HYMNS TO KRISHNA – SHRI RADHAKRISHNA STOTRAM

श्री राधाकृष्णस्तोत्रम्
         
(नारदपाञ्चरात्रान्तर्गतम्)
वन्दे नवघनश्यामं पीतकौशेयवाससम्
सानन्दं सुन्दरं शुद्धं श्रीकृष्णं
प्रकृतेः परम् ॥ १ ॥
राधेशं राधिकाप्राणवल्लभं वल्लवीसुतम्
राधासेवितपादाब्जं राधावक्षस्थलस्थितम्
॥ २ ॥
राधानुगं राधिकेष्टं राधापहृतमानसम्
राधाधारं भवाधारं सर्वाधारं
नमामि तम् ॥ ३ ॥
राधाहृत्पद्ममध्ये च वसन्तं
सन्ततं शुभम् ।
राधासहचरं शश्वत् राधाज्ञापरिपालकम्
॥ ४ ॥
ध्यायन्ते योगिनो योगान् सिद्धाः
सिद्धेश्वराश्च यम् ।
तं ध्यायेत् सततं शुद्धं भगवन्तं
सनातनम् ॥ ५ ॥
निर्लिप्तं च निरीहं च परमात्मानमीश्वरम्
नित्यं सत्यं च परमं भगवन्तं
सनातनम् ॥ ६ ॥
यः सृष्टेरादिभूतं च सर्वबीजं
परात्परम् ।
योगिनस्तं प्रपद्यन्ते भगवन्तं
सनातनम् ॥ ७ ॥
बीजं नानावताराणां सर्वकारणकारणम्
वेदवेद्यं वेदबीजं वेदकारणकारणम्
॥ ८ ॥
योगिनस्तं प्रपद्यन्ते भगवन्तं
सनातनम् ।
गन्धर्वेण कृतं स्तोत्रं यः
पठेत् प्रयतः शुचिः ।
इहैव जीवन्मुक्तश्च परं याति
परां गतिम् ॥ ९ ॥
हरिभक्तिं हरेर्दास्यं गोलोकं
च निरामयम् ।
पार्षदप्रवरत्वं च लभते नात्र
संशयः ॥ १० ॥
             ***

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.