१०. श्रीवाग्वादिनीषट्कम्
(श्रीशिवाभिनवनृसिंहभारतीस्वामिविरचितम्)
वरदाप्यहॆतुकरुणाजन्मावनिरपि पयॊजभवजायॆ ।
किं कुरुषॆ न कृपां मयि वद वद वाग्वादिनि स्वाहा ॥ १ ॥
किं वा ममास्ति महती पापततिस्तत्प्रभॆदनॆ तरसा ।
किं वा न तॆऽस्ति शक्तिर्वद वद वाग्वादिनि स्वाहा ॥ २ ॥
किं जीवः परमशिवाद्भिन्नॊऽभिन्नॊऽथ भॆदश्च ।
औपाधिकः स्वतॊ वा वद वदवाग्वादिनि स्वाहा ॥ ३ ॥
वियदादिकं जगदिदं सर्वं मिथ्याऽथवा सत्यम् ।
मिथ्यात्वधीः कथं स्याद्वद वद वाग्वादिनि स्वाहा ॥ ४ ॥
ज्ञानं कर्म च मिलितं हॆतुर्मॊक्षॆऽथवा ज्ञानम् ।
तज्ज्ञानं केन भवॆद्वद वदवाग्वादिनि स्वाहा ॥ ५ ॥
ज्ञानं विचारसाध्यं किं वा यॊगॆन कर्मसाहस्रैः ।
कीदृक्सॊऽपि विचारॊ वद वद वाग्वादिनि स्वाहा ॥ ६ ॥
***