रह्माणं कमलोद्भवम् ॥९॥
भगवन् भूतभव्येश श्रद्दधानैर्जितेन्द्रियैः।
कथं भक्तैर्विचिन्त्योऽसि योगिभिर्मोक्षकाङ्क्षिभिः॥१०॥
किं नु जाप्यं जपेन्नित्यं कल्य उत्थाय मानवः।
कथं जपेत्सदा ध्यायेद् ब्रूहि तत्त्वं सनातनम् ॥११॥
भीष्म उवाच-
श्रुत्वा च तस्य देवर्षेर्वाक्यं वाक्यविशारदः।
प्रोवाच भगवान् विष्णुर्नारदाय च धीमते॥१२॥
श्रीभगवानुवाच-
हन्त ते कथयिष्यामि इमां दिव्यामनुस्मृतिम्।
मरणे मामनुस्मृत्य प्राप्नोति परमां गतिम्॥१३॥
यामधीत्य प्रयाणे तु मद्भावायोपपद्यते।
ऊँकारमग्रतः कृत्वा मां नमस्कृत्य नारद॥१४॥
एकाग्रः प्रयतो भूत्वा इमं मन्त्रमुदीरयेत् ।
ऊँ नमो भगवते वासुदेवाय इत्ययम् ॥१५॥
अवशेनापि यन्नाम्नि कीर्तिते सर्वपातकैः।
पुमान् विमुच्यते सद्यः सिंहत्रस्तैर्मृगैरिव ॥१६॥
क्षराक्षरविसृष्टस्तु प्रोच्यते पुरुषोत्तमः।
अव्यक्तं शाश्वतं देवं प्रभवं पुरुषोत्तमम्॥१७॥
प्रपद्ये पुण्डरीकाक्षं देवं नारायणं हरिम्।
लोकनाथं सहस्राक्षमक्षरं परमं पदम् ॥१८॥
भगवन्तं प्रपन्नोऽस्मि भूतभव्यभवत्प्रभुम् ।
स्रष्टारं सर्वलोकानामनन्तं विश्वतोमुखम् ॥१९॥
पद्मनाभं हृषीकेशं प्रपद्ये सत्यमच्युतम्।
हिरण्यगर्भममृतं भूगर्भं तमसः परम् ॥२०॥
प्रभोः प्रभुमनाद्यं च प्रपद्ये तं रविप्रभम्।
सहस्रशीर्षकं देवं महर्षेः सत्त्वभावनम् ॥२१॥
प्रपद्ये सूक्ष्ममतुलं वरेण्यमनघं शुचिम् ।
नारायणं पुराणेशं योगावासं सनातनम्॥२२॥
संयोगं सर्वभूतानां प्रपद्ये ध्रुवमीश्वरम्।
यः पुरा प्रलये प्राप्ते नष्टे स्थावरजङ्गमे॥२३॥
ब्रह्मादिषु प्रलीनेषु नष्टे लोके चराचरे।
एकस्तिष्ठति विश्वात्मा स मे विष्णुः प्रसीदतु ॥२४॥
यः प्रभुः सर्वलोकानां येन सर्वमिदं ततम्।
चराचरगुरुर्देवः स मे विष्णुः प्रसीदतु ॥२५॥
आभूतसंप्लवे चैव प्रलीने प्रकृतौ महान्।
योऽवतिष्ठति विश्वात्मा स मे विष्णुः प्रसीदतु ॥२६॥
येन क्रान्तास्त्रयो लोका दानवाश्च वशीकृताः।
शरण्यः सर्वलोकानां स मे विष्णुः प्रसीदतु ॥२७॥
यस्य हस्ते गदा चक्रं गरुडो यस्य वाहनम्।
शङ्खः करतले यस्य स मे विष्णुः प्रसीदतु॥२८॥
कार्यं क्रिया च करणं कर्ता हेतुः प्रयोजनम्।
अक्रियाकरणे कार्ये स मे विष्णुः प्रसीदतु ॥२९॥
चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्चभिरेव च।
हूयते च पुनर्द्वाभ्यां स मे विष्णुः प्रसीदतु ॥३०॥
शमीगर्भस्य यो गर्भस्तस्य गर्भस्य यो रिपुः।
रिपुगर्भस्य यो गर्भः स मे विष्णुः प्रसीदतु ॥३१॥
अग्निसोमार्कताराणां ब्रह्मरुद्रेन्द्रयोगिनाम्।
यस्तेजयति तेजांसि स मे विष्णुः प्रसीदतु ॥३२॥
पर्जन्यः पृथिवी सस्यं कालो धर्मः क्रिया फलम् ।
गुणाकरः स मे बभ्रुर्वासुदेवः प्रसीदतु ॥३३॥
योगावास नमस्तुभ्यं सर्वावास वरप्रद।
हिरण्यगर्भ यज्ञाङ्ग पञ्चगर्भ नमोऽस्तु ते ॥३४॥
चतुर्भूत परं धाम लक्ष्म्यावास सदाच्युत।
शब्दादिवासनान्योऽसि वासुदेव प्रधानकृत् ॥३५॥
अजः संगमनः पार्थो ह्यमूर्तिर्विश्वमूर्तिधृक्।
श्रीः कीर्तिः पञ्चकालज्ञो नमस्ते ज्ञानसागर॥३६॥
अव्यक्ताद्व्यक्तमुत्पन्नमव्यक्ताद्यः परात्परः।
यस्मात् परतरं नास्ति तमस्मि शरणं गतः॥३७॥
चिन्तयन्तो ह्यजं नित्यं ब्रह्मेशानादयः सुराः।
निश्चयं नाधिगच्छन्ति तमस्मि शरणं गतः॥३८॥
जितेन्द्रिया जितात्मानो ज्ञानध्यानपरायणाः।
यं प्राप्य न निवर्तन्ते तमस्मि शरणं गतः॥३९॥
एकांशेन जगत्कृत्स्नमवष्ठभ्य स्थितः प्रभुः।
अग्राह्यो निर्गुणो नित्यस्तमस्मि शरणं गतः ॥४०॥
सोमार्काग्निमयं तेजो यश्च तारामयी द्युतिः।
दिवि संजायते तेजः स महात्मा प्रसीदतु ॥४१॥
गुणात्मा निर्गुणश्चान्यो रश्मिवांश्चेतनोह्यजः।
सूक्ष्मः सर्वगतोऽदेहः स महात्मा प्रसीदतु ॥४२॥
अव्यक्तं सदधिष्ठानमचिन्त्यं तमसः परम्।
प्रकृतिः प्रकृतिं भुङ्क्ते स महात्मा प्रसीदतु ॥४३॥
क्षेत्रज्ञः पञ्चधा भुङ्क्ते प्रकृतिं पञ्चभिर्गुणैः।
महागुणांश्च यो भुङ्क्ते स महात्मा प्रसीदतु ॥४४॥
सांख्ययोगाश्च ये चान्ये सिद्धाश्च परमर्षयः।
यं विदित्वा विमुच्यन्ते स महात्मा प्रसीदतु ॥४५॥
अतीन्द्रिय नमस्तुभ्यं लिङ्गैर्व्यक्तैर्न मीयसे ।
ये च त्वां नाभिजानन्ति तमस्मि शरणं गतः॥४६॥
कामक्रोधविनिर्मुक्ता रागद्वेषविवर्जिताः
अनन्यभक्ता जानन्ति न पुनर्नारकी जनः ॥४७॥
एकान्तिनो हि निर्द्वन्द्वा निराशाः कर्मकारिणः।
ज्ञानाग्निदग्धकर्माणः त्वां विशन्ति मनस्विनः ॥४८॥
अशरीरं शरीरस्थं समं सर्वेषु देहिषु।
पापपुण्यविनिर्मुक्ता भक्तास्त्वां पर्युपासते ॥४९॥
अव्यक्तबुद्ध्यहंकारमनोभूतेन्द्रियाणि च।
त्वयि तानि न तेषु त्वं तेषु तानि न ते त्वयि॥५०॥
एकत्वाय च नानन्यं ये विदुर्यान्ति ते परम्।
समत्वमिह काङ्क्षेयं भक्त्या वै नान्यचेतसा ॥५१॥
चराचरमिदं सर्वं भूतग्रामं चतुर्विधम्।
त्वयि तन्तौ च तत्प्रोतं सूत्रे मणिगणा इव ॥५२॥
स्रष्टा भोक्तासि कूटस्थो ह्यचिन्त्यः सर्वसंज्ञितः।
अकर्ता हेतुरहितः पृथगात्मा व्यवस्थितः ॥५३॥
न मे भूतेषु संयोगः पुनर्भवतु जन्मनि।
अहंकारेण बुध्या वा न मे योगस्त्रिभिर्गुणैः॥५४॥
न मे धर्मो ह्यधर्मो वा नारम्भो जन्म वा  पुनः।
जरामरणमोक्षार्थं त्वां प्रपन्नोऽस्मि सर्वगम् ॥५५॥
विषयैरिन्द्रियैश्चापि न मे भूयः समागमः।
ईश्वरोऽसि जगन्नाथ किमतः परमुच्यते ।
भक्तानां यद्धितं देव तत्ते हि त्रिदशेश्वर ॥५६॥
पृथिवीं यातु मे घ्राणं यातु मे रसनं जलम् ।
रूपं हुताशने यातु स्पर्शो मे यातु  मारुते।५७॥
श्रोत्रमाकाशमभ्येतु मनो वैकारिकं पुनः
इन्द्रियाणि गुणान्यान्तु स्वेषु स्वेषु च योनिषु॥५८॥
पृथिवी यातु सलिलमापोऽग्निमनलोऽनिलम्।
वायुराकाशमभ्येतु मनश्चाकाशमेव च ॥५९॥
अहंकारं मनो यातु मोहनं सर्देहिनाम्।
अहंकारस्तथा बुद्धिं  बुद्धिरव्यक्तमेव च ॥६०॥
प्रधानं प्रकृतिं यातु गुणसाम्ये व्यवस्थिते।
विसर्गः सर्वकरणैर्गुणभूतैश्च मे भवेत् ॥६१॥
सत्त्वं रजस्तमश्चैव प्रकृतिं प्रविशन्तु मे ।
निष्कैवल्यपदं देव काङ्क्षेऽहं ते परन्तप॥६२॥
एकीभावस्त्वया मेऽस्तु न मे जन्म भवेत्पुनः।
नमो भगवते तस्मै विष्णवे प्रभविष्णवे ॥६३॥
त्वद्बुद्धिस्त्वद्गतप्राणस्त्वद्भक्तस्त्वत्परायणः।
त्वामेवाहं स्मरिष्यामि मरणे पर्यवस्थिते ॥६४॥
पूर्वदेहे कृता ये मे व्याधयः प्रविशन्तु माम्।
अर्दयन्तु च मां दुःखान्यृणं मे प्रतिमुच्यताम् ॥६५॥
अनुध्येयोऽसि मे देव न मे जन्म भवेत्पुनः।
अस्माद्ब्रवीमि कर्माणि ऋणं मे न भवेदिति॥६६॥
उपतिष्ठन्तु मां सर्वे व्याधयः पूर्ववञ्चिताः।
अनृणो गन्तुमिच्छामि तद्विष्णोः परमं पदम् ॥६७॥
अहं भगवतस्तस्य मम वासः सनातनः।
तस्याहं न प्रणश्यामि स च मे न प्रणश्यति॥६८॥
कर्मेन्द्रियाणि संयम्य पञ्चभूतेन्द्रियाणि च।
दशेन्द्रियाणि मनसि अहंकारं तथा मनः ॥६९॥
अहंकारं तथा बुद्धौ बुद्धिमात्मनि योजयेत्।
आत्मबुद्धीन्द्रियं पश्येत्  बुद्ध्या बुद्धेः परात्परम्॥७०॥
एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना।
ततो बुद्धेः परं बुद्ध्वा लभते न पुनर्भवम् ॥७१॥
ममायमिति तस्याहं येन सर्वमिदं ततम्।
आत्मन्यात्मनि संयोज्य परात्मानमनुस्मरेत् ॥७२॥
नमो भगवते तस्मै देहिनां परमात्मने ।
नारायणाय भक्ताय एकनिष्ठाय शाश्वते  ॥७३॥
हृदिस्थाय च भूतानां सर्वेषां च महात्मने।
इमामनुस्मृतिं दिव्यां वैष्णवीं पापनाशिनीम्।
स्वपन्विबुद्धश्च पठेद्यत्नेन च समभ्यसेत्॥७४॥
मरणे समनुप्राप्ते यदेकं मामनुस्मरेत्   
अपि पापसमाचारः स याति परमां गतिम् ॥७५॥
यद्यहंकारमाश्रित्य यज्ञदानतपक्रियाः।
कुर्वन् फलमवाप्नोति पुनरावर्तनं च तत्॥७६॥
अभ्यर्चयन् पितॄन्देवान् पठन् जुह्वद्बलिं ददत्।
ज्वलदग्नौ स्मरेद्यो मां लभते परमां गतिम् ॥७७॥
यज्ञो दनं तपश्चैव पावनानि मनीषिणाम्।
यज्ञदानतपस्तस्मात्कुर्याद्रागविवर्जितः ॥७८॥
पौर्णमास्याममावस्यां द्वादश्यां च तथैव च।
श्रावयेच्छ्रद्दधानश्च मद्भक्तश्च विशेषतः   ॥७९॥
नम इत्येव यो ब्रूयान्मद्भक्तः श्रद्धायान्वितः।
तस्याक्षयो भवेल्लोकः श्वपाकस्यापि नारद॥८०॥
किं पुनर्ये भजन्ते मां साधका विधिपूर्वकम्।
श्रद्धावन्तो यतात्मानस्ते यान्ति परमां गतिम् ॥८१॥
कर्माण्याद्यन्तवन्तीह मद्भक्तोऽमृतमश्नुते।
मामेव तस्माद्देवर्षे ध्याहि नित्यमतन्त्रितः ॥८२॥
अज्ञानां चैव यो ज्ञानं दद्याद्धर्मोपदेशतः।
कृत्स्नां वा पृथिवीं दद्यात्तेन तुल्यं न तत् फलम् ॥८३॥
तस्मात्प्रदेयं साधुभ्यो जपं बन्धभयापहम्।
अवाप्स्यसि ततः सिद्धिं प्राप्स्यसे च पदं मम ॥८४॥
अश्वमेधसहस्रैश्च वाजपेयशतैरपि।
नासौ फलमवाप्नोति मद्भक्तैर्यदवाप्यते ॥८५॥
भीष्म उवाच –
हरेः पृष्टं पुरा तेन नारदेन सुरर्षिणा।
यदुवाच ततः शम्भुस्तदुक्तं समनुव्रतः ॥८६॥
श्रुत्वैवं नारदो वाक्यं दिव्यं नारायणोदितम्।
अत्यन्तं भक्तिमान् देव एकान्तित्वमुपेयिवान् ॥८७॥
त्वमप्येकमना भूत्वा ध्याहि ध्येयं गुणाधिकम् ।
भजस्व सर्वभावेन परमात्मानमव्ययम् ॥८८॥
नारायणमृषिं देवं दशवर्षाण्यनन्यभाक्।
इमं जपित्वा चाप्नोति तद्विष्णोः परमं पदम् ॥८९॥
किं तस्य बहुभिर्मन्त्रैः किं तस्य बहुभिर्व्रतैः।
नमो नारायणायेति मन्त्रः सर्वार्थसाधकः ॥९०॥
किं तस्य दानैः किं तीर्थैः किं तपोभिः किमध्वरैः।
यो नित्यं ध्यायते देवं नारायणमनन्यधीः ॥९१॥
ये नृशंसा दुरात्मानः पापाचाररतास्तथा।
तेऽपि यान्ति परां स्थानं नारायणपरायणाः ॥९२॥
अनन्यया मन्दबुद्ध्या प्रतिभाति दुरात्मनाम्।
कुतर्काज्ञानदृष्टीनां विभ्रान्तेन्द्रियवर्त्मनाम् ॥९३॥
नमो नारायणायेति ये विदुर्ब्रह्म शाश्वतम्।
अन्तकाले जपाद्यान्ति तद्विष्णोः परमं पदम्॥९४॥
आचारहीनोऽपि मुनिप्रवीर 
भक्त्या विहीनोऽपि विनिन्दितोऽपि।
किं तस्य नारायणशब्दमात्रतो
विमुक्तपापो विशतेऽच्युतां गतिम्॥९५॥
कान्तारवनदुर्गेषु कृच्छ्रेष्वापत्सु संयुगे।
दस्युभिः सन्निरुद्धश्च नामभिर्मां प्रकीर्तयेत् ॥९६॥
जन्मान्तरसहस्रेषु तपोध्यानसमाधिभिः।
नराणां क्षीणपापानां कृष्णे भक्तिः प्रजायते ॥९७॥
नाम्नोऽस्ति यावती शक्तिः पापनिर्हरणे हरेः।
श्वपचोऽपि नरः कर्तुं क्षमस्तावन्न किल्बिषम् ॥९८॥
न तावत्पापमस्तीह यावन्नामाहृतं हरेः।
अतिरेकभयादाहुः प्रायश्चित्तान्तरं वृथा ॥९९॥
गत्वा गत्वा निवर्तन्ते चन्द्रसूर्यादयो ग्रहाः।
अद्यापि न निवर्तन्ते द्वादशाक्षरचिन्तकाः ॥१००॥
न वासुदेवात्परमस्ति मङ्गलं
न वासुदेवात्परमस्ति पावनम्।
न वासुदेवात्परमस्ति दैवतं
तं वासुदेवं प्रणमन्न सीदति ॥१०१॥
इमां रहस्यां परमामनुस्मृतिं
योऽधीत्य बुद्धिं लभते च नैष्ठिकीम्।
विहाय पापं विनिमुच्य सङ्कटात्
स वीतरागो विचरेन्महीमिमाम् ॥१०२॥
इति श्रीमहाभारते आनुशासनिके पर्वणि दानधर्मे
श्रीवैष्णोर्दिव्यमनुस्मृतिस्तोत्रं संपूर्णम् ॥

