SRI SIVA ASHTOTHARA SATANAMA STOTRAM

 शिवाष्टोत्तरशतनामस्तोत्रम्
शिवो महेश्वरः शंभुः पिनाकी शशिशेखरः
वामदेवो विरूपाक्षः कपर्दी नीललोहितः  ॥१-९॥
शंकरः शूलपाणिश्च खट्वांगो विष्णुवल्ल्लभः
शिपिविष्टोऽम्बिकानाथः श्रीकण्ठो भक्तवत्सलः ।१०-१७॥
भवश्शर्वस्त्रिलोकेशः शितिकण्ठो शिवाप्रियः
उग्रः कपर्दी कामारिः अन्धकासुरसूदनः ॥१८-२६॥
गंगाधरो ललाटाक्षः कालकालो कृपानिधिः
भीमः परशुहस्तश्च मृगपाणी जटाधरः ॥२७-३४॥
कैलासवासी कवची कठोरः त्रिपुरान्तकः
वृषाङ्को वृषभारूढः भस्मोद्धूलितविग्रहः  ॥३५-४१॥
सामप्रियो स्वरमयः त्रयीमूर्तिरनीश्वरः
सर्वज्ञो परमात्मा च सोमसूर्याग्निलोचनः ॥४२-४८॥
हविर्यज्ञमयस्सोमः पञ्चवक्त्रो सदाशिवः
विश्वेश्वरो वीरभद्रः गणनाथः प्रजापतिः  ॥४९-५७॥
हिरण्यरेता दुर्धर्षो गिरीशः गिरिशोऽनघः
भुजंगभूषणो भर्गः गिरिधन्वा गिरिप्रियः ॥५८-६६॥
कृत्तिवासा पुरारातिः भगवान् प्रमथाधिपः
मृत्युंजयः सूक्ष्मतनुर्जगद्व्यापी जगद्गुरुः ॥६७-७४॥
व्योमकेशो महासेनजनकश्चारुविक्रमः
रुद्रो भूतपति स्थाणुः अहिर्बुध्न्यो दिगंबरः॥७५-८२॥
अष्टमूर्तिरनेकात्मा सात्त्विको शुद्धविग्रहः
शाश्वतः खण्डपरशुः अजः पापविमोचनः॥८३-९०॥
मृडः पशुपतिर्देवो महादेवोऽव्ययो हरिः
भगनेत्रभिदव्यक्तो दक्षाध्वरहरो हरः ॥९१-१००॥
पूषदन्तभिदव्यग्रो सहस्राक्षः सहस्रपात्
अपवर्गप्रदोऽनन्तः तारको परमेश्वरः ॥१०१-१०८॥

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.