HYMNS TO KRISHNA – SRIKRISHNA STOTRAM (VIPRAPATNI KRITAM)

             श्री कृष्णस्तोत्रम्

             (विप्रपत्नीकृतम्)
त्वं ब्रह्म परमं धाम निरीहो
निरहंकृतिः ।
निर्गुणश्च निराकारः साकारस्सगुणः
स्वयम् ॥ १ ॥
साक्षिरूपश्च निर्लिप्तः परमात्मा
निराकृतिः ।
प्रकृतिः पुरुषस्त्वं च कारणं
च तयोः परम् ॥ २ ॥
सृष्टिस्थित्यन्तविषये ये च
देवास्त्रयः स्मृताः ।
ते त्वदंशास्सर्वबीजाः ब्रह्मविष्णुमहेश्वराः
॥ ३ ॥
यस्य लोम्नां च विवरे चाखिलं
विश्वमीश्वर ।
महाविराण् महाविष्णुः त्वं
तस्य जनको विभो ॥ ४ ॥
तेजस्त्वं चापि तेजस्वी ज्ञानं
ज्ञानी च तत्परः ।
वेदेऽनिर्वचनीयस्त्वं कस्त्वां
स्तोतुमिहेश्वरः ॥ ५ ॥
महदादेस्सृष्टिसूत्रं पञ्चतन्मात्रमेव
च ।
बीजं त्वं सर्वशक्तीनां सर्वशक्तिस्वरूपकः
॥ ६ ॥
सर्वशक्तीश्वरः सर्वः सर्वशक्त्याश्रयस्सदा
त्वमनीहः स्वयंज्योतिः सर्वानन्दस्सनातनः
॥ ७ ॥
अहो आकारहीनस्त्वं सर्वविग्रहवानपि
सर्वेन्द्रियाणां विषयं जानासि
नेन्द्रियी भवान् ॥ ८ ॥
सरस्वती जडीभूता यत्स्तोत्रे
यन्निरूपणे ।
जडीभूतो महेशश्च शेषो धर्मो
विधिः स्वयम् ॥ ९ ॥
पार्वती कमला राधा सावित्री
वेदसूरपि ।
वेदश्च जडतां याति को वा शक्ता
विपश्चितः ॥ १० ॥
वयं किं स्तवनं कुर्मः स्त्रियः
प्राणेश्वरेश्वर ।
प्रसन्नो भव नो देव दीनबन्धो
कृपां कुरु ॥ ११ ॥
विप्रपत्नीकृतं स्तोत्रं पूजाकाले
च यः पठेत् ।
स गतिं विप्रपत्नीनां लभते
नात्र संशयः ॥ १२ ॥
                ***

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.