NARAYANA ATHARVASHIRSHA UPANISHAD

                                              नारायणाथर्वशीर्षोपनिषत्
                                                           
(ऊँ सहनाववतु……)
ऊँ अथ पुरुषो ह वै नारायणॊऽकामयत
प्रजाः सृजायेति। नारायणात् प्राणो जायते। मनः सर्वेन्द्रियाणि च। खं ज्योतिरापः पृथिवी
विश्वस्य धारिणी ।नारायणाद् ब्रह्मा जायते। नारायणाद् रुद्रो जायते। नारायणादिन्द्रो
जायते। नारायणाद् प्रजापतयः प्रजायन्ते । नारायणाद्  द्वादशादित्या रुद्रा वसवः सर्वाणि च छन्दांसि। नारायणादेव
समुत्पद्यन्ते। नारायणे प्रवर्तन्ते । नारायणे प्रलीयन्ते ॥१॥
ऊँ। अथ नित्यो नारायणः । ब्रह्मा
नारायणः । शिवश्च नारायणः। शक्रश्च नारायणः।द्यावापृथिव्यौ च नारायणः। कालश्च नारायणः।
दिशश्च नारायणः।
ऊर्ध्वश्च नारायणः। अधश्च नारायणः। अन्तर्बहिश्च नारायणः।
नारायण एवेदं सर्वम्। यद्भूतं यच्च भव्यम् । निष्कलो निरञ्जनो निर्विकल्पो निराख्यातः
शुद्धो देव एको नारायणः। न द्वितीयोऽस्ति कश्चित्। य एवं वेद। स विष्णुरेव भवति  
स विष्णुरेव भवति॥२॥
ओमित्यग्रे व्याहरेत्। नम इति पश्चात्। नारायणायेत्युपरिष्टात्।
ओमित्येकाक्षरम्।
नम इति द्वे अक्षरे। नारायणायेति पञ्चाक्षराणि। एतद्वै नारायणस्याष्टाक्षरं
पदम्।
यो ह वै नारायणस्याष्टाक्षरं पदमध्येति। अनपब्रुवः सर्वमायुरेति।
विन्दते प्राजापत्यं रायस्पोषं गौपत्यम् । ततोऽमृतत्वमश्नुते ततोऽमृतत्वमश्नुत इति
। य एवं वेद ॥३॥
प्रत्यगानन्दं ब्रह्म पुरुषं प्रणवस्वरूपम्। अकार उकार मकार
इति। तानेकधा समभवत्तदेतदोमिति। यमुक्त्वा मुच्यते योगी जन्मसंसार-बन्धनात् । ऊँ नमो नारायणायेति मन्त्रोपासकः। वैकुण्ठभुवनलोकं
गमिष्यति । तदिदं परं पुण्डरीकं विज्ञानघनम्। तस्मात् तडिदाभमात्रम्। ब्रह्मण्यो देवकीपुत्रो
ब्रह्मण्यो मधुसूदनोम्।
सर्वभूतस्थमेकं नारायणम्। कारणरूपमकार परब्रह्मोम्। एतदथर्वशिरो
योऽधीते प्रातरधीयानो रात्रिकृतं पापं नाशयति। सायमधीयानो दिवसकृतं पापं नाशयति।
माध्यन्दिनमादित्याभिमुखोऽधीयानः पञ्चपातकोपपातकात् प्रमुच्यते।
सर्ववेदपारायणपुण्यं लभते। नारायणसायुज्यमवाप्नोति नारायणसायुज्यमवाप्नोति । य एवं
वेद । इत्युपनिषत् ॥४॥
           
                                                            
(ऊँ सहनाववतु……)

