HYMNS TO SHIVA – DAKSHINAMURTHY STOTRAM

३१.दक्षिणामूर्तिस्तोत्रम्

मन्दस्मितं स्फुरितमुग्धमुखारविन्दं
कन्दर्पकोटिशतसुन्दरदिव्यमूर्तिम्
आताम्रकोमलजटाघटितेन्दुरेखं
आलोकये वटतटीनिलयं दयालुम्
॥ १ ॥
वटविटपिसमीपे भूमिभागेनिषण्णं
सकलमुनिजनानां ज्ञानदातारमारात्
त्रिभुवनगुरुमीशं दक्षिणामूर्तिदेवं
जननमरणदुःखच्छेददक्षं नमामि
॥ २ ॥
चित्रं वटतरोर्मूले वृद्धाः
शिष्याः गुरुर्युवा ।
गुरोस्तु मौनं व्याख्यानं शिष्यास्तु
छिन्नसंशयाः ॥ ३ ॥
सुनिर्मलज्ञानसुखैकरूपं प्रज्ञानहेतुं
परमार्थदायिनम् ।
चिदंबुधौ तं विहरन्तमाद्यं
आनन्दमूर्तिं गुरुराजमीडे ॥ ४ ॥
ओं नमः प्रणवार्थाय शुद्धज्ञानैकमूर्तये
निर्मलाय प्रशान्ताय दक्षिणामूर्तये
नमः ॥ ५ ॥
गुरवे सर्वलोकानां भिषजे भवरोगिणाम्
निधये सर्वविद्यानां दक्षिणामूर्तये
नमः ॥ ६ ॥
अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया
चक्षुरुन्मीलितं येन तस्मै
श्री गुरवे नमः ॥ ७ ॥
अंगुष्ठतर्जनीयोगमुद्राव्याजेन
देहिनाम् ।
श्रुत्यर्थं ब्रह्मजीवैक्यं
बोधयन् नोऽवताच्छिवः ॥ ८ ॥
मुद्रापुस्तकवह्निनागविलसद्
बाहुं प्रसन्नाननं
मुक्ताहारविभूषितं शशिकलाभास्वज्जटामण्डलम्
अज्ञानापहमादिमादिमगिरामर्थं
भवानीपतिं
न्यग्रोधान्तनिवासिनं परगुरुं
ध्यायाम्यभीष्टाप्तये ॥ ९ ॥
                ***

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.