श्रीकमलजदयिताष्टकम्
(श्रीशिवाभिनवनृसिंहभारतीस्वामिविरचितम्)
शृङ्गक्ष्माभृन्निवासे
शुकमुखमुनिभिः सेव्यमानाङ्घ्रिपद्मे
शुकमुखमुनिभिः सेव्यमानाङ्घ्रिपद्मे
स्वाङ्गच्छायाविधूतामृतकरसुरराड्वाहने
वाक्सवित्रि ।
वाक्सवित्रि ।
शंभुश्रीनाथमुख्यामरवरनिकरैर्मोदतः
पूज्यमाने
पूज्यमाने
विद्यां
शुद्धां च बुद्धिं कमलजदयिते सत्वरं देहि मह्यम् ॥ १ ॥
शुद्धां च बुद्धिं कमलजदयिते सत्वरं देहि मह्यम् ॥ १ ॥
कल्पादौ पार्वतीशः प्रवरसुरगणप्रार्थितः श्रौतवर्त्म
प्राबल्यं
नेतुकामो यतिवरवपुषागत्य यां शृङगशैले ।
नेतुकामो यतिवरवपुषागत्य यां शृङगशैले ।
संस्थाप्यार्चां
प्रचक्रे बहुविधनतिभिः सा त्वमिन्द्वर्धचूडा
प्रचक्रे बहुविधनतिभिः सा त्वमिन्द्वर्धचूडा
विद्यां
शुद्धां च बुद्धिं कमलजदयिते सत्वरं देहि मह्यम् ॥ २ ॥
शुद्धां च बुद्धिं कमलजदयिते सत्वरं देहि मह्यम् ॥ २ ॥
पापौघं
ध्वंसयित्वा बहुजनिरचितं किं च पुण्यालिमारा-
ध्वंसयित्वा बहुजनिरचितं किं च पुण्यालिमारा-
त्संपाद्यास्तिक्यबुद्धिं
श्रुतिगुरुवचनेष्वादरं भक्तिदार्ढ्यम् ।
श्रुतिगुरुवचनेष्वादरं भक्तिदार्ढ्यम् ।
देवाचार्यद्विजादिष्वपि
मनुनिवहे तावकीने नितान्तं
मनुनिवहे तावकीने नितान्तं
विद्यां
शुद्धां च बुद्धिं कमलजदयिते सत्वरं देहि मह्यम् ॥ ३ ॥
शुद्धां च बुद्धिं कमलजदयिते सत्वरं देहि मह्यम् ॥ ३ ॥
विद्यामुद्राक्षमालामृतघटविलसत्पाणिपाथोजजाले
विद्यादानप्रवीणे
जडबधिरमुखेभ्योऽपि शीघ्रं नतेभ्यः ।
जडबधिरमुखेभ्योऽपि शीघ्रं नतेभ्यः ।
कामादीनान्तरान्मत्सहजरिपुवरान्देवि
निर्मूल्य वेगात्
निर्मूल्य वेगात्
विद्यां
शुद्धां च बुद्धिं कमलजदयिते सत्वरं देहि मह्यम् ॥ ४ ॥
शुद्धां च बुद्धिं कमलजदयिते सत्वरं देहि मह्यम् ॥ ४ ॥
कर्मस्वात्मोचितेषु
स्थिरतरधिषणां देहदार्ढ्यं तदर्थं
स्थिरतरधिषणां देहदार्ढ्यं तदर्थं
दीर्घं
चायुर्यशश्च त्रिभुवनविदितं पापमार्गाद्विरक्तिम् ।
चायुर्यशश्च त्रिभुवनविदितं पापमार्गाद्विरक्तिम् ।
सत्सङ्गं
सत्कथायाः श्रवणमपि सदा देवि दत्वा कृपाब्धे
सत्कथायाः श्रवणमपि सदा देवि दत्वा कृपाब्धे
विद्यां
शुद्धां च बुद्धिं कमलजदयिते सत्वरं देहि मह्यम् ॥ ५ ॥
शुद्धां च बुद्धिं कमलजदयिते सत्वरं देहि मह्यम् ॥ ५ ॥
मातस्त्वत्पादपद्मं
न विविधकुसुमैः पूजितं जातु भक्त्या
न विविधकुसुमैः पूजितं जातु भक्त्या
गातुं
नैवाहमीशे जडमतिरलसस्त्वद्गुणान्दिव्यपद्यैः ।
नैवाहमीशे जडमतिरलसस्त्वद्गुणान्दिव्यपद्यैः ।
मूके
सेवाविहीनेऽप्यनुपमकरुणामर्भकेऽम्बेव कृत्वा
सेवाविहीनेऽप्यनुपमकरुणामर्भकेऽम्बेव कृत्वा
विद्यां
शुद्धां च बुद्धिं कमलजदयिते सत्वरं देहि मह्यम् ॥ ६ ॥
शुद्धां च बुद्धिं कमलजदयिते सत्वरं देहि मह्यम् ॥ ६ ॥
शान्त्याद्याः
संपदो वितर शुभकरीर्नित्यतद्भिन्नबोधं
संपदो वितर शुभकरीर्नित्यतद्भिन्नबोधं
वैराग्यं
मोक्षवाञ्छामपि लघु कलय श्रीशिवासेव्यमाने ।
मोक्षवाञ्छामपि लघु कलय श्रीशिवासेव्यमाने ।
विद्यातीर्थादियोगिप्रवरकरसरोजातसंपूजिताङ्घ्रे
विद्यां
शुद्धां च बुद्धिं कमलजदयिते सत्वरं देहि मह्यम् ॥ ७ ॥
शुद्धां च बुद्धिं कमलजदयिते सत्वरं देहि मह्यम् ॥ ७ ॥
सच्चिद्रूपात्मनो
मे श्रुतिमनननिदिध्यासनान्याशु मातः
मे श्रुतिमनननिदिध्यासनान्याशु मातः
संपाद्य
स्वान्तमेतद्रुचियुतमनिशं निर्विकल्पे समाधौ ।
स्वान्तमेतद्रुचियुतमनिशं निर्विकल्पे समाधौ ।
तुङ्गातीराङ्कराजद्वरगृहविलसच्चक्रराजासनस्थे
विद्यां
शुद्धां च बुद्धिं कमलजदयिते सत्वरं देहि मह्यम् ॥ ८ ॥
शुद्धां च बुद्धिं कमलजदयिते सत्वरं देहि मह्यम् ॥ ८ ॥
***
I published it sometimes ago on my blog. We have at least one different reading. Please check @ http://bit.ly/fP1RCT