VISHNU PADADI KESHANTA STOTRAM

विष्णुपादादिकेशान्तस्तोत्रम्
लक्ष्मीभर्तुर्भुजाग्रे कृतवसति सितं यस्य रूपं विशालं
नीलाग्रेस्तुङ्गशृंगस्थितमिव रजनीनाथबिम्बं विभाति ।
पायान्नः पाञ्चजन्यः स दितिजकुलत्रासनैः पूरयन् स्वैः
निर्ध्वानैर्नीरदौघध्वनिपरिभवदैरम्बरं कम्बुराजः ॥ १॥
May the king of conches panjajanya protect us; panjajanya  which nestles in the hand of Vishnu, which is very large in size and shines like the moon atop the tall peak of the blue mountain,  which fills the skies with its sound surpassing the thunder of dark clouds and which strikes terror in the hearts of asuras
आहुर्यस्य स्वरूपं क्षणमुखमखिलं सूरयः कालमेतं
ध्वान्तस्यैकान्तमन्तं यदपि च परमं सर्वधाम्नां च धाम।
चक्रं तच्चक्रपाणेर्दितिजतनुगलद्रक्तधाराक्तधारं
शश्वन्नो विश्ववन्द्यं वितरतु विपुलं शर्म घर्मांशु शोभम् ॥२॥
May the chakra (Disc) of Vishnu always give us peace and happiness; chakra which the wise say symbolizes Time from seconds to eternity, which puts an end to darkness, which is brighter than all bright objects, which shines bright as the Sun and the blades of which are stained by the blood from the bodies of asuras.  
अव्यान्निर्घातघोरो हरिभुजपवनामर्शनाध्मातमूर्तेः
अस्मान्विस्मेरनेत्रत्रिदशनुतिवचःसाधुकारैः सुतारः।
सर्वं संहर्तुमिच्छोररिकुलभुवनं स्फारविस्फार नादः
संयत्कल्पान्तसिन्धौ शरसलिलघटावार्मुचः कार्मुकस्य ॥३॥
May the terrible sound emanating from the bow of  Vishnu who wishes to kill the entire horde of enemies protect us; which bow grows in size from the air from Hari’s arms, which is hailed by the celestials wide-eyed with wonder, the sound of which like thunder spreads far and wide and which rains arrows in the battle like the rain of the clouds over the sea of pralaya (deluge) at the end of a kalpa
   
जीमूतश्यामभासा मुहुरपि भगवद्बाहुना मोहयन्ती
युद्धेषूद्धूयमाना झटिति तटिदिवालक्ष्यते यस्य मूर्तिः।
सोऽसिस्त्रासाकुलाक्षत्रिदशरिपुवपुश्शोणितास्वाददृप्तो
नित्यानन्दाय भूयान्मधुमथनमनोनन्दको नन्दको नः ॥४॥
May the sword of Vishnu, Nandaka,  give us eternal bliss; Nandaka which gladdens the heart of the slayer of Madhu (Vishnu) whose hand is dark blue as the cloud,  which when brandished often during wars is seen as the sudden flash of lightning and confuses the asuras and which prides itself of tasting the blood of asuras whose eyes are wobbly because of fright. 
 
कम्राकारा मुरारेः करकमलतलेनानुरागाद्गृहीता
सम्यग्वृत्ता स्थिताग्रे सपदि न सहते दर्शनं या परेषां ।
राजन्ती दैत्यजीवासवमदमुदिता लोहितालेपनार्द्रा
कामं दीप्तांशुकान्ता प्रदिशतु दयितेवाऽस्य कौमोदकी नः ॥५॥
May Kaumodaki, the mace dear to Vishnu, which is beautiful with its bright rays, grant us our wishes; the mace which is lovingly held in the lotus-hand of Vishnu, which is of the shape of a perfect sphere, which stays in the front of Vishnu and does not tolerate others, which is intoxicated by drinking the asava (intoxicating drink) of the life of asuras and  which is wet with the smear of red (from the blood of asuras).  
यो विश्वप्राणभूतस्तनुरपि च हरेर्यानकेतुस्वरूपो
यं सञ्चिन्त्यैव सद्यः स्वयमुरगवधूवर्गगर्भाः पतन्ति।
चञ्चच्चण्डोरुतुण्डत्रुटितफणिवसारक्तपङ्कांकितास्यं
वन्दे छन्दोमयं तं खगपतिममलस्वर्णवर्णं सुपर्णम् ॥६॥
I bow to Garuda, the King of birds who is of the colour of pure gold and who is the embodiment of the Vedas, who is the very life breath of the world, who is , as it were, (another) body of Hari, his vehicle and its flag, the very thought of whom causes the pregnancy of female-serpents to abort and  whose mouth is smeared with the blood of serpents cut to pieces by his strong and active beak. 
विष्णोर्विश्वेश्वरस्य प्रवरशयनकृत् सर्वलोकैकधर्ता
सोऽनन्तः सर्वभूतः पृथुविमलयशाः सर्ववेदैश्च वेद्यः।
पाता विश्वस्य शश्वत् सकलसुररिपुध्वंसनः पापहन्ता
सर्वज्ञः सर्वसाक्षी सकलविषभयात् पातु भोगीश्वरो नः॥७॥
May  Ananta (Adishesha),  all-knowing and witness to everything,  protect us from the fear of snake-poisoning; Ananta who serves as the excellent bed of Vishnu the Lord of the worlds, who supports all these worlds alone, who is the cause of all beings, who is of great and spotless fame and knowable by all the Vedas, who is the protector of all the worlds and the slayer of enemies of celestials and who wipes out sins.    
वाग्भूगौर्यादि भेदैर्विदुरिह मुनयो यां यदीयैश्च पुंसां  
कारुण्यार्द्रैः कटाक्षैः स्वयमपि पतितैः संपदः स्युः समग्राः।
कुन्देन्दुस्वच्छमन्दस्मितमधुरमुखांभोरुहां सुंदराङ्गीं
वन्दे वन्द्यामशेषैरपि मुरभिदुरोमंदिरामिन्दिरां ताम् ॥८॥
I bow to Goddess Lakshmi who deserves to be worshipped by all and who has her abode on the chest of Vishnu the slayer of Mura,  whom the rishis know in different forms as Saraswati, Mother Earth and Parvati, whose glances steeped in compassion, falling on anyone confers on the person riches of all kinds, whose beautiful face is lit with an impeccable smile as  white as the jasmine flower  and the moon and who has a lovely body.
या सूते सत्त्वजालं सकलमपि सदा सन्निधानेन पुंसो
धत्ते या सत्त्वयोगाच्चरमचरमिदं भूतये भूतजालम् ।
धात्रीं  स्थात्रीं जनित्रीं प्रकृतिमविकृतिं विश्वशक्तिं विधात्रीं
विष्णोर्विश्वात्मनस्तां विपुलगुणमयीं प्राणनाथां प्रणौमि ॥९॥
I bow to Prakriti, consort of Vishnu,  with her attributes of sattwa, rajas and tamas¸ who brings forth all  beings simply by her perennial proximity to Purusha who is none other than Vishnu,  the soul of the whole world. Prakriti takes on her sattwa attribute and nourishes all moving and non-moving beings for their welfare and she is the creator, sustainer and stabiliser and the power behind the whole world.   
येभ्योऽसूयद्भिरुच्चैः सपदि पदमुरु त्यज्यते दैत्यवर्गैः
येभ्यो धर्तुं च मूर्ध्ना स्पृहयति सततं सर्वगीर्वाणवर्गः।
नित्यं निर्मूलयेयुर्निशिततरममी भक्तिनिघ्नात्मनां नः
पद्माक्षस्यांघ्रिपद्मद्वयतलनिलयाः पांसवः पापपङ्कम् ॥१०॥
May the dust of the feet of  the lotus-eyed Vishnu root out the dirt of sins committed by us whose heart is steeped in devotion to Him;   the dust which the clan of asuras discard because they see only badness even where there is goodness and which the celestials always want to place reverentially on their heads.
रेखाः लेखाभिवन्द्याश्चरणतलगताश्चक्रमत्स्यादिरूपाः
स्निग्धाः सूक्ष्माः सुजाता मृदुललिततरक्षौमसूत्रायमाणाः।
दद्युर्नो मंगलानि भ्रमरभरजुषा कोमलेनाब्धिजायाः
कम्रेणाम्रेड्यमाना किसलयमृदुना पाणिना चक्रपाणेः ॥११॥
May the lines on the soles of the feet of Vishnu bestow auspicious things on us; the lines which are soft, fine, well-formed, like the soft and fine threads of silk and which are caressed by the hands of Lakshmi soft as leaf buds, delicate  and beautiful,  accompanied by the tinkling sound of bangles.   
यस्मादाक्रामतो द्यां गरुडमणिशिलाकेतुदण्डायमाना-
दाश्च्योतंती बभासे सुरसरिदमला वैजयन्तीव कान्ता।
भूमिष्ठो यस्तथान्यो भुवन्गृहबृहत्स्तंभशोभां दधानः।
पातामेतौ पयोदोदर ललिततलौ पंकजाक्षस्य पादौ ॥१२॥
May the soles, soft and delicate as the heart of the lotus,  of the feet of lotus-eyed Vishnu protect us.  One foot of Vishnu (as trivikrama in the Varaha incarnation) which invaded the heavens shone, as it were, as a flag staff made of dark green gemstone and the heavenly Ganga,  with her sparkling waters, pouring down from it  was beautiful as the vaijayantee garland (worn by Vishnu) and the other foot which rested on the earth  shone as it were a huge pillar of the Earth-house.
आक्रामद्भ्यां त्रिलोकीमसुरसुरपती तत्क्षणादेव नीतौ
याभ्यां वैरोचनीन्द्रौ युगपदपि विपत्संपदोरेकधाम।
ताभ्यां ताम्रोदराभ्यां मुहुरहमजितस्याञ्चिताभ्यामुभाभ्यां
प्राज्यैश्वर्यप्रदाभ्यां प्रणतिमुपगतः पादपंकेरुहाभ्याम् ॥१३॥
I repeatedly prostrate, before the beautiful lotus-like feet of invincible Vishnu which feet bestow limitless riches (on devotees),  the soles of which are red in colour and which, in the process of invading (measuring) the three worlds, simultaneously sent Mahabali, the king of asuras to the abode of difficulties (nether world, patala ) and Indra, the Lord of the devas to the abode of riches (Heaven)   
यभ्यो वर्णश्चतुर्थश्चरमत उदभूदादिसर्गे प्रजानां
साहस्री चापि संख्या प्रकटमभिहिता सर्ववेदेषु येषाम्।
व्याप्ता विश्वंभरा यैरतिवितततनोः विश्वमूर्तेर्विराजो
विष्णोस्तेभ्यो महद्भ्यः सततमपि नमोस्त्वंघ्रिपंकेरुहेभ्यः ॥१४॥
Prostrations, always,  before the lotus-feet of Vishnu in his cosmic form as the embodiment of all the worlds including all created beings; the feet from which was born the last of the varnas, Sudra,  in respect of which the vedas  explicitly say ‘He is having thousands  of feet (sahasrapaad ) and which is spread over the whole of the Earth.
विष्णोः पादद्वयाग्रे विमलनखमणिभ्राजिता राजते या
राजीवस्येव रम्या हिमजलकणिकालंकृताग्रा दलाली।
अस्माकं विस्मयार्हाण्यखिलमुनिमनःप्रार्थनीयानि सेऽयं
दद्यादाद्यानवद्या ततिरतिरुचिरा मंगलान्यंगुलीनाम् ॥१५॥
May the beautiful and unblemished toes at the end of the feet of Vishnu bestow on us all auspicious things which are wonderful and prayed for even by rishis;  toes the nails of which shine like spotless sparkling gems and are beautiful like the petals of the lotus adorned with due drops  
यस्यां दृष्ट्वामलायां प्रतिकृतिममराः स्वां भवन्त्यानमन्तः
सेन्द्राः सान्द्रीकृतेर्ष्यास्त्वपरसुरकुलाशंकयाऽऽतंकवन्तः।
सा सद्यः सातिरेकां सकलसुखकरीं संपदं साधयेन्नः
चञ्चच्चार्वंशुचक्रा चरणनलिनयोश्चक्रपाणेर्नखाली ॥१६॥
May the nails of the lotus-feet of chakrapani (Vishnu) radiating beautiful rays bestow on us soon,  abundant riches yielding all comforts; the unblemished nails seeing in which their own reflections while prostrating, the celestials including Indra are overcome by  jealousy and fear, deluded into thinking that the reflections are really another clan of devas.
पादांभोजन्मसेवासमवनतसुरव्रातभास्वत्किरीट- 
प्रत्युप्तोच्चावचाश्मप्रवरकरगणैश्चित्रितं यद्विभाति।
नम्रांगानां हरेर्नो हरिदुपलमहाकूर्मसौन्दर्यहारि-
च्छायं श्रेयःप्रदायि प्रपदयुगमिदं प्रापयेत्पापमन्तम्॥१७॥
May the upper part of the feet of Vishnu bestow on us all good things and wipe out our sins; those parts which are more beautiful than the back of a big tortoise with its shell, as it were, of dark green gemstone, which is lighted up in multi-colours radiating from the different types of gemstones set in the shining crowns of the celestials who have come to bow and worship at the lotus-feet of Vishnu.    
शीमत्यौ चारुवृत्ते करपरिमलनानन्दहृष्टे रमायाः
सौन्दर्याढ्येन्द्रनीलोपलरचितमहादण्डयोः कान्तिचोरे।
सूरीन्द्रैः स्तूयमाने सुरकुलसुखदे सूदितारातिसंघे
जंघे नारायणीये मुहुरपि जयतामस्मदंहो हरन्त्यौ।१८॥
May the shanks (lower legs) of Vishnu snatch away our sins; shanks the hairs of which stand on end overjoyed by the caresses from Lakshmi’s hands, which are beautiful and excel in brightness rods  of blue gemstones, which are praised by the wise, which give joy and comfort to the celestials and which kills the horde of enemies. Victory again and again to those beautiful and well-rounded shanks of Narayana (vishnu).         
सम्यक् साह्यं विधातुं सममपि सततं जंघयोः खिन्नयोर्ये
भारीभूतोरुदण्डद्वयभरणकृतोत्तंभभावं भजेते ।
चित्तादर्शं निधातुं महितमिव सतां ते समुद्गायमाने
वृत्ताकारे विधत्तां हृदि मुदमजितस्यानिशं जानुनी नः ॥१९॥
May the well-rounded knees of  ajita (the invincible, Vishnu) always bestow on us joy and happiness; the knees which function as supports to the heavy thighs in order to be of help to the shanks always tired of carrying the weight of those thighs and which resemble receptacles to place the mind-mirror of good people (which is the object of meditation for the pure minds of good  and noble souls).       
देवो भीतिं विधातुः सपदि विदधतौ कैटभाख्यं मधुं चा-
प्यारोप्यारूढगर्वावधिजलधि ययोरादिदैत्यौ जघान।
वृत्तावन्योन्यतुल्यौ चतुरमुपचयं बिभ्रतावभ्रनीला-
वूरू चारू हरेस्तौ मुदमतिशयिनीं मानसे नो विधत्ताम् ॥२०॥
May the thighs of Vishnu fill our minds with wonderful joy and happiness; thighs which are beautiful, well-rounded, equal in shape and size, well-developed and dark blue as the cloud,  on which were placed and killed by Vishnu the first asuras Madhu and Kaitabha who had created fear in the mind of Brahma soon (after their birth from the ear-wax of Vishnu)
पीतेन द्योतते यच्चतुरपरिहितेनांबरेणात्युदारं
जातालंकारयोगं जलमिव जलधेः बाडवाग्निप्रभाभिः।
एतत्पातित्यदान्नो जघनमतिघनादेनसो माननीयं
सातत्येनेव चेतोविषयमवतरत्पातु पीतांबरस्य ॥२१॥
May the hip of Pitambara (Vishnu) ever remain an object of contemplation and meditation for us and protect us from our grave sins which hurl us into an abyss;  hip which is adorned and shines by the bright yellow of the elegantly worn silken clothes which resemble, as it were,  the bright fire (badavagni) during dissolution (pralaya) in the dark blue ocean.
यस्या दाम्ना त्रिधाम्नो जघनकलितया भ्रजतेऽङ्गं यथाब्धेः
मध्यस्थो मन्दराद्रिर्भुजगपतिमहाभोगसंनद्धमध्यः
काञ्ची सा काञ्चनाभा मणिवरकिरणैरुल्लसद्भिः प्रदीप्ता
कल्यां कल्याणदात्री मम मतिमनिशं कम्ररूपा करोतु ॥२२॥
May the beautiful and giver-of-good-things waist-belt of gold studded with gems and emitting rays of multiple colors worn at the hip by Vishnu ever purify my mind; the waist-belt with the strings of which the hip of Vishnu resembles the Mandara mountain in the midst of the deep blue ocean,  tied around by the stout body of the king of serpents (Vasuki)  
उन्नम्रं कम्रमुच्चैरुपचितमुदभूद्यत्रपत्रैर्विचित्रैः
पूर्वं गीर्वाणपूज्यं कमलजमधुपस्यास्पदं तत्पयोजम्।
तस्मिन्नीलाश्मनीलैस्तरलरुचिजलैः पूरिते केलिबुद्ध्या
नालीकाक्षस्य नाभीसरसि वसतु नश्चित्तहंसश्चिराय ॥२३॥
May our minds like swans playfully dwell for long on the lotus-eyed Vishnu’s well-formed and beautiful navel-lake which appears as if filled with dark blue waters on account of the dark blue wavy rays from the body of Vishnu;  the navel from which emerged the lotus with multi-colored petals, worshipped by the celestials and which became the abode of the Brahma-honeybee 
पातालं यस्य नालं वलयमपि दिशां पत्रपंक्तीं नगेन्द्रान्
विद्वांसः केसरालीर्विदुरिह विपुलां कर्णिकां स्वर्णशैलम् ।
भूयाद्गायत्स्वयंभूमधुकरभवनं भूमयं कामदं नो
नालीकं नाभिपद्माकरभवमुरुतन्नागशय्यस्य शौरेः ॥२४॥
May the lotus which was born from the navel-lake of Vishnu who has the serpent adishesha as his bed grant us our wishes; the lotus whose stem has its root in patala (nether world),whose petals are the quarters, whose leaves are mountains, whose central portion with its filaments is the golden mountain of Meru, which is the abode of the honey-bee Brahma and which takes the form of the Earth. 
कान्त्यंभ:पूरपूर्णे लसदसितवली भंगभास्वतरङ्गे
गम्भीरावर्तनाभीचतुरतरमहावर्तशोभिन्युदारे।
क्रीडत्वानद्धहेमोदरनहनमहाबाडवाग्निप्रभाढ्ये
कामं दामोदरीयोदरसलिलनिधौ चित्तहंसश्चिरं नः ॥२५॥
May the heart-swan of mine play for long in the stomach-ocean of Damodara (Vishnu) which is adorned by a golden belt-like ornament bright as the fire during dissolution, which appears full of water because of the dark blue brightness of the body, which shines with wave-like folds and which is pretty with the deep navel resembling a whirlpool.  
नाभीनालीकमूलादधिकपरिमलोन्मोहितानामलीनां
माला नीलेव यान्ती स्फुरति रुचिमती वक्त्रपद्मोन्मुखी या।
रम्या सा रोमराजिर्महितरुचिकरी मध्यभागस्य विष्णो:
चित्तस्था मा विरंसीच्चिरतरमुचितां साधयन्ती श्रियं नः ॥२६॥
The pretty cluster of hair forming a line in the middle part of Vishnu (from the navel to the chest)  gives one the impression that it is a garland made of the honey-bees which are attracted by the fragrance of the lotus in the navel and moving towards the lotus-face of Vishnu. May this cluster of hair ever stay in our mind conferring on us appropriate riches.
आदौ कल्पस्य यस्मात् प्रभवति सततं विश्वमेतद्विकल्पैः
कल्पान्ते यस्य चान्तः प्रविशति सकलं स्थावरं जंगमं च ।
अत्यन्ताचिन्त्यमूर्तेश्चिरतरमजितस्यान्तरिक्षस्वरूपे
तस्मिन्नस्माकमन्तःकरणमतिमुदा क्रीडतात् क्रोडभागे ॥२७॥
May our hearts joyously sport on the lower part of the chest of Ajita, the invincible Vishnu, whose form is beyond the comprehension of the mind and is  like the space, from which emerges at the beginning of a kalpa all these worlds with its plurality and into which merges all these moving and non-moving things at the end of a kalpa.  
संस्तीर्णं कौस्तुभांशुप्रसरकिसलयैर्मुग्धमुक्ताफलाढ्यं
श्रीवत्सोल्लासिफुल्लप्रतिवनवनमालांशुराजत्भुजान्तम्।
वक्षः श्रीवृक्षकान्तं मधुकरनिकरश्यामलं शार्ङ्गपाणॆ:
संसाराध्वश्रमार्तैरुपवनमिव यत्सेवितं तत्प्रपद्ये॥२८॥
I take refuge in the chest of Vishnu which is like a garden for taking rest by those who are tired of treading the path of this samsara.  In this garden the red rays emanating from the kaustubha  gem  are tender leaves. The necklace of pretty pearls resemble fruits. The vanamala of flowers picked from every forest resembles flowers in full bloom in the garden. The garden is beautiful with the tree of Lakshmi and it is dark with the swarm of honey bees.   
कान्तं वक्षो नितान्तं विदधदिव गलं कालिमा कालशत्रो:
इन्दोर्बिंम्बं यथाङ्को मधुप इव तरोर्मंजरीं राजते यः।
श्रीमान्नित्यं  विधेयादविरलमिलितः कौस्तुभश्रीप्रतानैः
श्रीवत्सः श्रीपतेः स श्रिय इव दयितो वत्स उच्चैः श्रियं नः ॥२९॥
May the srivatsa mark of Vishnu, dear to Lakshmi like a calf to the cow, bestow on us abundance of wealth; which srivatsa makes the beautiful chest dark (where the mark is )  like the neck of Lord Shiva, the enemy of Kala, which is just like the mark on the moon and the honey-bee on a blossom and which is beautiful with the continuous mixing of the bright rays from the kaustubha gem 
 
संभूयांभोधिमध्यात्सपदि सहजया यः श्रिया संनिधत्ते
नीले नारायणोरस्थल गगनतले हारतारोपसेव्ये
आशाः सर्वाः प्रकाशा विदधदपिदधच्चात्मभासान्यतेजां-
स्याश्चर्यस्याकरो नो द्युमणिरिव मणिः कौस्तुभः सोऽस्तु भूत्यै॥३०॥
May the wonderful and  bright-as-the-Sun kaustubha  gem of Vishnu shower riches on us; kaustubha which emerged from the milky ocean along with Lakshmi and abides in the sky of  Vishnu’s  chest  adorned with necklaces the gems in which glitter like stars, which brightens all the quarters and which veils the brightness of other luminous objects by its effulgence.
या वायावानुकूल्यात्सरति मणिरुचा भासमानासमाना
साकं साकंपमंसे वसति विदधते वासुभद्रं सुभद्रं ।
सारं सारंगसंघैर्मुखरित कुसुमा मेचकांता च कांता
माला मालालितास्मान्न विरमतु सुखैः योजयन्ती जयन्ती ॥३१॥
May the Vaijayanati garland of Vishnu,  caressed by Lakshmi, never stop bestowing joy and comfort on us; Vaijayanti which moves with the blowing breeze, which is incomparably bright and beautiful, which,  sitting on the shoulders of Vishnu, adorns him,
the flowers in which are surrounded by the humming sound of swarms of honey bees and which is beautiful with black flowers.
हारस्योरुप्रभाभिः प्रतिवनवनमालांशुभिः प्रांशुभिर्यत्
श्रीभिश्चाप्यङ्गदानां शबलितरुचिभिः निष्कभाभिश्च भाति।
बाहुल्येनेव बद्धाञ्जलिपुटमजितस्याभियाचामहे तद्
बन्धार्तिं बाधतां नो बहु विहतिकरीं बन्धुरं बाहुमूलम् ॥३२॥
With folded hands (anjali) we beg that the beautiful shoulders of Ajita,  the invincible Vishnu, release us from bondage which creates countless difficulties for us; shoulders which shine with the brightness of necklaces and the colours from the vanamala made of flowers from different forests and the beauty and glitter of ornaments like angada  emitting rays of different colours.
विश्वत्राणैकदीक्षास्तदनुगुणगुणक्षत्रनिर्माणदक्षाः
कर्तारो दुर्निरूपाः स्फुटगुरुयशसां कर्मणामद्भुतानाम् ।
शार्ङ्गं बाणं कृपाणं फलकमरिगदे पद्मशंखौ सहस्रं
बिभ्राणः शस्त्रजालं मम ददतु हरे: बाहवो मोहहानिम् ॥३३॥
May the hands of Hari dispel my ignorance and delusion; hands the main vow of which is to protect the whole world and which has the capacity to create a warrior class (kshatriyas) with the required qualities of (valour, fight-to-finish courage etc), which are difficult to describe, which are doers of amazing actions bringing   fame and glory and which carry the bow, arrow, sword, phalaka, chakra, mace, conch, lotus and a thousand other weapons. 
कण्ठाकल्पोद्गतैर्यः कनकमयलसत् कुण्डलोस्रैरुदारै-
रुद्योतैः कौस्तुभस्याप्युरुभिरुपचितः चित्रवर्णो विभाति।
कण्ठाश्लेषे रमायाः करवलयपदैः मुद्रिते भद्ररूपे  
वैकुण्ठीयेऽत्र कण्ठे वसतु मम मतिः कुंण्ठभावं विहाय ॥३४॥
Let my mind, shaking off its lethargy, dwell on the neck of Mahavishnu;  the neck which glitters with many colours from the ornaments adorning it, from the rays emitted by the golden ear-globes and the luster of the Kaustubha and which is pretty with the marks left by the bangles of Lakshmi while embracing it.  
   
पद्मानन्दप्रदाता परिलसदरुणश्रीपरीताग्रभागः
काले काले च कम्बुप्रवर शशधरापूरणे यः प्रवीणः।
वक्त्राकाशान्तरस्थस्तिरयति नितरां दन्ततारौघशोभाम्
श्रीभर्तुर्दन्तवासोद्युमणिरघतमोनाशनायास्त्वसौ नः ॥३५॥
May the Sun of Vishnu’s lips wipe out the darkness of our sins; lips which give joy to Lakshmi, which shine with a beautiful red
colour at their edges, which are expert in blowing the moon-like king of conches Panchajanya off and on and which, staying in the sky of the mouth veils the twinkling of the teeth which are like stars
नित्यं स्नेहातिरेकान्निजकमितुरलं विप्रयोगाक्षमा या
वक्त्रेन्दोरन्दराले कृतवसतिरिवाभाति नक्षत्रराजिः।
लक्ष्मीकान्तस्य कान्ताकृतिरतिविलसन्मुग्धमुक्ताफलश्री:
दन्ताली संततं सा नतिनुतिनिरतान् रक्षतादक्षता नः ॥३६॥
May the beautiful rows of teeth of the consort of Lakshmi, beautiful and shining like pearls, always protect us who are ever engaged in bowing (at His feet) and singing (His) praises; teeth which appear to be stars which have taken their position within the face (mouth) of Vishnu because of their deep love for their lover the moon (the face of Vishnu).    
 
ब्रह्मन्ब्रह्मण्यजिह्मां मतिमपि कुरुषे देव संभावये त्वां
शंभो शक्र त्रिलोकीमवसि किममरैः नारदाद्याः सुखं वः।
इत्थं सेवावनम्रं सुरमुनिनिकरं वीक्ष्य विष्णोः प्रसन्न-
स्यास्येन्दोरास्रवन्ती वरवचनसुधा ह्लादयेन्मानसं नः ॥३७॥
“ O Brahma, Do you engage your mind in single-minded meditation of the Brahman, the Ultimate Reality?”.  “O Shambhu! I honour you and welcome you”. “ O Indra ! do you protect the three worlds along with the celestials?”.  “O Narada and others ! are you well and happy?” – May these words steeped in nectar addressed to the devas and rishis, emerging from the moon-like face(mouth) of Vishnu gladden our hearts. 
कर्णस्थस्वर्णकम्रोज्ज्वलमकरमहाकुण्डलप्रोतदीप्य-
न्माणिक्यश्रीप्रतानैः परिमिलितमलिश्यामलं कोमलं यत्।
प्रोद्यत्सूर्यांशुराजन्मरकतमुकुराकारचोरं मुरारेः
गाढामागामिनीं नो गमयतु विपदं गण्डयोर्मण्डलं तत् ॥३८॥
May the cheeks of Murari (Vishnu) prevent all our difficulties which may arise in the future; the cheeks which reflect the deep red of the manikya set in the golden fish-shaped Kundalas (ear-globes) worn in the ears, which is of beautiful dark blue colour and which shines  and surpasses the beauty of the mirror of green gemstone reflecting the rays of the rising sun.      
वक्त्रांभोजे लसन्तं मुहुरधरमणिं पक्वबिम्बाभिरामं
दृष्ट्वा दष्टुं शुकस्य स्फुटमवतरतः तुण्डदण्डायते यः।
घॊणः शॊणीकृतात्मा श्रवणयुगलसत्कुण्डलोस्रैर्मुरारेः
प्राणाख्यस्यानिलस्य प्रसरणसरणिः प्राणदानाय नः स्यात् ॥३९॥
May the nose of vishnu which is the pathway for inhaling and exhaling the air known as prana, give us the gift of life (prana); the nose which shines in the lotus of the face and which gives the impression of the beak of a parrot reaching out to the bright red lower lip to bite it since it looks like a ripe bimba fruit, which reflects the rays of red colour from the ear-globes adorning the ears of Vishnu.
   
दिक्कालौ वेदयन्तौ जगति मुहुरिमौ संचरन्तौ रवीन्दू
त्रैलोक्यालोकदीपावभिदधति ययोरेव रूपं मुनीन्द्राः।
अस्मानब्जप्रभे ते प्रचुरतरकृपानिर्भरं प्रेक्षमाणे
पातामाताम्रशुक्लासितरुचिरुचिरे पद्मनेत्रस्य नेत्रे ॥४०॥
May the eyes of the lotus-eyed (Vishnu) protect us; the eyes which the sages say are the Sun and the moon who circle this world day and night and give us the sense (knowledge) of space and time and provide the three worlds with light, which shine like the lotus, the glances from which are full of compassion and which are beautiful with light red, white and black colours
लक्ष्माकारालकालिस्फुरदलिकशशांकार्धसंदर्शमील-
न्नेत्रांभोजप्रबोधोत्सुकनिभृततरालीनभृंगच्छदाभे ।
लक्ष्मीकान्तस्य लक्ष्यीकृतविबुधजनापांगबाणासनार्ध-
च्छाये नो भूतिभूरिप्रसवकुशलते भ्रूलते पालयेताम् ॥४१॥
May the eye-brows of the consort of Lakshmi protect us; the eye-brows which look like the wings of a silent honey bee which is keen on making open the lotus-eyes closed on seeing the half –moon of the forehead with the curly hairs on the forehead looking like the mark on the moon, which resemble one half of the bow from which are shot the arrows of glances of  Vishnu aimed at the devas and which are capable of creating abundant wealth.   
पातात्पातालपातात्पतगपतिगतेर्भ्रूयुगं भुग्नमध्यं
येनेषच्चालितेन स्वपदनियमिताः सासुराः देवसंघाः।
नृत्यल्लालाटरंगे रजनिकरतनोरर्धखण्डावदाते
कालव्यालद्वयं वा विलसति समया बालिकामातरं नः ॥४२॥
May the eye-brows of Vishnu who rides the king of birds Garuda save us from falling into the nether worlds;  eye-brows which are arched at the centre,  by a slight movement of which both devas and asuras are appointed in their respective positions and which resemble two  black child snakes  dancing on the forehead of pure white half-moon with short curly hair playing on it looking like the mother snake.   
रूक्षस्फारेक्षुचापच्युतशरनिकरक्षीणलक्ष्ये कटाक्ष-
प्रोत्फुल्लत्पद्ममाला विलसित महित स्फाटिकैशान लिङ्गम्।
भूयाद्भूयो विभूत्यै मम भुवनपतेः भ्रूलताद्वन्द्वमध्या-
दुत्थं तत्पुण्ड्रमूर्ध्वं जनिमरणतमः खण्डनं मण्डनं च ॥४३॥
May the urdhwapundra  (the mark by gopichandan on the forehead of Vaishnavas) rising from the centre between the two eye-brows of Vishnu bestow on us riches again; the urdhwapundra  which adorns the forehead of Vishnu and breaks the cycle of births and deaths and  which resembles a holy Siva Linga of pure sphatika (crystal) which, after being hit by the arrows of Cupid flung from his sugarcane bow, was revived by a garland of lotus blossom like the glances of Lakshmi.   
पीठीभूतालकान्ते कृतमुकुटमहादेवलिङ्गप्रतिष्ठे
लालाटे नाट्यरंगे विकटतरतटॆ कैटभारेश्चिराय।
प्रोद्घाट्यैवात्मतन्द्रीप्रकटपटकुटीं प्रस्फुरन्तीं स्फुटांगम्
पट्वीयं भावनाख्यां चटुलमतिनटी नाटिकां नाटयेन्न: ॥४४॥
May the clever dancer of intellect,  drawing aside the curtain of its lethargy, make the imagination, shining with her well-formed limbs, dance on the dancing stage which is formed by the forehead and the low stool of curly hair falling on the forehead on which is kept the crown which resembles the installation of a Siva Linga.    
मालालीवालिधाम्नः कुवलयकलिता श्रीपतेः कुन्तलाली
कालिन्द्यारुह्य मूर्ध्नो गलति हरशिरः स्वर्धुनी स्पर्धया नु ।
राहुर्वा याति वक्त्रं सकलशशिकलाभ्रान्ति लोलान्तरात्मा
लोकैरालोच्यते या प्रदिशतु सकलैः साखिलं  मंगलं नः ॥४५॥
May the locks of Vishnu, dark as a swarm of honey bees,  bestow on us everything auspicious; the locks which give the impression of a bunch of garlands made of blue lilies, which make one doubt that the  dark river Yamuna has climbed up and is flowing down as locks to compete with the heavenly Ganga lodged in the matted locks of Siva and about which the people think that  Rahu (who is dark) is moving towards the face deluded into thinking that it is the full moon. 
सुप्ताकाराः सुषुप्ते भगवति विबुधैरप्यदृष्टस्वरूपा
व्याप्तव्योमान्तरालास्तरलरुचिजलारंजिताः स्पष्टभासः।
देहच्छायोद्गमाभा रिपुवपुरगुरुप्लोषरोषाग्निधूम्याः
केशाः केशिद्विषो नो विदधतु विपुलक्लेशपाशप्रणाशम् ॥४६॥
May the locks of the enemy of Keshi (Vishnu) destroy all the causes our sorrow ( पंच क्लेशाः – अविद्या (ignorance), अस्मिता ( ego, possessiveness), राग (attachment), द्वेष (aversion), अभिनिवेश (fear of old age and death); the locks which appear to vanish when the Lord is in deep sleep, the real nature of which is not seen even by devas, which occupies the whole of space, which are made bright by the waves of the milky ocean, which appear to be an emission from the (dark) body (of Vishnu)  and which give the impression that they are the dark and thick  smoke resulting from the burning of the bodies of enemies like incense  by the fire of vishnu’s anger.
यत्र प्रत्युप्तरत्नप्रवरपरिलसद्भूरिरोचिष्प्रतान-
स्फूर्त्या मूर्तिमुरारेर्द्युमणिशतचितव्योमवद्दुर्निरीक्ष्या।
कुर्वत्पारेपयोधि ज्वलदकृतमहाभास्वदौर्वाग्निशंकां
शश्वन्नः शर्म दिश्यात्कलिकलुषतमःपाटनं तत्किरीटम्॥४७॥
May the crown on the head of Vishnu,  capable of breaking the darkness of the evils of the Kaliyuga, bestow on us peace and happiness; the crown the brilliance of which,  arising from the spread of rays from the precious gems set in it, makes it very difficult to look at the form of Murari (Vishnu) just like the sky with a hundred Suns shining at a time and which makes one doubt that perhaps it is the great natural blaze of the fire of dissolution (badavagni) on the surface of the ocean ( as the body of Vishnu is dark blue like the ocean) .  
भ्रान्त्वा भ्रान्त्वा यदन्तस्त्रिभुवनगुरुरप्यब्दकोटीरनेका:
गन्तुं नान्तं समर्थो भ्रमर इव पुनर्नाभिनालीकनालात्।
उन्मज्जन्नूर्जितश्रीस्त्रिभुवनमपरं निर्ममे तत्सदृक्षं
देहांभोधिः स देयान्निरवधिरमृतं दैत्यविद्वेषि विष्णोः ॥४८॥
May the limitless body-ocean of Vishnu, enemy of asuras,  bestow on us the nectar of liberation from the cycle of births and deaths; the body-ocean in which the creator of the three worlds Brahma wandered for millions of years and, unable to find its limits, came out through the stem of the lotus emerging from the navel (of Vishnu) and,  with refreshed energy,  created a similar  world.  
मत्स्यः कूर्मो वराहो नरहरिणपतिः वामनो जामदग्न्यः
काकुत्स्थः कंसघाती मनसिजविजयी यश्च कल्की भविष्यन्।
विष्णोरंशावतारा भुवनहितकरा धर्मसंस्थापनार्थाः
पायासुर्मां त एते गुरुतरकरुणाभारखिन्नाशया ये ॥४९॥
May the incarnations of Vishnu by his partial potencies, prompted by a heart heavy with extreme compassion,  for the welfare of the worlds and for the establishment of dharma,  as the fish (matsya), the tortoise (kurma), the boar(varaha), the man-lion(narasimha) , the dwarf(vamana), the son of Jamadagni (parasurama), Kakutstha (Sri Rama), the slayer of Kamsa (Krishna), the conqueror of Cupid (buddha) and the future incarnation of Kalki protect me.
यस्माद्वाचो निवृत्ताः सममपि मनसा लक्षणामीक्षमाणाः
स्वर्थालाभात्परार्थ व्यपगमकथनश्लाघिनो वेदवादाः।
नित्यानन्दं स्वसंविन्निरवधिविमलस्वांतसंक्रान्तबिंब-
च्छायापत्यापि नित्यं सुखयति यमिनो यत्तदव्यान्महो नः ॥५०॥
May that effulgence protect us which the Vedas, unable to find suitable words,  describe in terms of negation ‘not this, not this’ and,  discarding the literal meaning of words,  adopt their inferred or indicative meaning but are still unable to grasp it. Like the words of the Vedas the mind also returns unable to comprehend it which is of the nature of Eternal Bliss, Self-Luminous, limitless and immortal and which makes those who see and meditate on the reflection of it in their pure hearts happy and blissful.       
आपादादा च शीर्षाद्वपुरिदमनघं वैष्णवं स्वचित्ते
धत्ते नित्यं निरस्ताखिलकलिकलुषे संततान्तः प्रमोदः ।
जुह्वज्जिह्वाकृशानौ हरिचरितहविः स्तोत्र मन्त्रानुपाठैः
तत्पादांभोरुहाभ्यां सततमपि नमस्कुर्महे निर्मलाभ्याम् ॥५१॥
We always bow at the lotus feet of those who, brimming with happiness in their pure hearts and freed of the ills of Kali by the repeated chanting of hymns and mantras and by oblation, into the fire of their tongues, of the divine leelas of Hari and  who always meditate on the pure and holy form  of Vishnu from head to foot.      
मोदात्पादादिकेशस्तुतिमितिरचितां कीर्तयित्वा त्रिधाम्नः
पादाब्जद्वंद्वसेवासमयनतमतिर्मस्तकेनानमेद्यः ।
उन्मुच्यैवात्मनैनोनिचयकवचकं पञ्चतामेत्य भानोर्
बिंबान्तर्गोचरं स प्रविशति परमानन्दमात्मस्वरूपम् ॥५२॥
He who happily recites this padadikesha hymn to vishnu during worship at the lotus feet of the Lord and bows down with his head will be freed from his sins and, after shedding his body, attain his own nature of Absolute Bliss manifest within the orb of the sun.  


   

MANGALYA STAVAH (VISHNUDHARMOTTARANTARGATAM)

                माङ्गल्यस्तवम्
      (विष्णुधर्मोत्तरान्तर्गतम्)
दाल्भ्य उवाच-
कार्यारंभेषु सर्वेषु  दुस्स्वप्नेषु च सत्तम ।
अमङ्गल्येषु दृष्टेषु यज्जप्तव्यं तदुच्यताम् ॥१॥
येनारंभाश्च सिद्ध्यन्ति दुस्स्वप्नश्चोपशान्तये।
अमङ्गलानां दृष्टानां परिहारश्च जायते ॥२॥
पुलस्त्य उवाच –
जनार्दनं भूतपतिं जगद्गुरुं
स्मरन् मनुष्यः सततं महामुने।
दुष्टान्यशेषान्यपहन्ति साधय-
त्यशेषकार्याणि च यान्यभीप्सति ॥३॥
शृणुष्व चान्यद्गदतो ममाखिलं
वदामि यत्ते द्विजवर्य मङ्गलम्।
सर्वार्थसिद्धिं प्रददाति यत्सदा
निहन्त्यशेषाणि च पातकानि ॥४॥
माङ्गल्यस्तवम्
प्रतिष्ठितं यत्र जगच्चराचरं
जगत्त्रये यो जगतश्च हेतुः।
जगच्च पात्यत्ति च यः स सर्वदा
ममास्तु माङ्गल्यवविवृद्धये हरिः  ॥५॥
व्योमाम्बुवाय्वग्निमहीस्वरूपैः
विस्तारवान् योऽणुतरोऽणुभावात्।
अस्थूलसूक्ष्मस्सततं परेश्वरो
ममास्तु माङ्गल्यवविवृद्धये हरिः  ॥६॥
यस्मात्परस्मात्पुरुषादनन्तात्
अनादिमध्यादधिकं न किञ्चित्।
स हेतुहेतुः परमेश्वरेश्वरो
ममास्तु माङ्गल्यवविवृद्धये हरिः  ॥७॥
हिरण्यगर्भाच्युतरुद्ररूपी
सृजत्यशेषं परिपाति हन्ति।
गुणाग्रणीर्यो भगवान् स सर्वदा
ममास्तु माङ्गल्यवविवृद्धये हरिः  ॥८॥
परस्सुराणां परमोऽसुराणां
परो यतीनां परमो मुनीनाम् ।
परस्समस्तस्य च यः
स सर्वदा
ममास्तु माङ्गल्यवविवृद्धये हरिः  ॥९॥
ध्यातो मुनीनामपकल्मषैर्यो
ददाति मुक्तिं परमेश्वरेश्वरः।
मनोऽभिरामः पुरुषस्य सर्वदा
ममास्तु माङ्गल्यवविवृद्धये हरिः  ॥१०॥
सुरेन्द्रवैवस्वतवित्तपांबुप-
स्वरूपरूपी परिपाति यो जगत्।
स शुद्धशुद्धः परमेश्वरेश्वरो
ममास्तु माङ्गल्यवविवृद्धये हरिः  ॥११॥
यन्नामसङ्कीर्तनतो विमुच्यते हि
अनेकजन्मार्जितपापसञ्चयात् ।
पापेन्धनाग्निस्स सदैव निर्मलो
ममास्तु माङ्गल्यवविवृद्धये हरिः  ॥१२॥
येनोद्धृतोऽयं धरणी रसातलात्
अशेषसृष्टिस्थितिकारणादिकम् ।
बिभर्ति विश्वं जगतस्समूलं
ममास्तु माङ्गल्यवविवृद्धये हरिः  ॥१३॥
पादेषु वेदा जठरे चराचरं
रोमस्वशेषा मुनयो मुखे मखाः।
यस्येश्वरेशस्य स सर्वदा प्रभुः
ममास्तु माङ्गल्यवविवृद्धये हरिः  ॥१४॥
समस्तयज्ञाङ्गमयं वपुः प्रभो-
र्यस्याङ्गमीशेश्वरसंस्तुतस्य।
वराहरूपी भगवान् स सर्वदा
ममास्तु माङ्गल्यवविवृद्धये हरिः  ॥१५॥
विक्षोभ्य सर्वोदधि तोयसंभवं
दधार धात्रीं जगतश्च यो भुवम्।
यज्ञेश्वरो यज्ञपुमान् स सर्वदा
ममास्तु माङ्गल्यवविवृद्धये हरिः  ॥१६॥
पातालमूलेश्वरभोगिसंहतौ
विन्यस्य पादौ पृथिवीं च बिभ्रतः।
यस्योपमानं न बभूव सोऽच्युतो
ममास्तु माङ्गल्यवविवृद्धये हरिः  ॥१७॥
स घर्घरं यस्य च बृंहितं मुहुः
सनन्दनाद्यैर्जनलोकसंश्रितैः।
श्रुतं जयेत्युक्तिपरैस्स सर्वदा
ममास्तु माङ्गल्यवविवृद्धये हरिः  ॥१८॥
एकार्णवाद्यस्य महीयसो महीं
आदाय वेगेन खमुत्पतिष्यतः।
नतं वपुर्योगिवरैस्स सर्वदा
ममास्तु माङ्गल्यवविवृद्धये हरिः  ॥१९॥
हतो हिरण्याक्ष महासुरः
पुराणपुंसा परमॆण येन।
वराहरूपस्स पतिः प्रजापतिः
ममास्तु माङ्गल्यवविवृद्धये हरिः  ॥२०॥
दंष्ट्राकरालं सुरभीतिनाशकं
कृतं वपुर्दिव्यनृसिंहरूपिणा।
त्रातुं जगद्येन स सर्वदा प्रभुः
ममास्तु माङ्गल्यवविवृद्धये हरिः  ॥२१॥
दैत्येन्द्रवक्षःस्थलदारदारुणैः
करोरुहैर्यः क्रकचानुकारिभिः।
चिच्छेद लोकस्य भयानि सोऽच्युतो
ममास्तु माङ्गल्यवविवृद्धये हरिः  ॥२२॥
दन्तान्तदीप्तद्युतिनिर्मलानि यः
चकार सर्वाणि दिशां मुखानि।
निनादवित्रासित दानवोह्यसौ
ममास्तु माङ्गल्यवविवृद्धये हरिः  ॥२३॥
यन्नामसङ्कीर्तनतो महाभयात्
विमोक्षमाप्नोति न संशयं नरः।
स सर्वलोकार्तिहरो नृकेसरी
ममास्तु माङ्गल्यवविवृद्धये हरिः  ॥२४॥
सटाकरालभ्रमणानिलाहताः
स्फुटन्ति यस्यांबुधराः समन्ततः।
स दिव्यसिंहो स्फुरितानलेक्षणो
ममास्तु माङ्गल्यवविवृद्धये हरिः  ॥२५॥
यदीक्षणज्योतिषि रश्मिमण्डलं
प्रलीनमीषन्न रराज भास्वतः ।
कुतः शशाङ्कस्य स दिव्यरूपधृक्
ममास्तु माङ्गल्यवविवृद्धये हरिः  ॥२६॥
अशेषदेवेशनरेश्वरेश्वरैः
सदा स्तुतं यच्चरितं महाद्भुतम्।
स सर्वलोकार्तिहरो महाहरिः
ममास्तु माङ्गल्यवविवृद्धये हरिः  ॥२७॥
द्रवन्ति दैत्याः प्रणमन्ति देवताः
नश्यन्ति रक्षांस्यपयान्ति चारयः।
यत्कीर्तनात् सोऽद्भुतरूपकेसरी
ममास्तु माङ्गल्यवविवृद्धये हरिः  ॥२८॥
ऋक्पावितं यो यजुषा हि श्रीमत्
सामध्वनिध्वस्तसमस्तपातकम्।
चक्रे जगद्वामनकस्स सर्वदा
ममास्तु माङ्गल्यवविवृद्धये हरिः  ॥२९॥
यत्पादविन्यासपवित्रतां मही
ययौ वियच्चर्ग्यजुषामुदीरणात्।
स वामनो दिव्यशरीररूपधृक्
ममास्तु माङ्गल्यवविवृद्धये हरिः  ॥३०॥
यस्मिन् प्रयातेऽसुरभूभृतोऽध्वरात्
ननाम खेदादवनिस्ससागरा ।
स वामनस्सर्वजगन्मयस्सदा
ममास्तु माङ्गल्यवविवृद्धये हरिः  ॥३१॥
महाद्भुते दैत्यपतेर्महाध्वरे
यस्मिन् प्रविष्टे क्षुभितं महासुरैः।
स  वामनोऽन्तःस्थितसप्तलोकधृक्
ममास्तु माङ्गल्यवविवृद्धये हरिः  ॥३२॥
सङ्खैस्सुराणां दिवि भूतलस्थितैः
तथा मनुष्यैर्गगने च खेचरैः।
स्तुतः क्रमाद्यः प्रचचार सर्वदा
ममास्तु माङ्गल्यवविवृद्धये हरिः  ॥३३॥
क्रान्त्वा धरैत्रीं गगनं तथा दिवं
मरुत्पतेर्यः प्रददौ त्रिविष्टपम्।
स देवदेवो भुवनेश्वरेश्वरो
ममास्तु माङ्गल्यवविवृद्धये हरिः  ॥३४॥
अनुग्रहं चापि बलेरनुत्तमं
चकार यश्चेन्द्रपदोपमं क्षणात्।
सुरांश्च यज्ञांशभुजस्स सर्वदा 
ममास्तु माङ्गल्यवविवृद्धये हरिः  ॥३५॥
रसातलाद्येन पुरा  समाहृताः
समस्तवेदाः जलचाररूपिणा।
स कैटभारिर्मधुहांबुशायी
ममास्तु माङ्गल्यवविवृद्धये हरिः  ॥३६॥
निःक्षत्रियां यश्च चकार मेदिनीं
अनेकशो बाहुवनं तथाऽच्छिनत्
यः कार्तवीर्यस्य स भार्गवोत्तमो
ममास्तु माङ्गल्यवविवृद्धये हरिः  ॥३७॥
निहत्य यो वालिनमुग्रविक्रमं
निबद्ध्य सेतुं जलधौ दशाननम्।
जघान चान्यान् रजनीचरानसौ
ममास्तु माङ्गल्यवविवृद्धये हरिः  ॥३८॥
चिक्षेप बालश्शकटं बभञ्ज यो
यमार्जुनं कंसमरिं जघान च ।
ममर्द चाणूरमुखान् स सर्वदा
ममास्तु माङ्गल्यवविवृद्धये हरिः  ॥३९॥
प्रातस्सहस्रांशुमरीचिमण्डलं
करेण बिभ्रद्भगवान् सुदर्शनम्।
कौमोदकीं चापि गदामनन्तो
ममास्तु माङ्गल्यवविवृद्धये हरिः  ॥४०॥
हिमेन्दुकुन्दस्फटिकाभनिर्मलं
मुखानिलापूरितमीश्वरेश्वरः ।
मध्याह्नकालेऽपि स शङ्खमुद्वहन्
ममास्तु माङ्गल्यवविवृद्धये हरिः  ॥४१॥
तथाऽपराह्ने प्रविकासि पङ्कजं
वक्षःस्थलेन श्रियमुद्वहन् हरिः।
विस्तारिपद्मायतपत्रलोचनो
ममास्तु माङ्गल्यवविवृद्धये हरिः  ॥४२॥
सर्वेषु कालेषु समस्तदेशे-
ष्वशेषकार्येषु तथेश्वरेश्वरः ।
सर्वैस्स्वरूपैर्भगवाननादिमान्
ममास्तु माङ्गल्यवविवृद्धये हरिः  ॥४३॥
एतत्पठन् दाल्भ्य समस्तपापैः
विमुच्यते विष्णुपरो मनुष्यः ।
सिध्यन्ति कार्याणि तथास्य सर्वा-
नर्थानवाप्नोति यथेच्छते तान्  ॥४४॥
दुःस्वप्नः प्रशममुपैति पठ्यमाने
स्तोत्रेऽस्मिन् श्रवणविधौ सदोद्यतस्य।
प्रारम्भो द्रुतमुपयाति सिद्धिमीशः
पापानि क्षपयति चास्य देवदेव:॥४५॥
माङ्गल्यं परमपदं सदार्थसिद्धिं
निर्विघ्नामधिकफलां श्रियं ददाति।
किं लोके तदिह परत्र चापि पुंसां
यद्विष्णुप्रवणधियां न दाल्भ्य साध्यम् ॥४६॥
देवेन्द्रस्त्रिभुवनमर्थमेकपिङ्गः
संसिद्धिं त्रिभुवनगां च कार्तवीर्यः।
वैदेहः परमपदं प्रसाद्य विष्णुं
संप्राप्तस्सकलफलप्रदो हि विष्णुः ॥४७॥
सर्वारम्भेषु दाल्भ्यैतद्
दुस्स्वप्नेषु च पण्डितः।
जपेदेकमना विष्णौ
तथाऽमाङ्गल्यदर्शने ॥४८॥
शमं प्रयान्ति दुष्टानि
ग्रहपीडाश्च दारुणाः ।
कर्मारम्भाश्च सिध्यन्ति
पुण्यमाप्नोति चोत्तमम्॥४९॥
हरिर्ददाति भद्राणि
माङ्गल्यस्तुति संस्तुतः।
करोत्यखिलरूपैस्तु
रक्षामक्षतशक्तिभृत् ॥५०॥

NARAYANA KAVACHAM

                                 नारायणकवचम्
राजोवाच-
येन गुप्तः सहस्राक्षः सवाहान् रिपुसैनिकान्।
क्रीडन्निव विनिर्जित्य त्रैलोक्याः बुभुजे श्रियम्॥१॥
भगवंस्तन्ममाख्याहि वर्म नारायणात्मकं।
यथाऽऽततायिनः शत्रून् येन गुप्तोऽजयन् मृधे ॥२॥
श्रीशुक उवाच-
वृतः पुरोहितः त्वाष्ट्रो महेन्द्रायानुपृच्छते।
नारायणाख्यं वर्माह तदिहैकमनाः शृणु ॥३॥
धौताङ्घ्रिपाणिराचम्य सपवित्रः उदङ्मुखः।
कृतस्वाङ्गकरन्यासो मन्त्राभ्यां वाग्यतः शुचिः॥४॥
नारायणमयं वर्म सन्नह्येद्भय आगते।
दैवभूतात्मकर्मभ्यो नारायणमयः पुमान् ॥५॥
पादयोर्जानुनोरूर्वोरुदरे हृद्यथोरसि।
मुखे शिरस्यानुपूर्वमोङ्कारादीनि विन्यसेत् ॥६॥
ऒम् नमो नारायणायेति विपर्ययमथापि वा।
करन्यासं ततः कुर्यात् द्वादशाक्षरविद्यया  ॥७॥
प्रणवादि यकारान्तमङ्गुल्यङ्गुष्ठपर्वसु।
न्यसेद्धृदय ऒङ्कारं विकारमनुमूर्धनि ॥८॥
षकारन्तु भ्रुवोर्मध्ये णकारं शिखयां न्यसेत्।
वेकारं नेत्रयोर्युञ्ज्यान्नकारं सर्वसन्धिषु ॥९॥
मकारमस्त्रमुद्दिश्य मन्त्रमूर्तिर्भवेत् बुधः।
सविसर्गं फडन्तं तत्सर्वदिक्षु विनिर्द्दिशेत् ॥१०॥
आत्मानं परमं ध्यायेद्ध्येयं षट्शक्तिभिर्युतम्।
विद्यातेजस्तपोमूर्तिमिमं मन्त्रमुदाहरेत् ॥११॥
ऒं- हरिर्विदध्यान्ममसर्वरक्षां
न्यस्ताङ्घ्रिपद्मः पतगेन्द्रपृष्ठे।
दरारिचर्मासिगदेषुचाप-
पाशान् दधानोऽष्टगुणोऽष्टबाहुः ॥१२॥
जलेषु मां रक्षतु मत्स्यमूर्तिः
यादोगणेभ्यो वरुणस्य पाशात्।
स्थलेषु मायावटुवामनोऽव्यात्
त्रिविक्रमः खेऽवतु विश्वरूपः ॥१३॥
दुर्गेष्वटव्याजिमुखादिषु प्रभुः
पायान्नृसिंहोऽसुरयूथपारिः।
विमुञ्चतो यस्य महाट्टहासं
दिशो विनेदुर्न्यपतंश्च गर्भाः ॥१४॥    
रक्षत्वसौ माध्वनि यज्ञकल्पः
स्वदंष्ट्रयोत्पातधरो वराहः।
रामोद्रिकूटेष्वथ विप्रवासे
सलक्ष्मणॊऽव्याद्भरताग्रजो माम्॥१५॥
मामुग्रकर्मादखिलात् प्रमादात्
नारायणः पातु नरश्च हासात्।
दत्तस्त्वयोगादथ योगनाथः
पायात्  गुणेशः कपिलः कर्मबन्धात्॥१६॥
सनत्कुमारोऽवतु कामदेवात्
हयाननो मां पथि देवहेलनात्।
देवर्षिवर्यः पुरुषार्चनान्तरात्
कूर्मो हरिर्मां निरयादशेषात् ॥१७॥
धन्वन्तरिर्भगवान् पात्वपथ्यात्
द्वन्द्वाद्भयादृषभो निर्ज्जितात्मा।
यज्ञश्च लोकाभवताज्जनान्ताद्
बलोद्गणात् क्रोधवशादहीन्द्रः ॥१८॥
द्वैपायनो भगवानप्रबोधात्
बुद्धस्तु पाषण्डगणात् प्रमादात्।
कल्किः कलेः कालमलात् प्रपातु
धर्मावनायोरुकृतावतारः ॥१९॥
मां केशवो गदया प्रातरव्यात्
गोविन्द आसंगव आत्तवेणुः।
नारयणः प्राह्ण उदात्तशक्ति-
र्माद्ध्यन्दिने विष्णुररीन्द्रपाणिः॥२०॥
देवोऽपराह्ने मधुहोग्रधन्वा
सायं त्रिधामावतु माधवो माम्।
दोषॆ हृशीकेश उतार्धरात्रे
निशीथ एकोऽवतु पद्मनाभः ॥२१॥
श्रीवत्सधामापररात्र ईशः
प्रत्यूष ईशोऽसिधरो जनार्दनः।
दामोदरोऽव्यादनुसन्ध्यं प्रभाते
विश्वेश्वरो भगवान् कालमूर्तिः ॥२२॥
चक्रं युगान्तानलतिग्मनेमि
भ्रमत्समन्तात् भगवत्प्रयुक्तम्।
दन्दग्धि दन्दग्ध्यरिसैन्यमाशु
कक्षं यथा वातसखो हुताशः ॥२३॥
गदेऽशनिस्पर्शनविस्फुलिङ्गे
निष्पिण्डि निष्पिण्ड्यजितप्रियाऽसि।
कूश्माण्डवैनायकयक्षरक्षो-
भूतग्रहांश्चूर्णय चूर्णयारीन् ॥२४॥
त्वं यातुधानप्रमथप्रेतमातृ
पिशाचविप्रग्रहघोरदृष्टीन्।
दरेन्द्र विभ्रावय कृष्णपूरितो
भीमस्वनोऽरेर्हृदयानि कंपयन् ॥२५॥
त्वं तिग्मधारासि वरारिसैन्य-
मीशप्रयुक्तो 
मम छिन्धि छिन्धि।
चक्षूंषि चर्मन् शतचन्द्र छादय
द्विषामघोनं हर पापचक्षुषाम् ॥२६॥
यन्नो भयं ग्रहेभ्योऽभूत् केतुभ्यो नृभ्य एव च।
सरीसृपेभ्यो दंष्ट्रीभ्यो भूतेभ्योंहेभ्य एव च ॥२७॥
सर्वाण्येतानि भगवन् नामरूपास्त्रकीर्तनात्।
प्रयान्तु संक्षयं सद्यो ये नः श्रेयः प्रतीपकाः ॥२८॥
गरुडो भगवान् स्तोत्रस्तोभच्छन्दोमयः प्रभुः।
रक्षत्वशेषकृच्छ्रेभ्यो विष्वक्सेनः स्वनामभिः ॥२९॥
स वापद्भ्यो हरेर्नाम रूपयानायुधानि नः।
बुद्धीन्द्रियमनःप्राणान् पान्तु पार्षदभूषणाः ॥३०॥
यदाहि भगवानेव वस्तुतः सदसच्च यत्।
सत्येनानेन नः सर्वे यान्तु नाशमुपद्रवाः ॥३१॥
यथैवात्मानुभावानां विकल्परहितः स्वयं
भूषणायुधलिङ्गाख्या धत्ते शक्तिः स्वमायया ॥३२॥
तेनैव सत्यमानेन सर्वज्ञो भगवान् हरिः।
पातु सर्वैः स्वरूपैर्नः सदा सर्वत्र सर्वगः ॥३३॥
विदिक्षुदिक्षूर्ध्वमधः समन्ता-
दन्तर्बहिर्भगवान् नारसिंहः।
प्रहापयं लोकभयं स्वनेन
स्वतेजसाग्रस्त समस्ततेजाः ॥३४॥
मघवन्निदमाख्यातं वर्म नारायणात्मकम्।
विजेष्यस्यञ्जसा तेन दाशितो सुरयूथपान् ॥३५॥
एतद्धारयमाणस्तु यं यं पश्यति चक्षुषा
पदा वा संस्पृशेद्सद्यः साध्वसात् स विमुच्यते ॥३६॥
न कुतश्चित् भयं तस्य विद्यां धारयतो भवेत्।
राजदस्युग्रहादिभ्यो व्याघ्रादिभ्यश्च कर्हिचित् ॥३७॥
इमां विद्यां पुरा कश्चित् कौशिको धारयन् द्विजः
योगधारणया स्वांगं जहौ स मरुधन्वनि ॥३८॥
तस्योपरि विमानेन गन्धर्वपतिरेकदा।
ययौ चित्ररथः स्त्रीभिर्वृतो यत्र द्विजक्षयः ॥३९॥
गगनान्यपतद्सद्यः स विमानोह्यवाक्शिराः
स बालखिल्यवचनादस्थिन्यादाय विस्मितः।
प्रास्य प्राचीसरस्वत्यां स्नात्वा धाम स्वमन्वगात्
श्री शुक उवाच-
यः इदं शृणुयात्काले यो धारयति चादृतः।
तं नमस्यन्ति भूतानि मुच्यते सर्वतो भयात्
एतां विद्यामधिगतोविश्वरूपाच्छतक्रतुः
त्रैलोक्यलक्ष्मीं बुभुजे विनिर्ज्जित्य मृधेऽसुरान् ॥४०॥

SANKASHTANASHANA VISHNU STOTRAM

       संकष्टनाशनविष्णुस्तोत्रम्
        (पद्मपुराणान्तर्गतम्)
नारद उवाच-
पुनर्दैत्यान् समायातान् दृष्ट्वा देवा सवासवाः।
भयात्प्रकंपिताः सर्वे विष्णुं स्तोतुं प्रचक्रमुः ॥१॥
देवा ऊचुः-
नमो मत्स्यकूर्मादिनानास्वरूपै-
स्सदा भक्तकार्योद्यतायार्तिहन्त्रे।
विधात्रादि सर्गस्थितिध्वंसकर्त्रे
गदाशंखपद्मारिहस्ताय तेऽस्तु ॥२॥
रमावल्लभायाऽसुराणां निहन्त्रे
भुजंगारियानाय पीताम्बराय।
मखादि क्रिया पाककर्त्रे विकर्त्रे
शरण्याय तस्मै नतास्मो नतास्म ॥३॥
नमो दैत्यसन्तापितामर्त्यदुःखा-
चलध्वंसदंभोलये विष्णवे ते ।
भुजंगेशतल्पेशयानायाऽर्कचन्द्र-
द्विनेत्राय तस्मै नतास्मो नतास्म ॥४॥
संष्टनाशनं नाम स्तोत्रमेतत्पठेन्नरः।
स कदाचित् न संकष्टैः पीड्यते कृपया हरेः॥५॥
Transliterated into Devanagari script from
http://www.stotraratna.sathyasaibababrotherhood.org/v22.htm

VISHNU PRATAH SMARANA STOTRAM

विष्णोः प्रातःस्मरणस्तोत्रम्
  (ब्रह्मानन्दविरचितम्)
प्रातः स्मरामि फणिराजतनौ शयानं
नागामरासुरनरादिजगन्निदानम् ।
वेदैः सहागमगणैरुपगीयमानं
कान्तारकेतनवतां परमं निधानम् ॥१॥
प्रातर्भजामि भवसागरवारिपारं
देवर्षिसिद्धनिवहैर्विहितोपहारम्।
संतृप्तदानवकदम्बमदापहारं
सौन्दर्यराशि जलराशिसुताविहारम् ॥२॥
प्रातर्नमामि शरदम्बरकान्तिकान्तं
पादारविन्दमकरन्दजुषां भवान्तम्।
नानावतारहृतभूमिभरं कृतान्तं
पाथोजकम्बुरथपादकरं प्रशान्तम् ॥३॥
श्लोकत्रयमिदं पुण्यं ब्रह्मानन्देनकीर्तितम्।
यः पठेत्प्रातरुत्थाय सर्वपापैः प्रमुच्यते ॥४॥

Transliterated into Devanagari script from
http://www.stotraratna.sathyasaibababrotherhood.org/v23.htm